________________
व्युत्पत्तिवादः ।
( ३५३ )
उक्ताभिव्याप्तिविचारः ] तासंबन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः, तस्य चान्वयितावच्छेदक चैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटित परम्परासंबन्धेनाऽध्ययनादावन्वयः ।
प्रथमाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम्, तेन त्रिंशद्दिनेष्वेव च यत्राधीतं तत्र दिनावान्तरदण्डादावऽध्ययनाभावेप्युक्तप्रयोगोपपत्तिः । मासपदं च त्रिंशद्दिनपरमेव न तु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् - एकदिनामानाधिकरणो योऽत्यन्ताभावस्तादृशाभावप्रतियोगितावच्छेदकत्वाभाववत्त्वमत्र व्यापकत्वं ग्राह्यमस्ति
>
तस्यैव खण्डद्वयं कृतम् - " अभावप्रतियोगितावच्छेदकत्वमऽभावश्च इति एतादृशं खण्डशो व्यापकत्वं द्वितीयार्थः, अत्र मासत्वप्रवेशाभावान्नोक्तदोषप्रसङ्ग इति भावः । तत्र ' मासमधीते ' इत्यत्र मासेऽध्ययनाभावस्तु नास्तीति नृत्याभावो ग्राह्य इति मासनिष्टो यः मासे नृत्यं न इत्याकारकोऽत्यन्ताभावस्तत्प्रतियोगि नृत्यं प्रतियोगितावच्छेदकत्वं नृत्यत्वे प्राप्तं प्रतियोगितावच्छेदकत्वाभाववत्त्वमध्ययनत्वे वक्ष्यमाणसंबन्धेन चाध्ययने प्राप्तं तदेव व्यापकत्वं तत्र प्रथमाभावो मासनिष्ठ एवेति प्रथमाभावे द्वितीयाप्रकृत्यर्थस्य मासस्याऽऽधेयता संबन्धेनान्वय इत्याहप्रथमाभावेति । द्वितीयाभावस्य मासनिष्ठाभावप्रतियोगितावच्छेदकत्वाभावस्य प्रतियोगि मासनिष्ठाभावप्रतियोगितावच्छेदकत्वमेवेति तस्य तादृशद्वितीयाभावे प्रतियोगितया = प्रतियोगितारूपेण स्वप्रतियोगिकत्वसंबन्धेन चान्वय इत्याह- मासादिनिष्ठेति । अभावान्तरे द्वितीयाभावे । तस्य द्वितीयाभावस्य ( मासनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावस्य ) चान्वयितावच्छेदकं यञ्चैत्रकर्तृकाध्ययनत्वम् ( अध्ययनस्यैव विशेष्यत्वादन्वयित्वम् ) तद्रूपो यः स्वाश्रयस्तद्घटितेन परम्परा संबन्धेन = स्वाश्रयाध्ययनत्ववत्त्व संबन्धेनाध्ययनेऽन्वयः तथा हि-स्वं द्वितीयाभावः, मासनिष्ठाभावप्रतियोगितावच्छेदकत्वस्याभावोऽध्ययनत्वे वर्तते अध्ययनत्वस्य मासनिष्टाभावप्रतियोगितानवच्छेदकत्वादिति स्वस्य द्वितीयाभावस्याश्रयो यदध्ययनत्वं तद् अध्ययने वर्तते एवेति तादृशस्वाश्रयीभूताध्ययनत्ववत्त्वसंबन्धेन द्वितीयाभावस्याध्ययनेऽन्वय इति द्वितीयाभाववत्त्वादSध्ययनस्य मासव्यापकत्वं प्राप्तमेवेत्यर्थः । मासत्वस्य व्याप्यत्वेन मासत्वव्याप्यमासस्यापि व्यायत्वं सुमहमेवेति विज्ञेयम् ।
प्रथमाभावेति – प्रथमाभावः प्रतियोगिव्यधिकरणः - दिनादिनिष्ठोऽध्ययनव्यधिकरणो नृत्याद्यभाव एव ग्राह्यस्तेन त्रिंशदिनेष्वपि यदा नित्यं किंचित् किंचित् कालमधीतं तत्र दिनावान्तरदण्डे - starrer भावेपि ' मासमधीते ' इति प्रयोगानुपपत्तिर्नास्ति एतादृशस्याऽध्ययन समानाधिकरणस्याध्ययनाभावस्याभावपदेनाऽग्रहणात् प्रतियोगिव्यधिकरणस्यैवाऽभावस्य ग्रहणात् अन्यथा प्रत्येकदिनेष्वध्ययनवदध्ययनाभावस्यापि सत्त्वाद् मासनिष्ठाभावप्रतियोगित्वमेवाध्ययनस्य स्यादिति मासमधीते ' इति प्रयोगो नोपपद्येतेत्यर्थः । “त्रिंशद्दिनेष्वेव” इत्यत्रत्य एवकारोऽयोगव्यवच्छेदपरः । मासपदार्थमाह-मासपदं चेति । यदि मासपदं त्रिंशदिनस्थाय्यखण्डपदार्थपरं स्यात्तदा
t
२३
"Aho Shrutgyanam"
33