________________
( ३४४ )
सादर्श:
[ द्वितीयाकारकदितीयखण्डे
सत्यम् - काष्ठं भस्म क्रियते, इत्यादौ भस्मादिनिर्वर्त्यकर्मताया लकारेणाभिधानेपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकर्मोंत्तरं प्रथमायाः साधुता । प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुत्वात् । यथा 'अर्यो नमः' इत्यादौ नमः पदार्थत्यागेऽर्वादिकर्मत्ववोधेप्यर्घादिपदात्प्रथमैव-निपाताथै त्यागे कर्मतासवन्धेनैव नामार्थस्यान्वयात् । एवम् 'भूतलेन घट:' इत्यादावपि घटादिसंवन्धस्याभावे संसर्गतया भानात् षष्ठीविषयेपि प्रथमा ।
पस्य काष्ठप्रकृतिकत्वस्य भस्मनि लाभ संभवात् काष्टभस्मनो: प्रकृतिविकृतिभावमानलाभेन ' काष्ठं भस्म क्रियते ' इतिवाक्यजबोधस्योक्तसंशयनिवर्तकत्वसंभवाद् भस्म काष्ठविकृतिरेवेति निश्वयोपि संभवत्येवेत्यर्थः । एवकारो भिन्नक्रम इति ' पूर्वोपदर्शितरीत्यैव ' इत्यन्वयः । " अपरान्वये" इत्यत्र ' अपरान्वयेन ' इति पाठो युक्तः ।
.
अथेत्यादिना कृतायाः शङ्काया उत्तरमाह - सत्यमिति, " काष्ठं भस्म क्रियते ' इत्यादी भस्मादिकर्मतायाः संसर्गत्वं स्वीक्रियते तथा च धात्वर्थे भस्मकर्म कत्वमस्तीति भस्मकर्मकत्व संबन्धेन किं वा निरूपकता संबन्धेन धात्वर्थे वर्तमानभस्मकर्मत्वसंबन्धेन काष्टकर्मत्वस्यान्वयो भवतीति भस्मकर्मत्वस्य संसर्गत्वेन सदुपस्थित्यपेक्षाभावात् लकारेण = आख्यातेन भस्मकर्मत्वानभिधानेपि तादृशकर्मोत्तरम्=भस्मपदोत्तरं द्वितीयापेक्षा नास्तीति प्रथमायाः साधुता, प्रकारतया भासमा - नस्यैवोपस्थितेरपेक्षितत्वात् । अत्रापि यदि मस्मकर्मताया: प्रकारत्वमिष्टं स्यात्तदा लकारेण तदनभिधाने तदुपस्थापक द्वितीयाया अपेक्षा स्यात् न चैत्रमस्तीत्यर्थः । किं च यत्र कर्मत्वस्य प्रातिपदिकार्थविशेष्यत्वेन विवक्षा भवति तत्रैव तत्प्रातिपदिकाद् द्वितीया भवति न चात्र कर्मत्वस्य भस्मविशेष्यत्वेन विवक्षास्ति संसर्गत्वेनैव विवक्षितत्वादिति न भस्मपदादत्र द्वितीयापत्तिरित्याहप्रातिपदिकार्येति । उक्ते दृष्टान्तमाह- यथेति, अर्घप्रदानकाले इतिवाक्यं तत्र नमः पदार्थभूतस्त्यागः ( प्रदानम् ) अर्धकर्मक एवेति त्यागेऽर्घकर्मत्व ( कर्मकत्व ) - बोधेtrपदादत्र प्रथमैवास्ति तत्कस्य हेतोः ? नम इतिनिपातपदं तदर्थे त्यागे कर्मतासंबन्धेनैव नामार्थस्यार्धपदार्थस्यान्वयात् तथा च यथात्रार्धकर्मतायाः संसर्गतया भासमानत्वेन तदुपस्थापकद्वितीयापेक्षाभावादऽर्वपदात् प्रथमायाः साधुता एवमुक्तस्थलेपि भस्मकर्मताया: संसर्गतयैव भासमानत्वेन तदुपस्थापक द्वितीयापेक्षाभावाद् भस्मपदात् प्रथमायाः साधुतेत्यर्थः । एवमिति य - यथा ' अर्धो नमः ' इत्यत्र निपातभूतनम ः पदस्यार्थे व्यागेऽर्वकर्मत्वस्य संसर्गतयैव मानं भवतीत्यर्धपदात् प्रथमैत्र जाता. एवम् ' भूतले न घट: ' इत्यत्रापि नञर्थाभावे घटसंब न्धस्य घटप्रतियोगिकत्वस्य संसर्गतया भानात् तदुपस्थापकषष्ठ्यपेक्षाभावात् षष्ठ्याः स्थाने घटपदात् प्रथमैव जातेत्यर्थः ।
यदुच्यते ' अर्घो नमः
"Aho Shrutgyanam"
7