________________
(३४८)
सादर्शः- द्वितीयाकारकद्वितीयखण्डेधानात् । अथ कृअर्थव्यापारान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थकसोपसर्गशीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपफलाश्रयतयाऽधारस्य कर्मत्वोपपादनसंभवात् तादृशसूत्राणां वैयर्थ्यमेव, अध्याशुपसृष्टशीधभृतीनामेव च तादृशार्थे निरूढलक्षणा न त्वनुपसृष्टानामऽतो न 'स्थली शेते' इत्यादयः स्वारसिकाः प्रयोगा इति चेत् ?, न-धातोर्मुख्यार्थपरत्वेपि दर्शितप्रयोगनिहाय भगवता पाणिनिमुनिना तादृशसूत्रप्रणयनात् । तदप्रणीतवतां शर्ववर्मप्रभृतीनां मुख्यार्थपराणाम् ‘स्थल्यामधिशेते ' इत्यादिप्रयोगाणां साधुताया दुरित्वाच्च ।
कालाध्वदेशानामकर्मकक्रियायोगे कैश्चित् कर्मप्रत्ययार्थं विभाषयाँ कर्मत्वमकसूत्रं च व्यर्थमेवेत्याशड्कते- अथेति । अत्र पक्षे भूपृष्ठादिसंयोगानुकूलव्यापारो धात्वर्थः । शयनादीति- शयनादिरूपं यत्फलं तदवच्छिन्नव्यापारार्थको य: सोपसर्ग: अध्युपसर्गसंयुक्तः शीअभूतिधातुस्तदर्थतावच्छेदकं यच्छयनादिरूपं फलं तादृशफलाश्रयतयाप्याधारस्य-स्थल्यादेः कर्मत्वं संभवत्येवेत्यर्थः । क्रियाजन्यफलशालित्वं हि कर्मत्वमऽत्र च यच्छयनरूपं : फलमुक्तं तत्तु शोधात्वर्थ एव न तु धात्वर्थव्यापारजन्य मिति तादृशशयनाश्रयीभूतायाः : स्थल्याः कर्मत्वं न स्थादित्युक्तम्-- कृअर्थव्यापारेति, धात्वर्थशयने कृअर्थव्यापारस्यान्तर्भावे च कृते शयनस्य ताहशकृत्रर्थव्यापारजन्यत्वं प्राप्तमिति तादशक्रियाजन्यशयनरूपफलाश्रयतया स्थल्यादीनां कर्मत्वं प्राप्नोतीति भावः । नन्वेवं शयनरूपफलाश्रयत्वात् स्थल्याः कर्मत्वापत्त्या 'स्थली शेते' इत्यपि प्रयोगः स्यादित्याशङ्कयाह- अध्याद्यपसृष्टेति, तादृशार्थे अन्तर्भूतकृअर्थव्यापारे धास्वर्थे, अध्युपसर्गसंयोगे सत्येव कृअर्थव्यापारस्प धात्वर्थेऽन्तर्भावो भवति न त्वध्युपसर्गसंयोगाभापीति न ' स्थली शेते ' इतिप्रयोगापत्तिरित्यर्थः । परिहरति- नेति, उक्तार्थे निरूढलक्षणास्वीकारे स्थल्यादीनां त्वदुक्तरीत्या कर्मत्वसंभवेपि निरूढलक्षणाभावपक्षे धातोर्मुख्यार्थपरत्वे तु स्थल्यादीनां क्रियाजन्यफलशालिवाभावात् कर्मत्वं न संभवतीति मुख्यार्थपक्षे कर्मत्वाप्राप्त्या दर्शितप्रयोगस्य — स्थलीमधिशेते । इत्यादिप्रयोगस्य निर्वाहाय “ अधिशीङ्" इत्यादिसूत्रं प्रणीतमिति न वैयर्थ्यम् । यैरेतादृशकर्मसंज्ञा विधायकं सूत्रं न प्रणीतं तेषां व्याकरणमतेन मुख्यार्थपक्षे कर्मत्वप्राप्त्यभावात् सप्तम्या 'स्थल्यामधिशेते, इत्यादिप्रयोगाणामपि साधुत्वं प्राप्नुयात् न चैतदिष्टमित्यर्थः । कृअर्थव्यापारानन्तर्भावेन भूपृष्ठादिसंयोगमात्रस्य धात्वर्थत्वपक्षे 'शेते ' इत्यस्य — भूपृष्ठादिसयोगाश्रयः । इत्येवार्थः । ___“मासमास्ते ' इत्यादिप्रयोगानुदाहरति- कालाध्वेति । कैश्चित्वार्तिककारादिभिः, तथा च वार्तिकम् - " अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् " इति, तत्र देशस्य कर्मत्वं यथा- “कुरून् स्वपिति ' इति, कालस्य कर्मत्वं यथा-'मासमास्ते में इति, भावस्य ( क्रियायाः ) कर्मत्वं यथा ' गोदोहमास्ते' इति, गन्तव्याध्वनः कर्मत्वं यथा
"Aho Shrutgyanam"