________________
( ३२४ )
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे - संबन्धेनैव । उक्तातिप्रसङ्गवारणायेंच्छासमानकर्तृकत्वेपि सन्प्रत्ययवाच्यतां स्वीकृत्य क्रियायां तदन्वयोपगमो न साधीयान् - इच्छान्तरसमानकर्तृकत्वमादाय दर्शितस्थलेतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपस्वपदार्थानुगमेन व्युत्पत्त्यनुपपत्तिः ।
56
न च समानकर्तृकत्वस्य संबन्धत्वापगमे तत्र शक्तिग्राहकानुशासनविरोधः, यतः- धातोः कर्मणः समानकर्तृकादिच्छायां वा " इतिसन्विधायक सूत्रं जनादेर्विशेषणत्त्रासंभवान्नोक्तस्थले 'अयं चिकीर्षति बुभुक्षते' इत्युक्तप्रयोगापत्तिरस्तीत्यर्थः । ननू-: कातिप्रसङ्गवारणायापि न धात्वर्थकृतिभोजनादीनां सन्नर्थेच्छायां विशेष्यतासमानकर्तृकत्वैतदुभयसंबन्धेन विशेषणत्वं स्वीकार्य किं तु केवल विशेष्यतासंबन्धेनैव, इच्छासमानकर्तृकत्वस्य तु सन्प्रत्ययवाच्यत्वमेव स्वीकार्य तादृशस्य सन्वाच्यस्येच्छासमानकर्तृकत्वस्य च क्रियायाम् धात्वर्थतिभोजनादावन्वयः कर्तव्य इति कृत्यादीनां यत्रेच्छासमानकर्तृकत्वं स्यात् तत्रैव सन् भविष्यति.. उक्तस्थले तु कृत्यादिकर्तृत्वं चैत्रे इच्छाकर्तृत्वं च मैत्रे इति कृत्यादीनामिच्छासमानकर्तृकत्वाभावादु.तस्थले ' अयं ( मैत्रः ) चिकीर्षति । इत्यादिप्रयोगापत्तिर्नास्तीत्याशङ्क्याह- उक्तातिप्रसङ्गेति । परिहारहेतुमाह - इच्छान्तरेति, यद्यप्युक्तस्थले चैत्रकर्तृककृतिभोजनादिविषया या मैत्रनिष्ठेच्छा तादृशेच्छासमानकर्तृकत्वं चैत्रकर्तृककृतिभोजनादौ नास्ति - इच्छायां मैत्रकर्तृकत्वस्य कृतिभोजनादौ च चैत्रकर्तृकत्वस्य सत्त्वात् तथापि चैत्रनिष्टं यदिच्छान्तरं दर्शनादिविषयकेच्छा तादृशेच्छासमानकर्तृकत्वं तु चैत्रकर्तृककृतिभोजनादावस्त्येवेत्युक्तस्थले कृतिभोजनादाविच्छासमानकर्तृत्वस्य प्राप्त्या अयं चिकीर्षति ' इतिप्रयोगापत्तिरूपोऽतिप्रसङ्गस्तदवस्थ एव स्यादिस्यर्थः । ननु कृतिभोजनादौ धात्वर्थेऽन्वीयमानं यदिच्छासमानकर्तृकत्वं तत्रेच्छापदेनेच्छान्तरं न ग्राह्यं किं तु धात्वर्थीभूतकृतिभोजनादिविषयकवेच्छा ग्राह्मा तथा च तादृशेच्छाग्रहणार्थमिछापदस्थाने स्वपदं निवेश्य स्व ( इच्छा ) समानकर्तृकत्वस्य सन्प्रत्ययवाच्यत्वं कृतिभोजनादावन्वयं च वक्ष्यामस्तथा च नेच्छान्तरमादायोक्तातिप्रसङ्ग :- स्वपदेन तदिच्छा व्यक्तिमात्रग्रहप्याद् उक्तस्थले कृतिभोजनादिविषयकेच्छाकर्तृत्वं चैत्रे नास्ति कृतिभोजनादिकर्तृत्वं च चैत्रे एवेति न अयं चिकीर्षति इतिप्रयोगापत्तिरपीत्याशङ्क्याह- स्वसमानेति, एवं हि तत्तदिच्छाव्यक्तिबोधकस्वपदबोध्यस्वपदार्थस्य तत्तदिच्छारूपस्यानुगमाऽसंभवाद् व्युत्पत्त्यनुपपत्तिः == सन्प्रत्ययस्य शक्तिग्रह एव न संभवति, तस्मात् समानकर्तृकत्वमप्युक्तरीत्या संबन्धकोटावेव निवेशनीयं न . सन्प्रत्ययवाध्यकोटौ तथा चोक्तरीत्या न कोपि दोष इत्यर्थः ।
-
<
ननु यदि समानकर्तृकत्वमुक्तरीत्या संबन्धकोटौ निवेश्यते तदा शक्तिग्राहकानुशासन विरोधः= सविधायक सूत्रेणैव सन्प्रत्ययार्थो निरूप्यते इति तस्यैव शक्तिप्राहकत्वात् तद्विरोधः स्यात्तेन सूत्रेण समानकर्तृकाद्धातोरिच्छायां सन् विधीयते इति समानकर्तृकत्वस्यापि सन्वाच्यत्वमेव युक्तमित्याशङ्क्याह- न चेति । परिहारमाह- यत इति, “ धातोः कर्मण: " इति सन् वि
"Aho Shrutgyanam"