________________
नामधातुप्रकरणम् j
व्युत्पत्तिवादः ।
( ३२९ )
66
सुप आत्मनः क्यच् ” इत्यादिना इच्छाकर्तृसंबन्धि यदिच्छाकर्म तद्बोधकसुबन्तात् क्यचूकाम्यचोविंधानात् । संबन्धित्वं च संबन्धित्वेन भातत्वम्, अन्यथा यस्येच्छाकर्तुः पुत्रोऽसिद्धस्तस्यापि स्वीयत्वेन पुत्रेच्छादशायाम् ' पुत्रीयत्ययम्' इत्यादिप्रयोगस्य सर्वसिद्धस्यानुपपत्तेः ।
उक्तस्थले ' पुत्रीयति' इत्यादिवाक्यस्य प्रामाण्यवारणाय च क्यजाद्यर्थेच्छायां पुत्रादेर्विषयत्वमात्रं न संबन्धः किं तु स्वांशे भासमानसंबन्धस्य प्रतियोगितया यो विषयस्तादृशपुरुषवृत्तित्वसहितमित्युपेयम् । स्वसंबन्धस्य क्य जाधवाच्यत्वेप्युक्तसंबन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्श
"
माह - सुप इति इच्छाकर्तृसंबन्धिपदार्थ एव यदेच्छाकर्म भवति तदैवेच्छार्थे “ सुप आत्मनः क्यच् इत्यादिना क्यचूकाम्यचोर्विधानादित्यर्थः । स्वकीयपुत्रादिविषयकेच्छायामेव सत्य क्यजादिप्रत्ययों भवतीति यावत् । तदुक्तं वृत्तिकारण - " इषिकर्मण इषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् " इति । कर्तृसंबन्धिश्वं च कर्तृसंबन्धित्वेन भासमानत्व - मेव ग्राह्यमऽन्यथा पुत्राभावे पुत्रे पुत्रेच्छाकर्तृसंबन्धित्वस्यासंभवात् पुत्रेच्छायां सत्यामपि 'पुत्रीयति' इति प्रयोगो न स्यात् वस्तुतः पुत्रे सत्यपीच्छाविषयी भूतपुत्रस्याऽसत्त्वात् ' पुत्रीयति इति प्रयोगो न स्यादित्याह - संबन्धित्वं चेति ।' ऋद्धस्य राजमातङ्गाः ' इत्यत्रेव ' पुत्रीयति इत्यत्र नामधातुवृत्त्येकदेशेन पुत्रपदार्थेन पण्डितादिपदार्थस्याभेदान्वयो न संभवतीति पण्डितं पुत्रीयति ' ' प्रवीरं पुत्रकाम्यति इत्यादयः प्रयोगा न भवन्तीत्यनुसंधेयम् ।
1
उक्तस्थले इति-उक्तस्थले = परपुत्रादिगो चरेच्छावति पुंसि ' पुत्रीयति ' इति प्रयोगो न भव तीति तादृशदशायाम् ' पुत्रीयति ' इत्यादिवाक्यस्य प्रामाण्यवारणाय क्यजादिप्रत्ययार्थेच्छायां पुत्रादेर्विषयित्वमात्रं न संबन्धः = विषयित्वमात्र संबन्धेन नान्ययो भवति अन्यथा चैत्रसमवेत मैत्रपुत्रविषयकेच्छायामपि मैत्रपुत्रस्य विषयित्वसंबन्धेनान्वयसंभवाद् मैत्रपुत्रविषयकेच्छावत्यपि चैत्रे
:
पुत्रीयति ' इति प्रयोगः स्यादेव, तस्मात् स्वांशे = पुत्रे भासमानो य इच्छाकर्तृपितुः स्वत्वसंवन्धस्तादृशसंबन्धस्य प्रतियोगितया य इच्छाकर्तृरूपपितृरूपो विषयश्चत्रादिस्तादृशचैत्रादिरूप - पितृपुरुषवृत्तित्वसहित विषयित्वसंबन्धेनैव क्यजाद्यर्थेच्छायां पुत्रादेरन्वयो भवति तथा च परपुत्र· विषयकेच्छास्थले इच्छायामुक्तपितृरूपपुरुषवृत्तित्वं नास्तीति तादृशसंबन्धेनेच्छायां पुत्रान्वयासंभवात् ' पुत्रीयति ' इति प्रयोगापत्तिर्नास्तीत्यर्थः । उक्ते प्रमाणमाह- स्वसंबन्धस्येति, स्वमू= पुत्रः । क्यजादेरिच्छामात्रवाचकत्वेन उक्तस्येच्छानुयोगिकपुत्र संबन्धस्य क्यजाद्यऽवाच्यत्वेप्युक्तेनैवोभयसंबन्धेन क्यजादिवाच्येच्छायां सुबन्तार्थस्य = पुत्रस्थान्वयो भवतीति व्युत्पत्तेः = नियमस्य प्रदर्शनात्र " सुप आत्मन: क्यच् " इति सूत्रे आत्मनः इति षष्ठ्यन्तपदमुपात्तम्, "आत्मनः " इत्यनेन स्वकीयपुत्रादिविषयकेच्छायामेव सत्यां क्यच् भवतीतिसूत्रार्थात् तादृशेच्छा
66
33
"Aho Shrutgyanam"