________________
'प्रकृतिविकृतिकर्मोत्तरद्वितीयार्थः ] व्युत्पत्तिवादः ।
( ३३९ )
वहति, एवं च ' तण्डुलानोदनं पचति ' इत्यादौ प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्वमर्थः तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्वोत्पादकत्वमर्थ ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेऽन्वयः । नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते. अतः पाकस्य तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशेनाऽन्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचति' इति न प्रयोगः
भूतं स्वरूपम् ( काशपुष्पाद्यवस्थायां कार्यभूतकटसंदर्भाद्यभावस्यैव सत्त्वात् ) तस्य पूर्वभावस्य कटसंदर्भाद्यभावरूपस्य कटसंदर्भाद्यवस्थायामसत्त्वेन कटसंदर्भादिनिष्पादकक्रियातः प्रकृतिभूतकाशकुमादिविशेषणीभूतस्य कटसंदर्भाद्यभावस्याऽसत्त्वं जायते इति तद्विशिष्टस्य = कटसंदर्भाभावविशिष्टस्य काशकुसुमादेरसत्त्वं क्रियातो निर्वहति = जायते एव विशेषणाभावेनापि विशिष्टामावस्य सर्वसंमतत्वादिति तेनासत्त्वेन कटसंदर्भादिरूपं कार्यमुत्पद्यते इत्यर्थः । उपसंहरन् द्वितीयार्थमाह-- एवं चेति । प्रकृतिकर्मोत्तरद्वितीयायाः तण्डुलादिपदोत्तरद्वितीयायाः । प्रकृतिभूततण्डुलादेर्निरूपितत्वसंबन्धेन द्वितीयार्थनाशकत्वेऽन्वयस्तस्य चाश्रयतासंबन्धेन स्वरूपसंबन्धेन वा पाकेऽन्वयः । विकृतिकर्मोत्तर द्वितीयायाः =ओदनादिपदोत्तरद्वितीयायाः । विकृतिभूतौदनादेर्नि - रूपितत्संबन्धेन द्वितीयार्थोत्पादकत्वेऽश्वयस्तस्य चाश्रयतासंबन्धेन स्वरूपसंबन्धेन वा नाशकत्वविशिष्टे पाकेऽन्वयः । उत्पत्तेरिति षष्ठ्यर्थो निरूपितत्वमिति तण्डुलादिप्रकृतिनाशानन्तरमेवौदनादेर्जायमानत्वेन नाशे उत्पत्तिप्रयोजकत्वं यदस्ति तद् उद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते इत्याह- नाशे चेति, 'तण्डुलानोदनं पचति ' इत्यत्र तण्डुलानुदिश्यौदनोत्पत्तिर्विधीयते तण्डुलेषु च नाशो विशेषणम्- नाशस्य तण्डुलवृत्तित्वादिति नाशोऽत्रोद्देश्यतावच्छेदको विधेया चौदनोत्पत्तिरिति नाशोत्पत्त्योरुद्देश्यतावच्छेदविधेयभावः प्राप्तस्तत्रोद्देश्यतावच्छेदकमेव विधेयप्रयोजकं भवति यथा 9 ब्राह्मणः पूज्यः इत्यत्र विधेयस्य पूजनस्योद्देश्यतावच्छेदकं ब्राह्मणत्वमेव प्रयोजकं तथात्राप्युद्देश्यतावच्छेदकस्य नाशस्योत्पत्तिप्रयोजकत्वं नियमेन भासते इत्यर्थः । उक्तस्था फलमाह- अत इति, अत्र पाकस्येत्यनन्तरम् ' तण्डुलनाशजनकत्ववत् ' इति शेषः । तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेपि = तण्डुलावयवसंयोगनाशजनकत्वेपि । तन्नाशस्य=तण्डुलावयवसंयोगनाशस्य | द्रव्यनाशेन :- तण्डुलनाशेन ( तण्डुलावयवसंयोगनाशेन तण्डुलनाशो भवतीति ) अन्यथासिद्धतया=तण्डुलनाशे चरितार्थत्वाद् द्रव्यान्तरस्य=ओदनस्योत्पत्तौ प्रयोजकत्वं न संभवतीति' संयोगमोदनं पचति । इति प्रयोगापत्तिर्नास्ति, यदि संयोगनाशस्य तण्डुलनाशेनाप्यो दनोत्पत्तावन्यथासिद्धत्वं स्यात्तदा तण्डुलनाशस्येव तण्डुलावयवसंयोगनाशस्यायोनोत्पत्तौ प्रयोजकत्वे ' तण्डुलानोदनं पचति इतिवत् ' संयोगमोदनं पचति । इत्यपि प्रयोगः स्यादेव न चैतदिष्टमित्यर्थः ।
" Aho Shrutgyanam"