________________
नामधातुप्रकरणम् ]. व्युत्पत्तिवादः।
(३२६) सनः समानकर्तृकत्वार्थकतां न प्रतिपादयति तस्य हि- “इच्छाकर्मत्वेन तत्समानकर्तृकत्वेन च स्वार्थपराद्धातोरिच्छारूपार्थे सन् भवति' इत्येवार्थः । इच्छाधात्वर्थयोः संसर्गतया समानकर्तृकत्वविवक्षायामपि समानकर्तृकत्वोपरक्तार्थपरत्वं धातोनिर्वहतीति इच्छामात्र शक्तिग्राहकं तत्सूत्रमिति ।
सुबन्तोत्तरेच्छार्थविहितक्यचकाम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ताऽविशेषेपि सन्नन्तधातुवन्न सकर्मकता- तदन्तर्गतप्रातिपदिकस्यैवेच्छाकर्मधायकं सूत्रम् “समानकर्तृकात्" इति पदेन सन्प्रत्ययस्य समानकर्तृकत्ववाचकतां न प्रतिपादयतीत्यर्थः । सविधायकोक्तसूत्रस्य स्वयमर्थमाह- तस्येति, ' इच्छाकर्मत्वेन तत्समानकर्तृकत्वेन' इति च प्रकारत्वं तृतीयार्थस्तथा च 'इच्छाकर्मत्वप्रकारक इच्छासमानकर्तृकत्वप्रकारकश्च यः स्वार्थस्तादृशस्वार्थपराद्धातोरिच्छारूपार्थे सन् भवति ' इत्येव सूत्रार्थ:- यस्य कृतिभोजनादिरूपधात्वर्थस्येच्छाकर्मत्वमपि स्यादिच्छासमानकर्तृकत्वमपि स्यात् तादृशधात्वर्थबोधकधातोः सन् मवतीति यावत्, तदुक्तं वृत्तिकारेण- " इषिकर्मण इषिणककर्तकाद्धातोः सन् प्रत्ययो वा स्यादिच्छायाम् '' इतीच्छामात्रवाचकत्वं प्राप्तम् । ' चैत्रश्चिकीर्षति । इत्यत्र च धात्वर्थकृतेरिच्छाकर्मत्वमिच्छासमानकर्तृकत्वं चास्तीति सन्प्रत्ययो जातः, इति न समानकर्तृकत्वस्य सन्वाच्यत्वम्, धात्वर्थविशेषणस्य च समानकर्तृकत्वस्य कथं हि सन्वाच्यत्वं स्यात् तस्य (सनः ) इच्छाबाचकत्वात् समानकर्तृकत्वस्येच्छाविशेषणत्वाभावाच्चेति भावः । ननु यदीच्छायां धात्वर्थस्य 'समानकर्तृकत्वसंबन्धेनान्वयो भवति तदा समानकर्तृकत्वस्य संसर्गत्वमेव प्राप्तं न तु धात्वर्थविशेषणत्वं तथा च सन्प्रकृतिभूतधातोः समानकर्तृकत्वविशिष्टस्वार्थबोधकत्वं कथं स्यात् सूत्रोक्तमित्याशङ्क्याह- इच्छाधात्वर्थयोरिति, असंबद्धपदार्थस्य संसर्गत्वासंभवात् समानकर्तृकत्वस्य संसर्गतया विवक्षायामपि धात्वर्थविशेषणत्वं प्राप्तमेवेति न सूत्रोक्तस्य " समानकर्तृकात् " इति पदस्य विरोध इति तत्सूत्रम उक्तसविधायकसूत्रं सन इच्छामात्रे शक्तिप्राहकं न तु समानकर्तृकत्वेपीत्यर्थः। __ संप्रति नामधातुप्रकरणमारभते- सुबन्तोत्तरेति, 'आत्मनः पुत्रमिच्छति- पुत्रीयति पुत्रकाम्यति । इत्यादौ सुबन्त ( द्वितीयान्त ) पुत्रपदोत्तरमिच्छार्थे " सुप आत्मनः क्यच् " "काम्यच्च" इतिसूत्राभ्यां क्यच्काम्यच्प्रत्ययौ भवतस्तादृशप्रत्ययान्तस्य " सनाद्यन्ता भातवः " इत्यनेन धातुसंज्ञा भवति तदनन्तरमाख्यातप्रत्ययो भवतीति पुत्रीयति पुत्रकाभ्यति ' इत्यादयः प्रयोगा भवन्ति, तत्र क्यचकाम्यच्प्रत्यययोर्यद्यपीच्छार्थकत्वेन सन्प्रत्ययतुल्यत्वात् सकर्मकत्वं स्यात्तथापि तदन्तर्गतस्य क्यच्काम्यजन्तान्तर्गतस्य पुत्रादिप्रातिपदिकस्यैव क्यजादिप्रत्ययार्थेच्छायाः कर्मपदार्थबोधकतया ( क्यजाद्यर्थेच्छां प्रति प्रकृत्यर्थभूतपुत्रादिपदार्थ. स्यैव कर्मत्वात् ) क्यजादिप्रत्ययान्तस्य कर्माकाङ्क्षाया अभावात् सन्नन्तधातुवत् सकर्मकत्वं न मवतीति 'भात्मानं पुत्रीयति ' इत्यादिः कर्मपदयुक्तः प्रयोगो न भवति । सनन्तस्थले तु
"Aho Shrutgyanam"