________________
( ३४६ )
सादर्श:
[ द्वितीयाकारकद्वितीयखडे
णाय
दर्शिता व्युत्पत्तिः कल्प्यते तथा कर्तृत्वविशेषणतयाऽभासमानायामेव क्रियायां तृतीयार्यकर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्या. अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवति इतिप्रयोगस्य दुर्वारत्वात् ।
८
उत्पत्तिप्रयोजकनाशप्रतियोगित्वरूपविकार एव काष्ठं भस्म भवति : इत्यादी धात्वर्थः, आधेयत्वरूपं तत्कर्तृत्वमेव संबन्धमर्यादया भासते ।' काष्ठेन भस्मना भूयते ' इत्यादौ भस्माद्याधेयत्वमुत्पत्तौ काष्ठाधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते । कर्तृत्वविशेषणतया भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्तौ भस्मादेराधेयत्वं संबन्धतया भासते इति
5
— कर्मत्वान्तरविशेषणतानापत्रक्रियायां द्वितीयया कर्मकत्वं बोध्यते ' इतिव्युत्पत्तिः कल्प्यतेकाठमस्मनोश्च प्रकृतिविकृतिभाव एवेति काष्टरूपकर्मान्तरविशेषणतापन क्रियायां द्वितीयोपस्थाप्यकर्मत्वस्यान्वयाऽस्वीकारात् 'काष्ठं महमराशि क्रियते' इति प्रयोगापत्तिर्नास्तीत्यर्थः । यथैतदतिप्रसङ्गवारणायैषा व्युत्पत्तिः कल्प्यते तथा 'कर्तृत्वविशेषणतयाऽभासमानायामेव क्रियायां तृतीयार्थकर्तृत्वान्वयो भवति न तु कर्तृत्वविशेषणतया भासमानायामपि ' इत्यपि व्युत्पत्तिः कल्प्यते तथाच काष्ठरूपकर्तृविशेषणतया भासमानायां भवनक्रियायां भस्मपदोत्तरतृतीयार्थकर्तृत्वस्यान्ययासंभवाद् भस्मपदात्ततीयापत्त्यभावात् ' काष्ठं भस्मना भवति' इत्यनिष्टप्रयोगनिवारणं भविष्यति, अन्यथा न भविष्यतीत्याह-यथोक्तेति । ' काष्टं भस्म भवति' इत्येव प्रयोगो भवति अत्र € भस्मानुकूलभवनव्यापाराश्रयः काष्ठम् इतिशाब्दबोधः । प्रकृत्यर्थविशेष्यतया = मस्मविशेष्यतया ।
4
उत्पत्तीति-' काष्ठं भस्म भवति' इत्यत्र भस्मोत्पत्तिप्रयोजको यः काष्ठनाशस्तत्प्रतियोगित्वरूपो यः काष्ठे जायमानो विकारः स एव भूधात्वर्थः, स च काष्ठेस्तीति काष्ठाधेयत्वं यद् धात्वर्थेस्ति तत् संसर्गतया मासते तेनैवाधेयत्वसंसर्गेण धात्वर्थे काष्टान्वयः, तच्चाधेयत्वं काष्ठनिष्ठमुक्तधात्वर्थनिरूपितकर्तृत्वरूपमेवेत्यर्थः । काष्ठेनेति--' काष्ठेन भस्मना भूयते ' इत्यत्रोत्पत्ती यद् ममाधेयत्वमस्ति तद् मस्मपदोत्तर तृतीयोपस्थाप्यमस्तीति प्रकारतया भासते. एवं नाशमतियोगित्वे यत् काष्ठाधेयत्वं तदपि काष्ठपदोत्तरतृतीयोपस्थाप्यमस्तीति प्रकारतया भासते न संसर्गतयेत्यर्थः । ननु ' काष्टेन भस्म भूयते ' इति प्रयोगः किं न स्यादित्याशङ्क्याहकर्तृत्वेति, उत्पत्त्यनुकूलव्यापारो हि भवनपदार्थ इत्युत्पत्तिर्भवनान्तर्गता ज्ञेया यत्र कर्तृत्वविशेणतया धात्वर्थभवनस्य मानं भवति तादृशभवनान्तर्गतायामुत्पत्तौ भस्माद्याधेयत्वं संबन्धतया भासते यथा ' काष्ठं भस्म भवति' इत्यत्राख्यातस्य कर्तरि जायमानत्वाद् धात्वर्थस्य कर्तृत्वविशेषणत्वमस्ति व्यापारकर्तृत्ववानिति बोधोदयादिति तत्र भस्माधेयत्वस्य संसर्गतया मानसंमवाद् भस्मपदोत्तरं तृतीयापेक्षा नास्ति, ' काष्ठेन भस्म भूयते ' इत्यत्र तु भावे आख्यातमस्ति तस्य
" Aho Shrutgyanam"