________________
(३२६)
सादर्श:- [ द्वितीयाकारकद्वितीयखडेबोधकतयेच्छायाः कर्माकाङ्क्षाविरहात् । न च 'पुत्रीयति' 'पुत्रकाम्यति । इत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभावेनाऽकर्मकत्वेपि आत्मनः पाकमिच्छति पाकीयति ' इत्यादौ प्रकृत्यर्थपाकादेः सकर्मकतया सन्नन्तसमुदायषद् क्यजाद्यन्तपाकादिसमुदायस्य सकर्मकताया दुरितया 'तण्डुलं पाकीयति' इत्यादिप्रयोगापत्तिरित वाच्यम्, कृधातुसमानार्थकयतेरिव सन्नन्तप्तमा नार्थकस्य क्यजन्तादेरापि कर्मताबोधकसुप्साकाक्षत्वानुपगमेन तथाप्रयोगाप्रस. ङ्गात् । कृदन्तकर्मत्वविवक्षायां तु षष्ठया बाधाद् द्वितीयाया अग्रसक्तिः । ___ न च धात्ववयवकृयोगे “कर्तृकर्मणोः कृति " इत्यस्य द्वितीयाबाधकत्वे 'कंसकर्मकवधमाचष्टे कंसं घातयति ' इत्यत्र द्वितीया न स्यात् कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थनादिति वाच्यम्, कृदन्तोत्तरं सन्प्रत्ययार्थेच्छां प्रति सन्प्रकृतिभूतधात्वर्थस्य कर्मत्वेन सनः कर्माकाङ्क्षाविरहेपि प्रकृतिभूतधातोः कर्माकाङ्क्षया ' पाकं चिकीर्षति । इत्येवं सकर्मकः प्रयोगोपि भवत्येवेत्यर्थः । ननु 'पुत्रीयति ' इत्यादौ प्रकृतिभूतपुत्रपदस्य सकर्मकत्वाभावेनास्य कर्माकाङ्क्षाविरहादकर्मकस्लेषि 'आत्मनः पाकमिच्छति- पाकीयति' इत्यादौ पाकपदार्थस्य सकर्मकत्वेन यथा ' पाकं चिकीर्षति ' इति सकर्मकप्रयोगो भवति तथेच्छार्थकक्यजादिप्रत्ययस्थलेपि ' तण्डुलं पाकीयति' इत्येवं सकर्मकः प्रयोगो कथं न स्यादित्याशङ्कयाह- न चेति । परिहारमाह- कृधातुसमानेति, यया यद्यपि यतिधातुः कृधातुसमानार्थक एव तथापि कृत्रः सकर्मकत्वमस्ति यतेश्व सकर्मकत्वं नास्ति तथैव सन्नन्तसमानार्थकस्यापि क्यजन्तादेः प्रयोगस्य धातोर्वा कर्मताबोधक यत् सुप्-सुबन्तं तण्डुलमित्यायुक्तपदं तत्साकाङ्क्षत्वाभावादेव तथा प्रयोगस्य=' तण्डुलं पाकीयति' इत्येवं सकर्मकप्रयोगस्य प्रसङ्गः आपत्तिर्नास्तीत्यर्थः । कृदन्तं यत्पाकादिपदं तत्कर्मत्वविवक्षायामपि तण्डुलादिपदात् षष्ठयेव संभवति " कर्तृकर्मणोः कृति " इत्यनुशासनान्न तु द्वितीया तथा च ' तण्डुलस्य पाकीयति ' इतिप्रयोगसंभवेपि — तण्डुलं पाकीयति । इति न संभक्तीत्याह- कृदन्तेति । - . ननु यदि " कर्तृकर्मणोः कृति " इत्यनेन द्वितीयाबाधः स्यात्तदा ' कंसं घातयति । इत्यत्र कंसस्य ' कंसवधमाचष्टे , इत्याख्यानकर्मत्वं तु नास्त्येव वधस्यैवाख्यानकर्मत्वादिति मधर्मत्वमेव कंसस्य वक्तव्यं तादृशवधर्मतयैव कंसपदाद् द्वितीयासमर्थनं च कर्तव्यं तत्र क्यपदस्य कृदन्तत्वेन तत्कर्मवाचकसपदात् षष्ठयेव स्यान्न तु द्वितीयेति ' कंसं घातयति । इति प्रयोगो न स्यादित्याशङ्क्याह-न चेति । तदुत्तरम्-कंसपदोत्तरम् । आचष्टे इत्यस्यारूयानार्थकत्वं विज्ञेयम् । परिहारमाह- कृदन्तोत्तरमिति, 'कंसवधमाचष्टे- कंसं घातयति। इत्यादौ यत्र कृदन्तवधादिपदोत्तरं णिच्प्रत्ययो भवति तत्र " आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् " इत्यनुशासनेन चुरादिगणपठितेन कृदन्तका
"Aho Shrutgyanam"