________________
सन्नन्तप्रयोगविचारः] व्युत्पत्तिवादः।
( ३२३) निरूपितविषयिताया नियमत इच्छायां भानोपगमेनोक्तस्थले विष बभक्षते चैत्रः' इत्यादिप्रयोगवारणेपि गगनं दिदृक्षते चैत्रः' इत्यादिप्रयोगस्य दुरुपपादत्वात् ।
इदं तु बोध्यम्- सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासंबन्धेन न विशेषणत्वं तथा सति परकतककृतिभोजनादिगोचरेच्छावति 'अयं चिकीर्षति. बुभुक्षते ' इतिप्रयोगप्रसङ्गात् किं तु विशेष्यतासमानकर्तृकत्वोभय
षगतया भासेत तदा धात्वर्थविशेषगतयाधात्वर्थविशेषणीभूतं यत् तत्तत्पदार्थकर्मस्वम् ओदनादिपदार्थकर्मत्वं निरूपकत्वसंबन्धेन तद्विशिष्टं यद् भोजनादिकं तादृशभोजनादिनिरूपितविषयिताया इच्छायां भानं भवत्येवेति नियमेन विषकर्मकभोजनेच्छायामसत्याम् विषं बुभुक्षते ' इति प्रयोगापत्तिवारणं यद्यपि संभवति- भोजनेच्छायां विषकर्मत्वविशिष्टभोजननिरूपितविषयिताया मानासंभवाद् विषभोजनेच्छाया अभावात् तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरू. पितविषयिताया इच्छायां भानसंभवे एच सन्प्रत्ययप्राप्तिसंभवात् , तथापि 'गगनं दिक्षते चैत्र, इतिप्रयोगस्योपपादनं न संभवति- गगनकर्मत्वविशिष्टदर्शननिरूपितविषयिताया इच्छायां मानासंभवात्- दर्शने गगनकर्मत्ववैशिष्टयासंभवात्- गगनस्य दर्शनयोग्यत्वाभावात्, गगने धात्वर्थभूतदर्शनकर्मत्वाभावाद् गगननिष्ठधात्वर्थ निरूपितकर्मत्वस्येच्छाविशेषणत्वासंभवादित्यर्थः । यदा च धात्वर्थकर्मत्वेनेच्छाविषयत्वरूपमेव कर्मत्वमिच्छाविशेषणं तदा तु 'गगनं दिदृक्षते, इत्यत्र घटादिषु प्रसिद्ध यद् धात्वर्थीभूतदर्शनकर्मत्वं तादृशदर्शनकर्मत्वेनेच्छाविषयत्वं गगनेपि संभवतीति 'गगनं दिदक्षते' इति प्रयोगोपपत्तिः संभवति- दर्शनकर्मत्वासंभवेपि दर्शनकर्मत्वेनेच्छाविषयत्वस्याकाशेपि संभवादित्यर्थः ।।
सन्प्रतिपाद्येच्छायां सन्प्रकृतिभूतधात्वर्थकृतिभोजनादेर्येन संवन्धेनान्वय इष्टस्तत्प्रतिपादयितुमारभते- इदं तु बोध्यमित्यादिना, यदि सन्नर्थेच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासंबन्धेनान्वयः स्यात् तथा सति तदा परकर्तृककृतिभोजनादिगोचरेच्छावति चैत्रकर्तृककृतिमोजनादिविषयकेच्छावति मैत्रे 'अयं ( मैत्रः ) चिकीर्षति, अयं बुभुक्षते' इतिप्रयोगापत्तिः स्यादेव-- मैत्रनिष्ठेच्छायास्तदा चत्रकर्टककृतिभोजनादिविषयकत्वात् चैत्रकर्तृककृतिभोजनादिनिरूपितविशेष्यतायाः (विषयितायाः) मैत्रनिष्ठेच्छायां सत्त्वात् ताश्शेिष्यतासंबन्धेन चैत्रकर्तृककृतिभोजनादेरपि मै निच्छायामप्यऽन्त्रयित्वेन विशेष गत्वादित्यर्थः। तस्मात् सनर्थेच्छायां धात्वर्थकृतिभोजनादेबिटोगना- समानकर्तकत्वैतदुभयसंबन्धेन विशेषणत्वं भवतीत्याह- किं विति, तथा चोक्तस्थले मैत्रनिष्ठेच्छायां चैत्र कर्तृककृतभोजनादिनिरूपितविशेष्यतायाः सत्त्वेपि चैत्रकर्तृककृतिमोजनादिसमानर्तृकत्वस्याऽसत्त्वात्- कृतिभोजनादिकर्तृत्वस्य चैत्रे कृतिभोजनादिविषयकेच्छाकर्तृत्वस्य च मैत्रे सत्वादिति, तथा च विशेभ्यतासमानकर्तृकत्वैतदुभयसंबन्धेन मैत्रनिष्ठेच्छायां चत्रकर्तृककृतिमो--
"Aho Shrutgyanam"