________________
(३४०)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डेवस्तुतस्तु निर्वय॑कर्मासमभिव्याहारस्थले 'संयोगं पचति । इतिप्रयोगवारणाय संयोगनाशद्वारा नाशकत्वमेव द्वितीयार्थों वक्तव्य इति कृतं प्रयोज्यप्रयोजकभावबोधनेन । __'तण्डुलमोदनं करोति ' 'काष्ठं भस्म करोति । 'दुग्धं दधि करोति' इत्यादावपि प्रकृतिकोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकोत्तरद्वितीयया च विषयताविशेष उत्पादकत्वं वा मिलितमुभयं वा कृतौ बोध्यते । 'काशान् कटं करोति ' 'कुसुमानि मौक्तिकानि वा नजं करोति' इत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयताविशेषमेव बोधयति- काशाद्युच्छेदकतायास्तत्र बाधात् । 'कटम् ' इत्यादौ द्वितीयार्थः पूर्ववत् । स्रगादिपदार्थविन्यासविशेषविशिष्टकुसुमादेर्न कुसुमाद्युपादानककृतिविषयता. अपि तु विन्यासादि.
वस्तुतस्तूक्तरीत्या ' संयोगमोदनं पचति । इतिप्रयोगापत्तिवारणे कृतेपि 'संयोगं पचति । इति प्रयोगस्यापत्तिस्त्वऽस्त्येव- पूर्ववदत्रौदनोत्पत्तेविधयत्वमेव नास्ति येनौदनोत्पत्तिं प्रति तण्डु'लावयवसंयोगनाशस्यान्यथासिद्धत्वात् — संयोगं पचति ' इति प्रयोगो न स्यादित्याशङ्कयाहवस्तुतस्त्विति, निवर्त्यकर्मणः-ओदनादिकर्मणः । निर्वर्त्यकर्मसमभिव्याहाररहितस्य — संयोग पचति ' इति प्रयोगस्य वारणाय संयोगनाशद्वारा नाशकत्वस्य द्वितीयार्थत्वं स्वीकार्य तथा च गुणे गुणानङ्गीकारेण संयोगे संयोगान्तराभावात् संयोगपदोत्तरद्वितीयायाः संयोगनाशद्वारा नाशकत्वमर्थो न संभवतीति न 'संयोग पचति ' इति प्रयोगापत्तिरस्ति । एवमेव निवर्त्यकर्मसमभिव्याहारस्थलेपि द्वितीयायाः संयोगनाशद्वारा नाशकत्वार्थकत्वं स्वीकृत्य — संयोगमोदनं पचति । इति प्रयोगस्यापत्तिनिवारण संभवतीति कृतमुत्पत्तिनाशयोरुक्तप्रयोज्यप्रयोजकमावबोधनेनेत्यर्थः। यत्पदार्थावयवसंयोगस्य पाकेन नाशः संभवेत् तादृशतण्डुलादिपदार्थवाचकपदात् पचतीत्यादिसमभिव्याहारे द्वितीया भविष्यतीति भावः ।' तण्डुलानोदनं पचति' इत्यत्र हि तण्डुलावयवसंयोगनाशद्वारा तण्डुलनाशको य ओदनोत्पादको व्यापारस्तदनुकूल कृतिमानिति शाब्दबोधः ।
प्रयोगान्तरमुदाहरति- तण्डुलमोदनमिति, तन्नाशकत्वम्-प्रकृतिभूततण्डुलादिनाशकत्वम् । विकृतिः ओदनादिः । विषयताविशेषः साध्यताख्यविषयता तस्याः कृतौ निरूपकत्वसंबन्धेनान्वयः प्रयोगान्तरमुदाहरति-काशानिति, कटादिसंपादने तत्प्रकृतिभूतकाशादीनां नाशो न दृश्यते इति काशादिपदोत्तरद्वितीयाया नाशकत्वार्थकत्वासंभवाद् विषयताविशेषः-उपादानताख्यविषयतैवार्थस्तस्याः कृतौ निरूपकत्वसंबन्धेनान्वयः। तत्र-कृतौ । पूर्ववदिति- विकृतिबाचककटादिपदोत्तरद्वितीयायाः साध्यताख्यविषयता वा उत्पादकत्वं वार्थः । द्वितीयान्तलगादिपदार्थमाह- स्रगादीति, कुसुमाद्युपादानककृत्या स्रगादिपदार्थो यो विन्यासविशेषो माल्याकारता तद्विशिष्टकुसुमादेरुत्पत्तिन भवति पूर्वमेव सिद्धत्वात् किं तु तादृशस्य विशेषणीभूतस्य विन्यासविशेषस्यैवेति तस्यैव कुसुमाग्रुपादानककृतिविषयता ( कृतिसाध्यता ) अस्तीति ‘स्रजम् ,
"Aho Shrutgyanam"