________________
नामधातुप्रकरणम् ]
व्युत्पत्तिवादः ।
"L
3 6
(३२७) यत्राख्यानार्थे णिच् तत्र प्रकृतिवच कारकम् " इत्यनेन कृदन्तकारकस्य ण्यन्त प्रकृतिप्रतिपाद्यक्रियाकारकतुल्यत्वातिदेशाद् ' राजानं गमयति सूर्यमुद्गमयति' इत्यादौ ण्यन्तधातुयोगे यथा प्रकृत्यर्थक्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिचूयोगेपीति=आख्येयगत्युद्गत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेति ण्यन्त्यधातुयोगे यथा प्रकृतेः कर्मणो द्वितीयान्तता तथा णिच्प्रत्ययान्तकृदन्तकर्मणोपीति लाभात् कृदन्तकर्मणः कंसादेर्द्वितीयोपपत्तिः । तथाविवक्षायाम् 'तण्डुलस्य पाकीयति ' इतिप्रयोग इष्यते एव - कारकविभक्त्यर्थस्य वृत्त्येकदेशेमाप्यन्वयस्य व्युत्पन्नत्वात् । संबन्धविवक्षायां च न तथा प्रयोगः ।
वस्तुतः संबन्धविवक्षायामपि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदे -
रकस्य गमयति ' इत्यादिण्यन्तप्रकृतिभूतधातुप्रतिपाद्या या गमनादिक्रिया तादृशक्रियाकारकतुल्यत्वमतिदिश्यते इति यथा " राजानं गमयति ' इत्यादौ व्यन्तवातुयोगे प्रकृत्यर्थगमनक्रियकर्ते राजपदार्थस्य कर्मत्वं भवति तथा ' कंसवधमाचष्टे कंसं वातयति ' इत्यादौ कृदन्तवध - पदोत्तरणिच्यो गेपि कृदन्तवधपदार्थकारकस्य कंसस्य कर्मत्वं संभवतीत्यर्थः । तथा च C राज
C
"
गतिमाचष्टे राजानं गमयति सूर्योद्गतिं ( सूर्योदयम् ) आचष्टे - सूर्यमुद्गमयति ' इत्यादावाख्येय ( व्याख्येय ) गत्यादिकर्त राजादिपदार्थस्य कर्मत्वेन तदुत्तरम् - राजादिपदोत्तरं द्वितीया भवतीति यथा ण्यन्तधातुयोगे प्रकृतिभूतगम्यादिकर्मणो द्वितीयान्तता भवति तथा णिच्प्रत्ययान्तकृदन्तवधादिकर्मणोवि द्वितीयान्तता भवतीत्युक्तानुशासनेन लाभादत्र कृदन्तवधकर्मभूतस्य कंसादेः = कंसार्थप्रतिपादककंसपदाद् द्वितीया युक्तैवेत्यर्थः । स्वोक्तवाक्यं स्वयं व्याचष्टे - आख्येयेत्यादिना । विषयश्चायं विस्पष्टप्रतिपत्त्यर्थं हन्तेर्वधादेशस्तस्य णिचि घातयतीतिरूपापत्तिश्चेत्यादिर्व्याकरणशास्त्रे द्रष्टव्यः | तथाविवक्षायाम् = तण्डुलस्य कृदन्तकर्मत्वविवक्षायां तु तण्डुलस्य पाकीयति ' इति प्रयोगः " कर्तृकर्मणोः कृति इत्यनुशासनेनेष्ट एवेत्याहतथाविवक्षायामिति । उक्ते हेतुमाह- कारकेति किं वा ननु तण्डुलस्य पाकीयति इत्यत्र ष्टर्थस्य पदार्थस्य वृत्त्येकदेशेन = ' पाकीपति' इत्याकारकनामधातुवृत्तेरेकदेशेन पाकेनैवान्वयः कर्तव्यः स च न संभवति " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति नियमादित्याशङ्क्याह- कारकेति, ' तण्डुलस्य पाकीयति ' इत्यत्र तण्डुलपदोत्तरषष्ठ्याः कर्मत्वार्थकत्वेन कारकविभक्तित्वापत्त्या तादृशकारकविभक्तिभूत षष्ठ्यर्थस्य कर्मत्वस्य वृत्त्येकदेशेनापि पाकादिनाऽन्वयो भवत्येवेति ' तण्डुलस्य पाकीयति ' इतिप्रयोगस्य नानुपपत्तिरित्यर्थः । संबन्धार्थकषष्ठ्यर्थभूतसंबन्धपदार्थस्य तु वृत्त्येकदेशेनान्वयो न भवतीति षष्ठया संबन्धविवक्षायाँ तथा = ' तण्डुलस्य पाकीयति । इति प्रयोगो न भवतीत्याह-संबन्धविवक्षायां चेति, तादृशसंबन्धषष्ठ्याः कारकविभक्तित्वाभावात् तदर्थस्योक्तरीत्या वृत्त्येकदेशपाकेन्वयासंभवादित्यर्थः । स्वमतमाह - वस्तुत इति षष्ठ्यर्थ भूतसंबन्धस्यापि विवक्षायां तथा ' तण्डुलस्य पाकीयति ' इति प्रयोग इष्ट एव - षष्ठयर्थकर्मत्वविवक्षायां स्यात् षष्ठयर्थसंबन्धविवक्षायां च न स्यादित्यत्र
2
"
首
"Aho Shrutgyanam"