________________
६
उक्ताभिव्याप्तिविचारः j
व्युत्पत्तिवादः ।
( ३५१ )
कालिकः संबन्धः कालिकसंबन्धस्य व्याप्यवृत्तित्वं व्याप्यकालानवच्छिन्नत्वम्, दिवसादिमात्रवृत्तिर्मासादिनिष्ठ संबन्धो दिवसाद्यवच्छिन्न इति तत्र ' मासमास्ते' इति न प्रयोगः । मासपदार्थश्चात्र त्रिंशद्दिनमात्रस्थायी कश्चिदखण्डः पदार्थों न तु क्रियाप्रचयः - तथा सति दिनैकादिमात्रस्थायिनोपि संबन्धस्य कासुचित् क्रियासु व्याप्यवृत्तितया तत्र तथाव्यवहारापत्तेरिति युक्तम्- ' चैत्रो मासं काश्यां तिष्ठति इत्यादौ काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽप्रामाण्यप्रसङ्गात्-- संयोगव्यक्तीनां मासनिष्ठकालिक संबन्धस्यावान्तरदण्डाद्यात्मककालावच्छिन्नत्वात् ।
न च संयोगानां भेदेपि चैत्रीयसंयोगत्वाद्यवच्छिन्ननिरूपित कालिकसंबन्धावच्छिन्नाधारता मासव्यापिकैकैव सा च नावान्तरकालावच्छिन्नेति तत्र तदनवच्छिन्नत्ववोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम्, सामान्यघटित विशेषधमविच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नवत्ताप्रत्ययोपपत्तेः शुद्धसामाचैत्र इति । यदि त्रिंशदिनमात्रस्थाय्यखण्डपदार्थ ( काल ) संबन्ध एवाभिव्याप्तिः स्यात्तदा 'चैत्रो मासं काश्यां तिष्ठति ” इत्यादिवाक्यस्य प्रामाण्यं न स्यात् - मासव्यापकस्यैकस्य काशीसयोगस्याऽसंभवाद् गमनादिना पूर्वपूर्वसंयोगस्य नाशात् तथा संयोगव्यक्तीनां यो मासनिष्टका - लिसंबन्धस्तस्य मासावान्तरदण्डादिकाले खच्छिन्नत्वात् - संयोगस्यैकत्वाभावादिति नोक्तनिरूपणं युक्तमित्यर्थः ।
नतु ' मासं काश्यां तिष्ठति ' इत्यत्र संयोगव्यक्तीनां दण्डाद्यात्मककालभेदेन भेदेपि संयो-गत्वेन सकलसंयोगानामेकत्वात् संयोगत्वावच्छिन्ननिरूपिता कालिकसंबन्धावच्छिन्ना काशीनिवाघारता मासव्यापिकेकैव नाऽवान्तरदण्डाद्यात्मककालावच्छिन्नेति तदनवच्छिन्नत्वबोधकम् = अवान्तरदण्डाद्यनवच्छिन्नत्वबोधकम् 'मासं काश्याम्' इत्युक्तवाक्यं तत्र = मासव्याप कोक्ताधारतायां भवेदेव प्रमाणमिति नोक्ताऽप्रामाण्यापत्तिप्रसङ्ग इत्याशङ्क्याह-न चेति । तत्तद्विशेषव्यक्तिनिरूपिताधिकरणतास्त्रीकारेण निर्वाहः संभवतीति सैव स्वीक्रियते न तु सामान्यधर्मावच्छिन्ननिरूपिता सामान्यत एकाधिकरणतेति न संयोगत्वावच्छिन्ननिरूपिता मासव्यापिका काश्यामेकाधिकरणता · संभवतीति संयोगव्यक्तिभेदादधिकरणताभेदे प्राप्ते कालभेदेन च संयोगानां भेदे प्राप्ते मासव्यापकेकसंयोगासंभवात् ' मासं काश्याम् ' इत्यस्योक्तमप्रामाण्यं स्यादेवेत्यभिप्रायेण परिहरति-- सामान्यघटितेति, विशेषधर्मोपि सामानाधिकरण्येन सामान्यधर्मघटित एव भवतीति सामान्य (संयोगत्व ) घटित विशेषधर्मस्तदूव्यक्तित्वं तत्तत्संयोगव्यक्तिनिष्ठतत्तद्व्यक्तित्वधर्मावच्छिन्ननिरूपिताधिकरणताकूटादेव = तत्तदधिकरणताभिरेव सामान्यधर्मो यः संयोगत्वं तदवच्छिन्नवत्ता = तदवच्छिन्ननिरूपिताधिकरणताप्रत्ययोपपत्तेः ( निर्वाहातू ) केवलं सामान्यधर्मावच्छिन्न= संयोगत्वावच्छि निरूपितायामतिरिक्तायामधिकरणतायां मानाभावात्, तत्तत्संयोगव्य क्तिनिरूपिताधिकरणता च
7
" Aho Shrutgyanam"
-