________________
अधिशीस्थासां प्रयोगाः व्युत्पत्तिवादः ।
(३४७) व्युत्पत्तेः ' काष्ठेन भस्म भूयते ' इत्यादयो न प्रयोगाः-भावाख्यातस्य कर्तृत्वाबोधकत्वात् । कर्मत्वान्तरविशेष्यतापन्नकृत्यादौ कर्मत्वस्य संसर्गतया भानमऽव्युत्पन्नमिति 'काष्ठं भस्मराशिः करोति' इत्यादयो न प्रयोगा।
"अधिशीस्थासां कर्म " इत्यादिना यत्राधारस्य कर्मसंज्ञा तत्राऽऽधारत्व. माधेयत्वं वा द्वितीयार्थः, 'स्थलीमधिशेते' इत्यादौ तादृशार्थे द्वितीयायाः 'स्थल्या अधिशयिता' इत्यादौ कृत्प्रयोगे षष्ठयाश्च साधुत्वार्थमेव कर्मसंज्ञावि.
च कर्तृत्वाबोधकतया धात्वर्थस्य कर्तत्वविशेषणत्वं नास्तीति न भस्माधेयत्वस्य संसर्गतया मानं स्वीक्रियते किं तु प्रकारतयैव तथा चाधेयत्वोपस्थापकतृतीयाया आवश्यकत्वात् — काष्ठेन भस्मना भूयते । इत्येव प्रयोगो भवति न तु 'काष्ठेन भस्म भूयते , इत्यपीत्यर्थः । कर्मत्वान्तरविशेष्यतापन्नकृत्यादिधात्वर्थे कर्मत्वान्तरस्य संसर्गतया भानं न भवतीति — काष्ठं भस्मराशिः करोति ' इतिप्रयोगो न भवति--अत्र काष्ठनिष्ठकर्मत्वविशेष्यतापन्नक्रियायां भस्मराशिनिष्ठकर्मस्वस्य संसर्गतयैव भानं संभवति-मस्मराशिपदोत्तरं कर्मत्वोपस्थापकद्वितीयाया अभावात्, कर्मवान्तरविशेष्यतापन्नकृत्यादौ च कर्मत्वान्तरस्य संसर्गतया भानं न स्त्रीक्रियते किं तु प्रकारतयैव प्रकारत्वं चानुपस्थितस्य न संभवतीति कर्मत्वोपस्थापकद्वितीयाया आवश्यकत्वात् 'काष्ठं भस्मराशिं करोति' इत्येव प्रयोगो भवतीत्यर्थः । 'काष्ठनिष्ठकर्मत्वनिरूपको यो भस्मसशिकर्मको व्यापारस्तादृशव्यापारवान् ' इत्यत्र बोधोदयात् कृत्यादिव्यापारस्य कर्मत्वविशेष्यत्वं सुस्पष्टमेव ।
" अधिशीस्थासां कर्म, इतिसूत्रसंपनप्रयोगमुदाहर्तुमारभते-अधिशीङिति, प्राचीनमते माधारत्वमर्थः, किं तु आधारत्वस्य धात्वर्थे निरूपकत्वसंबन्धेनान्वयः स्याद् निरूपकत्वसंबन्धस्य च वृत्त्यनियामकतया अभावीयप्रतियोगितानवच्छेदकत्वेन पूर्वोक्तरीत्या 'न स्थलीमधिशेते' इत्यत्र शाब्दबोधो न स्यादिति नवीनमतेनाधेयत्वं द्वितीयार्थस्तञ्चाश्रयतासंबन्धेन वर्तते आश्रयतासंबन्धस्य च वृत्तिनियामकतया नोक्तदोष इत्यर्थः। कर्मसंज्ञाविधानप्रयोजनमाह- स्थलीमिति, शेते इत्यत्र भूपृष्ठादिसंयोगो धात्वर्थः । स्थलीपदार्थस्याधिकरणत्वेन तद्वाचकस्थलीपदोत्तरं सप्तम्या युक्तत्वेपि ' स्थलीमधिशेते' 'स्थल्या अधियिता ' इत्यादौ कर्मत्वबोधकद्वितीयाषष्ठयोः साधुत्वाथ सूत्रकारेण कर्मसंज्ञा विहितेत्यर्थः । तादृशार्थे अधिकरणार्थे । ननु ' स्थलीमधिशेते' इत्यस्य स्थल्यां शयनं करोति' इत्ययमेवार्थस्तत्र करोतिपदवाच्यव्यापारस्य भूपृष्ठादिसंयोगरूपे धात्वर्थेऽन्तर्भावः कर्तव्य इत्युक्तवाक्यस्य · भूपृष्ठादिसंयोगानुकूलकृतिमान् ' इत्यर्थः स्यात् . अत्र च भूपृष्ठादिसंयोगः फलमेवेति यथा संयोगादिरूपफलाश्रयतया . ग्रामं गच्छति' इत्यादौ ग्रामादेः कर्मसंज्ञा भवति तथैव भूपृष्ठादिसंयोगरूपफलाश्रयत्वात् स्थल्यादीनामपि कर्मसंज्ञा संभवत्येवेति पुनः “ अधिशीङ्" इत्यादिसूत्रेण स्थल्यादीनां कर्मसंज्ञाविधानं विधाय.
"Aho Shrutgyanam"