________________
प्रकृतकर्मत्वाभिधानविचार : ]
व्युत्पत्तिवादः ।
( ३४३ )
76
$
तदसत् - विकारविकारिणोर्द्वयोराख्यातार्थविशेष्यत्वे वाक्यभेदापत्तेः । ' घट पटौ स्तः घटपट इयेते' इत्यादौ विशेष्यभेदेपि विशेष्यतावच्छेदकद्वित्वादेरेकधा भानान्न वाक्यभेदः, अत्र च न तादृशविशेष्यतावच्छेदकभानमस्ति येन तत्रैवात्राप्येकवाक्यतानिर्वाहः (स्यात् ? ) । न चागत्येष्यते एवात्र वाक्यभेद इति वाच्यम्, तथा सत्येकवाक्यार्थपरस्य ' काष्ठं क्रियते ' भस्म क्रियते ' इत्येतादृशप्रयोगस्यापत्तेः । ' काष्ठं भस्म क्रियते ' इति वाक्यजबोधस्य काष्ठविकृतिभस्माऽन्यविकृतिर्वेतिसंशयनिवर्तकत्वानुपपत्ते:- काष्ठभस्मनोः प्रकृतिविकारभावोऽभानात् । अस्मन्मते च काष्ठोच्छेदकत्वरूपकाष्ठकर्मकत्व-भस्म निर्वर्तकत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वये एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभसंभवादिति चेत् ?,
इत्यत्र
श्चनत्वं भवतीति विकृतेराख्यातार्थविशेष्यत्वेपि न तद्वाचकपदसमानवचनत्वमाख्यातस्येति प्राप्तम् ।। परिहरति- तदसदिति, विकारविकारिणोः = विकृतिप्रकृत्योरुभयोरप्याख्यातार्थविशेष्यत्वे प्रतिविशेष्यं वाक्यसमाप्तिनियमेन वाक्यभेदः स्याद् यथा - ' काष्ठानि भस्मराशिः क्रियन्ते 'काष्ठानि क्रियन्ते' 'भस्मराशिः क्रियते' इति । ननु यथा 'घटपटौ स्तः' इत्यादौ वटपटयोरुमयोव्याख्यातार्थविशेष्यत्वेपि न वाक्यभेदस्तथा प्रकृतिविकृत्योरुभयोरप्याख्यातार्थविशेष्यत्वेपि नोक्तस्थळे वाक्यभेद इत्याशङ्क्याह-घटपटाविति, 'घटपटौ स्तः' इत्यादौ विशेष्यभेदेपि विशेष्यतावच्छेदकं द्वित्वमेकमेवेति' घटपटौ द्वौ स्तः इत्येवं शाब्दबोधस्वीकारान्न वाक्यभेदप्रसङ्गः । भत्र = ' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्र च न तादृशस्यैकस्य विशेष्यतावच्छेदकस्य मानमस्ति येन तत्रेव = | घटपटौ स्तः इत्यत्रेवात्रापि = ' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्राप्येकवाक्यतानिर्वाहः स्यादित्यर्थः, स्यादिति शेषः । ननु गत्यभावादिष्ट एव वाक्यभेद इत्याशङ्क्याह - न चेति, परिहारमाह- तथा सतीति, उक्तस्थले वाक्यभेदस्येष्टत्वे ' काष्टानि भस्मराशि: क्रियन्ते ' इत्यस्य स्थाने ' काष्ठं क्रियते ' भस्म क्रियते ' इतिवाक्यद्वयस्यापि प्रयोगः स्यात्न चैतदिष्टम् - काष्ठस्य सिद्धत्वादिति न वाक्यभेदेष्टापत्तिः संभवति । किं च यदि काष्ठं भस्म क्रियते ' इत्यादिप्रकृति विकृतिसमभिव्याहारस्थले वाक्यभेद एव स्यात्तदा काष्ठमस्मनो: प्रकृति विकृतिभावस्य मानासंभवात् काष्ठभस्मनोः पृथक् पृथग् वाक्यबोध्यत्वाद् भस्म काष्ठविकृतिर्वा - ऽन्यविकृतिर्वेति संशयोच्छेदकत्वमुक्तवाक्यजन्यबोधस्य न स्याद् अस्ति चैतत्संशयोच्छेदकत्वमिति न वाक्यभेदः स्वीकर्तुं शक्यते इत्यर्थः । ननु वाक्यभेदाभावेपि तव मते कथमेतत्संशयोच्छेदकत्व - . मुक्तवाक्यजन्यबोधस्य स्यादित्या शङ्क्याह- अस्मन्मते इति, अस्मन्मते तु " काष्ठं भस्म क्रियते इत्यादी वाक्यभेदो नास्तीति काष्ठोच्छेदकत्वरूपं यत् काष्ठकर्मकत्वं तद्विशिष्टे एवं करोत्यर्थन्यापारेऽपरस्य भस्म निर्वर्तकत्वरूपस्य तत् = भस्मकर्मकत्वस्यान्वयो भवतीति पूर्वम् " एवं च तण्डुलान् ३३९ पृ. " इत्यादिनोपदर्शितरीत्यैव काष्ठोच्छेद ( काष्ठनाश ) प्रयोज्योत्पत्तिकत्वरू
L
,
9
"Aho Shrutgyanam"
4