________________
( ३३८ )
[ द्वितीयाकारकद्वितीयखण्डे
अत्र प्रकृतिरपि ग्राह्या, अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः । विकार्य पदेनैकव्युत्पच्या प्रकृतिविकृत्युभयाऽबोधनेप्युभयसाधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम् ।
प्रकृतिरूपं कर्म च क्रियया वस्त्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्वरूप विकारो निर्वाह्यते तद् यथा- पाकादेस्तण्डुलादि कृतेश्व पुष्पकाशादि, तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टतदसत्त्वमोदनादिरूपकर्मान्तरनिष्पादकम्, इतरत्र धर्मिणः काशकुसुमादेः सत्त्वेपि कटसंदर्भादिवि-रहरूपपूर्वभावासवेन तद्विशिष्टस्यासत्वं कटसंदर्भादिनिष्पादकक्रियातो निप्रकृतिभूतसुवर्णादेर्विनाशं विनैवाऽऽकारादिगुणान्तरमुत्पद्यते इति कुण्डलादिकं द्वितीयं विकार्य कर्म, एत्रमेव कटादीनां माल्यादीनां च द्वितीयविकार्यकर्मत्वमेव विज्ञेयम् एतद् विकार्यकर्मैव विकृतिकर्मेति च ज्ञेयम् । ननु काशादिरूपप्रकृतिकर्मणोपि सत्त्वाच्चातुर्विध्यमेव स्यादित्याशङ्कायामाह - अत्रेति, अत्र विकार्यकर्मणा प्रकृतिकर्मापि संप्रायमऽन्यथा काष्टसुवर्णादिरूपप्रकृतिकर्मस्तुरीयत्वं स्यात् विकार्य पदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयबोधनासंभवेप्युभयसाधारणं यत् कर्मत्वं तदवच्छिन्ने विकार्यपदं पारिभाषिकमित्यर्थः । किं वा विकार्यते यत् तत् विकार्यं विकृतिः, -विकार्यते यस्मिन् तद् विकार्य प्रकृतिः, इत्येवं व्युत्पत्त्या विकार्यपदस्य प्रकृतिविकृत्युभयबोधकत्वमपि संभवत्येव । यद्यप्येतत्प्रतिपादनेन विकार्य कर्मण स्त्रैविध्यात्कर्मणश्वातुर्विध्यं प्राप्तं तथापि लोकोक्त विकार्यभेदद्वयस्यैकविधत्वमेव विज्ञेयमिति पूर्वोक्तकर्मत्रैविध्यप्रतिज्ञाविरोधो नास्तीति ध्येयम् ।
सादर्श:
प्रकृतिकर्मणः स्वरूपमाह - प्रकृतिरूपमिति । क्रियया-पाकादिक्रियया । वस्त्वन्तरनिष्पखये=विकृतिरूपौदनादिवस्तुसिद्धयर्थम् । पूर्वभावविशिष्टस्य = पूर्वरूपविशिष्टस्य, पूर्वं प्रकृत्यवस्थाकालिकं यद्रूपं तण्डुलस्वरूपं तद्विशिष्टस्य तण्डुलस्येति यावत् । यस्य = प्रकृतिभूततण्डुलादेः । असत्त्वरूपः=ध्वंसरूपः । विकार इति-व्यंसरूपासत्त्वस्यापि प्रकृतिविकाररूपत्वात् । निर्वाह्यते== ओदनादिविकारानुगुणतया संपाद्यते इत्यर्थः । तथा च यस्याऽसत्त्वरूपविकारेणौदनादिलक्षणविकारः ( कार्य ) जायते तत् प्रकृतिकर्मेति लब्धम् । उदाहरति-यथेति । कर्मणि कर्मत्वस्य धात्वर्थमात्र निरूपितत्वाद् धात्वर्थस्यैव कर्म भवतीति तण्डुलादिकं पाकस्यैव धात्वर्थस्य तण्डुछानोदनं पचति ' इत्यत्र प्रकृतिकर्मेत्यभिप्रायेण षष्ठयन्तं पाकपदमाह-- पाकादेरिति, एवमेव 'काशान् कटं करोति इत्यादौ धात्वर्थकृतेरेव ' पुष्पकाशादिकं प्रकृतिकर्मेति षष्ठ्यन्तकृतिपदमाह-कृतेश्वेति । उक्तलक्षणसमन्वयमाह - तत्रेति, प्रथमस्थले = प्रथमे तण्डुलरूपप्रकृतिकर्मोदाहरणे । पूर्वभावविशिष्टतदसत्त्वम् - पूर्वभावविशिष्टस्य तण्डुलस्य तत्-पाकेन जायमानमसत्त्वमोदनादिकर्मान्तरस्य कार्यस्य निष्पादकं भवति 1 इतरत्र - द्वितीयोदाहरणे कटमाल्यादिकार्यावस्थायां प्रकृतिभूतकाशकुसुमादेः सत्त्वेन न तदसत्त्वं माल्यादिविकार्यकर्मसंपादकं भवति किं तु कटसंदर्भादिविरहरूपो यः पूर्वभाव: ( प्रागभावः ) पुष्पादिविशेषणी
,
"Aho Shrutgyanam"