________________
'कर्म धात्वर्थयोरन्वय विचारः ]
व्युत्पत्तिवादः ।
( ३४५ )
कर्मताया:
न च धात्वर्थे नामार्थस्य साक्षादन्वयोऽव्युत्पन्न इति प्रकृते संसर्गतया भानं न संभवतीति वाच्यम्, 'घटो नीलो भवति काष्ठं भस्म भवति' इत्यादी भवनादिक्रियायां नीलादेः कर्तृतासंबन्धेन साक्षादन्वयवदत्रापि व्युत्पत्तिवैचित्रयेण कर्मान्तरविशेषणतापन्न क्रियायामपरकर्मणः कर्मतासंबन्धेन साक्षादन्वयोपगमात् ।
7
न चैवमपि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वेन विवक्षया 'काष्ठं भस्मराशि क्रियते ' इत्यादिप्रयोगापत्तिः कर्मत्वान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यते इति व्युत्पत्तिकल्पने ? ' गौर्दह्यते क्षीरम् ' ग्रामम् इत्यादी दोहननयनादिक्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्ग इतिवाच्यम्. प्रकृतिवि कृत्युभयकर्मकस्थले तथा व्युत्पत्तेः । ययोक्तातिप्रसङ्गवार
C
अजा नीयते
7
,
9
6
ननु
' अर्धी नमः इत्यत्र भवतु कर्मत्वस्य संसर्गतया भानम् तत्र नम इति निपातार्थत्यागे अर्ध इति नामपदार्थस्य कर्मतासंबन्धेन साक्षादन्वयेपि पूर्वोक्तव्युत्पत्तिविरोधाभावात् ' काष्ठं मस्म 'क्रियते ' इत्यत्र तु भस्मकर्मताया: संसर्गत्वमाश्रित्य तादृशकर्मतासंबन्धेनैव करोतिधारखर्थे भस्मान्वयोपि कर्तव्यः स तु न संभवति धात्वर्थे साक्षान्नामार्थान्वयस्यान्युत्पन्नत्वादित्याशड्क्याह-न चेति । परिहारमाह-घट इति, यथा पूर्वोक्तरीत्या 'घटो नीलो भवति' इत्यत्र नीलपदार्थस्य कर्तृतासंबन्धेन धात्वर्थे साक्षादेवान्वयस्तथा ' काष्ठं भस्म क्रियते ' इत्यत्रापि काष्ठरूपकर्मान्तरविशेषणतापन्न करोत्यर्थक्रियायां भस्मरूपाऽपरकर्मणः कर्मतासंबन्धेन साक्षादेवान्वय इत्यर्थः । अत्र च 'चैत्रादिवृत्तिव्यापारजन्यभस्मरूपविकाराश्रयः काष्ठम्' इति शाब्दबोधोदयात् क्रियायाः काष्ठरूपकर्मविशेषणत्वं विज्ञेयम् ।
"Aho Shrutgyanam"
ननु भस्मकर्मतायाः संसर्गत्वविवक्षायां भवतूक्तस्थले भस्मपदात् प्रथमा अथापि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वविवक्षायां विशेष्यभूतकर्मत्वस्योपस्थित्यपेक्षया तदुपस्थापकद्वितीयाया आवश्यकतया ' काएं भस्मराशिं क्रियते ' इति प्रयोगापत्तिः स्यादेव । यदि चैतद्दोषपरिहाराय 'कर्मान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यते = द्वितीयोपस्थापितकर्मताया अन्यो भवतीति व्युत्पत्तिः कल्प्यते तथा च काष्ठरूपकर्मान्तरविशेषणतापन्नक्रियायां भस्मराशिकर्मत्वस्यान्वयो न संभवतीति न ' काष्ठं भस्मराशिं क्रियते ' इति प्रयोगापत्तिरित्युच्यते ? तदाऽनया व्युत्पत्त्या ' गौदुर्ह्यते क्षीरम् ' अजा नीयते ग्रामम् ' इत्यादौ गवाजादिकर्मान्तरविशेषणतापन्नायां दोहननयनादिक्रियायामपि क्षीरग्रामादिकर्मकत्वस्यान्वयो न भविष्यतीति क्षीरादिपदोत्तरं द्वितीयानुपपत्तिरित्याशङ्क्याह-न चेति । परिहारमाह-प्रकृतीति, गोक्षीरयोरजा· ग्रामयोश्च प्रकृतिविकृतिभावो नास्तीत्यत्र न सा व्युत्पत्तिः कल्प्यते इति नात्र गवाजादिकर्मान्तरविशेषणतापन्नोक्तक्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्गः । प्रकृतिविकृतिभावस्थले च
4