________________
( ३२८)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डेशेन षष्ठयर्थान्वये " प्रतियोगिपदादन्यद् यदन्यत् कारकादपि" इतिव्युत्पत्तिविरोध इतिवाच्यम्, तादृशव्युत्पत्तेरभेदान्वयस्थले एव स्वीकारात, वृत्त्येकदेशेन भेदान्वये बाधकाभावात् । अत एव ऋद्धस्य राजमातङ्गाः ' इत्यादिप्रयोगो नेष्यते, इष्यते च पितुः स्वर्गकामः' इत्यादिप्रयोगः। नच कारकपदप्रतियोगिपदयो दनिवेशनमफलमिति वाच्यम्, तन्निवेशस्य दृष्टान्तविधयोक्तत्त्वात्यथा प्रतियोगिपदाद्यर्थस्य कुत्राप्यभेदान्वयो न भवति तथा वृत्त्येकदेशेनाऽन्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् ।
अभेदविवक्षायाम्-' पण्डितं पुत्रीयति , प्रवीरं पुत्रकाम्यति । इत्यादिप्र. योगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि 'पुत्रीयति' इत्यादयो न प्रयोगा:मानाभावादित्यर्थः । ननु तत्र षष्ट्यर्थसंबन्धविवक्षायां वृत्त्येकदेशेन पाकेन षष्ट्यर्थसंबन्धस्यान्यये " प्रतियोगिपदादन्यत्' इति नियमविरोधः स्यादित्याशङ्क्याह-न चेति । प्रतियोगिपदाविति-कारकस्यैव वृत्त्येकदेशेनान्वयः संभवति यथा ' तण्डुलस्य पाकीयति ' इत्यत्र षष्ठया कर्मत्या क्विक्षायां कर्मकारकस्य तण्डुलस्य वृत्त्येकदेशेन पाकेन, कारकादन्यस्य तु वृत्त्येकदेशेनान्वयो न संभवतीत्यत्र षष्ठया संबन्धविवक्षायां तण्डुलस्य कारकत्वाभावात्तदन्वयो वृत्त्येकदेशे पाके न संभवतीत्यर्थः । परिहारमाह-तादृशेति, " प्रतियोगिपदादन्यत्" इत्यस्य कारकपदार्थादन्यस्य वृत्त्येकदेशेनाऽभेदान्वयो न भवतीत्ययमेवार्थ इति कारकादन्यस्यापि वृत्त्येकदेशेन भेदान्वये बाधकामावादत्र कारकादन्यस्यापि तण्डुलस्य भेदेन स्वकर्मकत्वरूपभेदसंबन्धेन वृत्त्येकदेशे पाकेऽन्वये न कोपि दोष इत्यर्थः । उक्ते विनिगमनामाह-अत एवेति, यतः कारकादन्यस्य वृत्त्येकदेशेनाभेदान्वयों न भवतीत्ययमेवोक्तव्युत्पत्तेरभिप्रायोऽत एव 'ऋद्धस्य राजमातङ्गाः । इत्यत्र कारकादन्यस्य ऋद्धस्य समासवृत्त्येकदेशेन राज्ञाऽभेदाऽन्वयो न भवतीति 'ऋद्धस्य राजमातङ्गाः । इति प्रयोगोपि न भवति, भेदान्वये तु विरोधो नास्तीति 'पितुः स्वर्गकामः । इति प्रयोगो भवति-अत्र कारकादन्यस्यापि पितृपदार्थस्य समासवृत्त्येकदेशेन स्वर्गेण भेदान्वयस्यैवेष्टत्वादित्यर्थः । ननु " प्रतियोगिपदात् " इत्यत्र प्रतियोगिपदकारकपदयोर्भेदेन निवेशनम्= प्रतियोगिपदकथनं व्यर्थमेव कारकपदेनैव तदर्थलाभात् कारकस्यैव प्रतियोगित्वादित्याशङ्क्याहन चेति । परिहारमाह-तन्निवेशस्येति, तनिवेशस्य प्रतियोगिपदनिवेशस्य दृष्टान्तविधया सार्थकत्वादित्यर्थस्तथा चोक्तव्युत्पत्तेः-' यथा प्रतियोगिपदार्थस्य कुत्राप्यभेदान्त्रयो न भवति यथा-' चन्द्रवन्मुखम् । इत्यादौ सादृश्यप्रतियोगिनः चन्द्रस्य सादृश्ये भेदान्त्रय एव भवति न त्वऽभेदान्वयस्तथाऽन्यपदार्थस्य कारकादन्यपदार्थस्य वृत्त्येकदेशेनाऽभेदान्चयो न भवति । इत्ययमेवार्थ इति षष्ठयाः संबन्धार्थकत्वविवक्षायामपि कारकादन्यस्यापि तण्डुलस्य वृत्त्येकदेशेन पाकेन भेदान्वये विरोधाभावात् ' तण्डुलस्य पाकीयति' इति प्रयोगो भवत्येवेत्यर्थः। ___ यथा ह्यऽभेदविवक्षायामपि ' पण्डितं पुत्रीयति । इत्यादिप्रयोगो न भवति तथा परपुत्रविषयकेच्छायां सत्यामपि 'पुत्रीयति ' इत्यादि प्रयोगो न भवतीत्याह-अभेदेति । अत्र प्रमाण
"Aho Shrutgyanam"