________________
द्वितीयार्थविशेषाः ]
व्युत्पत्तिवादः ।
( ३४१ )
रूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति सजमित्यादिद्वितीयान्तस्य विशिष्टसवनिर्वाहकत्वमर्थः, विशेषणोत्पादकस्यापि स्वरूपसंबन्धविशेषरूपं विशिष्टसत्वनिर्वाहकत्वमक्षतमेव ।
अग्निः श्यामं रक्तं करोति' इत्यादावचेतनकर्तृव्यापारबोधककरोतिसमभिव्याहृतश्यामादिपदोत्तराद्वितीयाया अपि नोपादानताख्यविलक्षण विषयतार्थकत्वसंभवः अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपं विशिष्टच्छेदकत्वं तादृशव्यापारे प्रत्याय्यते । 'घटं रक्तं करोति' इत्यादावपि घटादिपदस्याsरक्तत्वविशिष्टघटादिलाक्षणिकतया विशिष्टघटाद्यसत्त्वनिर्वाहकत्वं
प्रतीयते ।
प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यत. अतः 'काष्ठानि भस्मराशिः क्रियन्ते' इत्यादावाख्यातार्थविशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य न तु निर्वर्त्यभस्मादिरूपविकारवाचक पदसमानवचनता ।
"
इति द्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वम् विन्यासविशिष्ट कुसुमादिसंपादकत्वमर्थस्तस्य चाश्रयतासंबन्धेन स्वरूपसंबन्धेन वा कृतावन्वयः । ननु कुसुमानां पूर्वमेव सिद्धत्वात् कथं तत्संपादकत्वं कृतौ स्यादित्याशङ्क्याह - विशेषणेति, विशेषणोत्पादकस्य व्यापारस्य । विशिष्टस्य पूर्वमसिद्धत्वेन तत्संपादनसंभवादित्यर्थः । कृतिविषयता तु विन्यासादेरेवेत्यर्थः । तादृशविशिष्टसत्त्वनिचहकत्वं च व्यापारे स्वरूपसंबन्धेन वर्तत इत्युक्तम् - " स्वरूप इति ।
प्रयोगान्तरमुदाहरति-- अग्निरिति । वैशेषिकनये श्यामघटनाशानन्तरमेव रक्तघटोत्पत्तेः स्वीकारेण श्यामवटस्योपादानत्वासंभवान्न श्यामपदोत्तरद्वितीयाया उपादानताख्यविषयतार्थकत्वं संभवतीति श्यामरूपादिविशिष्टस्य घटस्य यदसत्त्वं विनाशस्त निर्वाहकतारूपं विशिष्टो च्छेदकस्वम् =श्यामादिरूप विशिष्टघटाद्युच्छेदकत्वं द्वितीयान्तार्थस्तस्य तादृशव्यापारे = उक्ता चेतनकर्तृकव्यापारे आश्रयतासंबन्धेन स्वरूपसंबन्धेन वान्वय इत्यर्थः । 'घटं रक्तं करोति' इत्यत्र च घटपदस्याsरक्तत्वविशिष्टघटे लक्षणा तथा चाऽरक्तत्वविशिष्टघटनाशकत्वं द्वितीयार्थस्तस्य कृतावन्त्रयः पूर्ववदिति कृतावऽरक्तत्वादिविशिष्टघटाय सत्त्वसंपादकत्वं प्रतीयत इत्याह-- घटं रक्तमिति ।
८
काष्ठानि भस्मराशिः क्रियन्ते ' इत्यादिप्रकृति विकृतिभावस्थले ( काष्ठं प्रकृतिः भस्म च विकृतिः ) कर्माख्यातेन प्रकृतेरेव कर्मत्वं प्रत्याय्यते इति आख्यातार्थविशेष्यता प्रकृतिभूतकाष्ठादावेवेति काष्ठादिपदसमानवचनत्वमेवाख्यातस्य प्राप्तं न तु निर्वर्त्यभस्मादिवाचकपदसमानवचमत्वं तत्कर्मत्वबोधनादित्याह - प्रकृतीति । एवकारो भिन्नक्रम इति 'प्रकृतेरेव ' इत्यन्वयः । एतपूर्वमपि ( ३०८ पृ.) प्रतिपादितम् ।
"Aho Shrutgyanam"