________________
कलाध्वनोरत्यन्तसंयोगे इति] व्युत्पत्तिवादः।
(३४९). नुशिष्यते । अन्ये तु क्रियान्तराऽन्तर्भावेनोक्तरीत्या तत्र पाक्षिकं कर्मप्रत्ययमुपपादयन्तस्तन्नानुशासति. उक्तं च तैः
“कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैयोंगे कर्मत्वमुपजायते ॥” इति । तन्मते च 'मासमधीते । 'मासमास्ते , ' योजनं धावति' इत्यादावाभिव्यात्यर्थे “ कालाध्वनोरत्यन्तसंयोगे” इत्यनेन द्वितीयाविधानं यद्यप्यनर्थकम्धात्वर्थेऽध्ययनस्थित्यादिविशेषणतयाऽभिव्यापनात्मकक्रियाया अन्तर्भावेन तत्कमतया तत्र तत्र द्वितीयोपपत्तेः, ताशधात्वथ व्याप्त्यनन्तर्भावे 'मासमास्ते ' इत्यादौ द्वितीयया तद्बोधनपि ' आस्यते मासः' इत्यादौ मासादौ स्थित्यादि.
'क्रोशमास्ते ' इति । अन्ये सूत्रकारादयस्तु कालादीनां कर्मसंज्ञाविधानं न कुर्वन्ति 'मासमास्ते' इत्यादावासनरूपधात्वर्थे क्रियान्तरस्य अभिव्याप्तिरूपक्रियाया अन्तर्भावोस्ति- मासाद्यभिव्याप्तेरासनादौ सत्त्वे एव कालादीनां कर्मत्वस्येष्टत्वादिति तादृशाभिव्याप्त्यैव कर्मत्वस्य प्राप्तेः केवलं कर्मप्रत्ययम्= "कालाध्वनोरत्यन्तसंयोगे" इत्यनेन द्वितीयाविधानं कुर्वन्ति । अत्यन्तसंयोगे एव द्वितीया भवति नान्यत्र 'मासस्य द्विरधीते' इत्यादावित्यभिप्रायेणोक्तम्- पाक्षिकमिति । तत्-कर्मत्वम् । कर्मत्वस्य स्वयं प्राप्तौ प्रमाणमाह- कालभावेति, अन्ताभूल अभिव्याप्तिरूपा क्रिया येषामेतादृशेरकर्मकैर्धातुभियोंगे कालभावाध्वदेशानामभिव्याप्तिनिरूपितं कर्मत्वमुपजायते एवाऽभिव्याप्तेः सकर्मकत्वादिति कालादीनामकर्मकधातुयोगे कर्मसंज्ञाविधानस्य प्रयोजनं नास्तीत्यर्थः । तन्मते चेति- तन्मते-कालादीनामुक्तरीत्या स्वयमेव कर्मत्वप्राप्तिमते .' मासमधीते ' इत्यादौ धात्वर्थभूताध्ययनस्थित्यादिविशेषणीभूताया अभिव्याप्तिक्रियाया धात्वथेऽन्तर्भावोस्तीति धात्वर्थस्याकर्मकत्वेप्यन्तर्भूताभिव्याप्तिक्रियायाः सकर्मकत्वेन कालादीनां तत्कमतया तत्र तत्र= कालादिबोधकमासादिपदोत्तरम् “ कर्मणि द्वितीया " इत्यनेनैव द्वितीयाप्राप्तिः संभवतीति पुनातीयाविधानं यद्यप्यनर्थकमेवेत्यर्थः । विशेषणस्यैवान्तर्भावसंभवादऽभिव्यापनात्मकक्रियाया अध्ययनादिविशेषणत्वमुक्तम्- अध्ययनस्थित्यादीति । नन्वेवं विनिगमनाविरहात कमसंज्ञाविधानमेवानर्थक कि न स्यात्- 'मासमास्ते' इत्यादौ द्वितीययैव कर्मत्वबोधसंभवादित्याशक्याह- तादृशधात्वर्थेति, तादृशधात्वर्थे अकर्मकधात्वर्थेऽभिव्याप्त्यनन्तर्भावपक्षेपि 'मासमास्ते ' इत्यादौ द्वितीयया तद्बोधनेपिः-कर्मत्वबोधनेपि तथाऽभिव्याप्तिबोधनेपि 'आस्यते मासः' इत्यत्र मासपदोत्तरद्वितीयाऽभावात् कर्मत्वबोधनं न संभवति तथा च मासस्य स्थितिव्याप्यत्वभानमपि न संभवति. आसधातोरकर्मकत्वेन तदुत्तरं कर्माख्यातमपि न स्यात् . कर्मसंज्ञाविधाने तु धातोरकर्मकत्वेपि मासादीनां संज्ञया कर्मत्वप्राप्तौ तत्र कर्माख्यातं संभवति मासादौ स्थित्यादिव्याप्यत्वभानमपि संभवति-- कर्मत्वादिति कमसंज्ञा विधानं नानथक किं तु द्वितीयाविधायक
"Aho Shrutgyanam"