________________
( ३४२ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
अथैवं निर्वर्त्यकर्मवाचकपदात् प्रथमा न स्यादपि तु द्वितीयैव-तत्कर्मताया लकारेणानभिधानात् ।
Cs
37
यत्तु उभयकर्मत्वमेव लकारेणाभिधीयते - प्रधानाऽप्रधानकर्मसमभिव्याहृतनीबहादिदुहादिरूपद्विकर्मकोत्तरकर्मप्रत्ययस्यैव कर्मत्वद्वयानभिधायकत्वनियमात्. प्रकृते च कर्मद्वयस्यैव तुल्यत्वात् । विकृतेराख्यातार्थविशेष्यत्वेप्याऽऽख्यातस्य तत्समानवचनत्वानियमः गृह्णाति वाचकः संख्यां प्रकृतेर्विकृतेर्न हि नुशासनसिद्धप्रकृतिविकृतिसमभिव्याहतलकारीयविकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियापदस्यैकवचनान्तता, तदर्थान्वितसंख्याबोधकस्यैवाख्यातस्य तत्पदसमानवचनत्वानियमात् न तु तद्विशेष्यकस्वार्थकर्मत्वादिवोधजनकाख्यातमात्रस्येति ।
.
ननु कर्माख्याते यत्कर्मत्वमभिधीयते तद्वाचकपदात् प्रथमा भवति द्वितीयाप्रतिपाद्यकर्मत्वस्याख्यातेनैव प्रतिपादितत्वादिति यदि ' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्र कर्माख्यातेन केवलं काष्ठकर्मत्वमेव प्रत्याय्यते न भस्मराशिकर्मत्वं तदा भस्मराशिपदात् प्रथमा न स्यात् किं तु भस्मराशिकर्मत्वाभिधानार्थं द्वितीयैव स्यादित्याशङ्कते - अथेति ।
परिहाराय मतान्तरमनुवदति - यत्त्विति, ' काष्टानि भस्मराशिः क्रियन्ते इत्यत्रो भयकर्मत्वम्=काष्टकर्मत्वं भस्मराशिकर्मत्वं चाख्यातेनाभिधीयते एवेति न भस्मराशिपदाद् द्वितीया - पेक्षेत्यर्थः । नन्वेकेन कर्माख्यातेनोभयकर्मत्वाभिधानं कथं स्यादित्याशङ्क्याह-प्रधानेति, ' अजा ग्रामं नीयते ' इत्यादौ द्विकर्मकनीवहादिदुहादिधातूत्तरवर्तमानकर्माख्यातेन कर्मत्वद्वयाभिधानं न भवतीति नियमोस्ति न तु सर्वत्र तथा च प्रकृते' काष्ठानि भस्मराशिः क्रियन्ते इत्यत्र कर्मद्वयस्यैव तुल्यत्वादुभयकर्मत्वमाख्यातेनाभिधीयते एवेति न प्रथमाऽनुपपत्तिरित्यर्थः । ननु यदि विकृतिभूतो यो भस्मराशिस्तत्कर्मत्वमप्याख्यातेनाभिधीयते तदा विकृतेः = मस्मराशेरव्याख्यातार्थविशेष्यत्वं प्राप्तमेव तथा चाख्यातस्य विकृतिवाचकपदसमानवचनत्वं किं न स्यादिस्वाशङ्क्याह-विकृतेरिति, विकृतेराख्यातार्थविशेष्यत्वेप्याख्यातस्य विकृतिवाचकपदसमानवचनत्वं न भवति किं तु प्रकृतिवाचकपदसमानवचनत्वमेव भवति, अत्र प्रमाणमाह-गृह्णातीति, वाचकः= कर्मत्ववाचक आख्यातप्रत्ययः । इत्यनुशासनेन सिद्धा या प्रकृति विकृत्युभयसमभिव्याहृतलकारस्य = आख्यातस्य विकृतिसंख्याबोधकत्वाभावविषया व्युत्पत्तिस्तन्निर्वाह्यः तत्प्रमाणक आख्यातस्य विकृतिवाचकपदसमानवचनत्वाऽनियमोस्तीत्युक्तस्थले' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्र न क्रियापदस्यैकवचनान्तता । आख्यातस्य यदर्थान्त्रितसंख्याबोधकत्वं भवति तद्वाचकपदसमानवचनत्वं भवति नत्वाख्यातार्थविशेष्यमात्रवाचकपद समानवचनत्वमित्यत्राख्यातस्य काष्ठपदसमानवचनत्वमेव न भस्मराशिपदसमानवचनत्वमित्यर्थः । तद्विशेष्यकेति - यथा भस्मराशि - विशेष्यको यः स्वार्थभूतः कर्मत्वादिस्तद्विषयक बोधजनकाख्यातमात्रस्य न तद्वाचकपदसमानव
"Aho Shrutgyanam"
इत्य
"