________________
( ३५० )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे -
2 "
+
व्याप्यत्वलाभाऽनिर्वाहात्, तथापि ' मासं रमणीया 'क्रोशं कुटिला नदी इत्यादौ भवतीत्यस्यानध्याहारेपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति तत्र हि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रतीयते न च तत्र क्रियासमभिव्याहारोस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीया च स्यात् । एवम् ' मासमासिता ' इत्यादावभिव्याप्त्यन्तर्भावेन मासस्यं कर्मत्वोपपादपि कृद्योगात् षष्ठयेव स्यान्न द्वितीयेत्यतोपि तत्सूत्रं सार्थकम् ।
अथ केयमभिव्याप्तिर्याऽत्यन्तसंयोग इत्युच्यते ?, न तावद् - व्याप्यवृत्तिः सूत्रमेवानर्थकमित्यर्थः । द्वितीयाविधायक सूत्र सार्थक्यमाह - तथापीति, 'वनराजिर्मासं रमणीया " इत्यादौ भवतीत्यादिक्रियाध्याहारे तत्राभिव्याप्तेश्चान्तर्भावे तादृशाभिव्याप्तिनिरूपितं मासादीनां कर्मत्वं संभवति. अनध्याहारपक्षे तु क्रियैव कापि नास्ति यदन्तर्भूताभिव्याप्तिनिरूपितं मासादीनां कर्मत्वं स्यादिति. कर्मत्वाप्राप्तौ च द्वितीयायाः साधुत्वं न स्यादित्यनध्याहारपक्षे द्वितीयायाः साधुत्वार्थे भाष्यकृतः = भाष्यकारा द्वितीयाविधायकसूत्रं सार्थकयन्ति । उपपादयति-तत्रेति, तत्र = " मासं रमणीया ' इत्यादौ । तत्कर्मतया = अभिव्याप्तिकर्मतया । सूत्रसार्थक्ये उदाहरणान्तरमाहएवमिति, ' मासमासिता ' इत्यत्र मासस्य धात्वर्थेऽन्तर्भूताभिव्याप्तिनिरूपित कर्मत्वप्राप्तावपि - सूत्राभावे " कर्तृकर्मणोः कृति " इत्यनेन षष्ठयेव मासपदोत्तरं स्यात्- कृद्योगात् न तु द्वितीया न चात्र षष्ठोष्टेति द्वितीयाविद्यायकं सूत्रं सार्थकमेव सूत्रे सति षष्ठीं बाधित्वा सूत्रेण द्वितीयाप्राप्तिसंभवादित्यर्थः । ' आस्यते मासः ' इत्यादौ कर्मसंज्ञाविधानमपि सार्थकम् |
कालाध्वनोरत्यन्तसंयोगे" इत्यनेनाध्ययनादौ मासादिव्यापकत्वे द्वितीया स्यादिति प्रतिपादनादऽत्यन्तसंयोगपदेन याभिव्याप्तिरुच्यते तत्स्वरूपं पृच्छति - अथेति । न तावदित्यस्य इति युक्तमित्यनेनान्वयः । ननु व्याप्यवृत्तिः = व्यापको यः कालिकसंबन्धः स एवाभिव्याप्तिरस्ति 'मासमधीते ' इत्यत्राध्ययनस्य कालिकसंबन्धेन संपूर्णमासकृत्तित्वाद् व्याप्यवृत्तित्वं कालिकसंबन्धस्य लभ्यते, कालिकसंबन्धस्य व्याप्यवृत्तित्वं च मासव्याप्यदिनादिकालेनाऽनवच्छिन्नत्वमेव, यत्र च मासादिनिष्ठोपि कालिकसंबन्धो दिवसादिमात्रवृत्तित्वाद् दिवसाद्यवच्छिन्न एव तत्र कालिकसंबन्धस्य मासे व्याप्यवृत्त्याऽभावात् ' मासमास्ते ' इत्यादिः प्रयोगो न भवति, मासे व्याप्यवृत्त्या सत्त्वे च प्रयोगो भवतीति दोषाभावात् यत्कालिक संबन्धस्य मासादिव्याप्यवृत्तित्वं तदेवाभिव्याप्तिपदार्थः । मासपदार्थश्च त्रिंशदिनमात्र स्थायी कश्चिदखण्डपदार्थ एव ग्राह्यो न तु क्रियाप्रचयः=सूर्यपरिस्पन्दसमूहः, तथा सति = क्रियाप्रचयस्य मासपदार्थत्वे हि एकदिनमात्रनिष्ठसंबन्धस्यापि कासुचित् क्रियासु व्याप्यवृत्तितया ( एकदिनमात्राध्ययनस्थित्यादेः सत्त्वाद् दिनादिसमूहस्यैव च मासपदार्थत्वात् ) तत्र = तादृशदशायामपि तथाव्यवहारापत्तेः=' मासमास्ते ' मासमधीते ' इत्यादिप्रयोगः स्यादिति तद्वारणाय त्रिंशद्दिनस्थायी कश्चिदखण्डपदार्थ एव मास इति स्त्रीकार्यमित्याशङ्क्याह - न तावदिति, इति युक्तमित्यन्तं पूर्वपक्षः । युक्तत्वाभावे हेतुमाह
4
66
"Aho Shrutgyanam"