________________
(३५२)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डेन्यधर्मावच्छिन्ननिरूपिताधिकरणतायामतिरिक्तायां मानाभावात् । यत्र त्रिंशद्दिनेषु कमापि कालमधीतं तत्र मासेऽध्ययनसंबन्धस्याऽव्याप्यवृत्तितया 'मासमर्धाते' इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् ।
उच्यते-अभिव्याप्तिर्याक्दवयवसंबन्धः, यत्समुदायो मासादिपदार्थस्त एव तदवयवाः, एवं च त्रिशदिनानां मासपदार्थतया त्रिंशदिनेषु किंचित्किचित्कालावच्छेदेनाध्ययनसंबन्धेपि 'मासमधीते' इतिप्रयोगोपपत्तिः। त्रिशदिनसंबन्धश्च दिनपर्याप्तत्रिंशत्त्वव्यापकत्वम् , तादृशत्रिंशत्त्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद् व्यापकत्वमात्रं द्वितीयार्थः।
व्यापकत्वं च व्याप्यविशेषाऽघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगितावच्छेदकत्वमऽभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यों मासादिराधेयनैका संभवति दण्डादिभेदेन भेदादित्युक्तवाक्यस्याप्रामाण्यं तदवस्थमेवेत्यर्थः । किं च मासस्याऽखण्डपदार्थत्वे यत्र त्रिंशदिनेष्वपिः किंचित् किंचित् कालमधीतं न तादृशाखण्डकालपर्यन्तं तत्र मासेऽध्ययनसंबन्धस्य व्याप्यवृत्तित्वाभावात् ' मासमधीते ' इतिप्रयोगानुपपत्तिरेव, इष्टं च तत्रास्य वाक्यस्य प्रामाण्यमित्याह-- यत्रेति । कमपीत्यस्य नित्यं प्रति कमपीत्यर्थः ।
पृष्टमभिव्याप्तिस्वरूपमाह- उच्यते इत्यादिना । यावत् सकलः । यत्समुदाय: दिनादीनां समुदायः । ते-दिनादयः । तदवयवा:- मासावयवाः । उपसंहरति-- एवं चेति, यावदवयवसबन्ध एवाभिव्याप्तिासावयवाश्च दिनान्येवेति प्रत्येकदिने किंचित्कालाध्ययनैपि त्रिंशािदनरभ्ययनसंबन्धस्य जातत्वेन तत्र 'मासमधीते ' इतिप्रयोग उपपद्यते एवेत्यर्थः । त्रिंशदिनसंबन्धपदार्थमाह- त्रिंशदिनेति, त्रिंशदिनपर्याप्तं यत् त्रिंशत्त्वं तद् व्यापकत्वमेव त्रिंशद्दिनसंबन्धपदार्थः । त्रिंशदिनपर्याप्तत्रिंशत्त्वं च मासपदप्रवृत्तिनिमित्तत्वान्मासपदलम्यमेवेति पारिशेष्याद् व्यापकत्वमानं द्वितीयार्थः । तथा च त्रिंशदिनव्यापकाध्ययनकर्ता चैत्र इति वाक्यार्थबोधः । एवम् * मासं काश्याम् ' इत्यत्रापि मासावयवदिनेषु काश्यावयवप्रदेशेषु च संयोगोस्त्येवेति भवेदेव प्रामाण्यमिति ध्येयम् ।
‘मासमधीते ' इत्यादौ द्वितीयार्थभूतं यदध्ययनादौ मासादिव्यापकत्वं तस्य स्वरूपमाहव्यापकत्वं चेति, अखण्डं व्यापकत्वं व्याप्यविशेषाऽघटितं दुर्वचमेव तथाहि यथा 'धूमसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वं व्यापकत्वं वह्नौ ' इत्यादी धूमादिलक्षणव्याप्यघटितमेव व्यापकत्वं 'वक्तुं शक्यते तथात्रापि 'मासत्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं व्यापकत्वमध्ययने । 'इत्येवं मासत्वलक्षणव्याप्यघटितमेवाऽखण्डं व्यापकत्वं वक्तुं शक्यते एतादृशाखण्डस्य व्याप्यघटितस्य व्यापकत्वस्य द्वितीयार्थत्वे तद्धटितस्य व्याप्यस्य मासत्वस्यापि द्वितीयार्थत्वं प्राप्नुयात् न च मासत्वस्य द्वितीयार्थत्वं युक्तं मासत्वस्य प्रकृतिभूतमासपदवाच्यत्वात् द्वितीयार्थस्वस्वीकारे च -मासत्वस्य द्विधा भानप्रसङ्गाद्. व्याप्यानामनन्तत्वेन व्याप्यभेदेन व्यापकत्वभेदापत्त्या तदनुगमा. संभवाच खण्डशोऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितीयार्थ इत्युच्यते अर्थात्-व्याप्यस
"Aho Shrutgyanam