________________
( ३२२ )
सादर्श:
[ द्वितीयाकारक द्वितीयखण्डे - स्थित्याधारत्वादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अत एवं यदोदनव्यक्तिकर्मकभोजनमप्रसिद्धम् अथ च भोजनकर्मतया तदिष्टं तत्र अमोदनो बुभुक्ष्यते ' इत्यादेः- दर्शनादिविषयत्वेन गगनादिगोचरेच्छास्थले च 'गगनं दिदृक्ष्यते ' इत्यादेश्व प्रयोगस्य नानुपपत्तिः, न वा ओदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र ' विषं बुभुक्ष्यते ' इत्यादयः प्रयोगाः ।
6
कर्तृप्रत्ययस्थलेपि च तादृशविषयतारूपं कर्मत्वमेवेच्छाविशेषणतया भासते न तु धात्वर्थकर्मत्वम् । धात्वर्थविशेषणतया तत्तत्पदार्थकर्मत्वविशिष्टभोजनादिभवति ष्ठाधातोरकर्मकत्वात् किं तु स्थित्याधारत्वेनैवेच्छाविषयत्वं भवतीति गृहं तिष्ठास्यते. गृहं तिष्ठासति' इत्यादिप्रयोगापत्तिरपि नास्ति किं तु ' गृहे तिष्ठास्यते ' इत्येव प्रयोगो भवति गृहस्याधारत्वेन सप्तमी प्राप्ते रित्याह- गृहस्थित्यादीच्छायामिति । अत एवेति यतो धात्वर्थकर्मण इच्छाविषयत्वे सति सन् भवति किं वा यतो धात्वर्थकर्मतया इच्छाविषयत्वमेवेच्छाकर्मत्वमत एव यदोदनव्यक्ति कर्मकं भोजनमप्रसिद्धं स्यात् ( तदोदनस्य भोक्तुमशक्यत्वात् ) अथ च तदोदनं भोजनकर्मत्वेनेष्टं स्यात् ( तदोदनकर्मकभोजनेच्छायाः संभवात् ) तत्र = तादृशदशायामपि भयमोदनो बुभुक्ष्यते ' इति प्रयोगस्यानुपपत्तिर्नास्ति-उक्तोदनस्य भोजनासंभवेपि भोजनकर्मवनेच्छाविषयत्वसंभवात् तत्र सनः साधुत्वात् । एवं यद्यपि गगनकर्मकदर्शनमप्रसिद्धमेव तथापि यदि गगनगोचरदर्शनेच्छा स्यात्तदा गगनं दिदृक्ष्यते इतिप्रयोगस्यानुपपत्तिर्नास्ति-गगने दर्शन कर्मवासंभवेपि दर्शनेच्छाविषयत्वस्य संभवाद् दर्शनेच्छाविषयत्वं च दर्शनकर्मस्वेच्छाविषयत्वमेवेत्यर्थः । इत्येवमनुपपर्त्ति परिहृत्याऽनिष्टापत्ति परिहरति- न वेति, यत्रौदनादिरूपकर्ममात्रस्योपरागेण==विषयकत्वेन भोजनादीच्छा = ओदनमात्र कर्मकत्वविशिष्ट भोजनेच्छा ( ओदनमा - श्रकर्मकभोजनेच्छा न तु विषादिकर्मकभोजनेच्छापि ) तादृशभोजन कर्मभूतौदनेऽज्ञात विषस्य सत्त्वाद् दैववशेन तद्भोजनं विषकर्मकमपि जातम् ओदनेन सहाज्ञातविपस्यापि भोजनकर्मत्वप्राप्तेस्तत्र ' विषं बुभुक्ष्यते ' इति प्रयोगस्यापत्तिर्नास्ति-विषस्य भोजनकर्मत्वेपि भोजनकर्मत्वेनेच्छाविषयत्वाभावात् ( विषभोजनेच्छाया असत्त्वात् ) सन्प्रत्ययश्च तत्रैव भवति यत्र सन्प्रकृतिभूतधात्वर्थ कर्मण इच्छाविषयत्वमपि स्यादित्यर्थः ।
८
'पाकं चिकीर्षति '' ओदनं बुभुक्षते चैत्रः ' इत्यादिकर्तृप्रत्ययस्थलेपि 'पाकनिष्ठतादृशविषयतानिरूपिका या धावर्थभूतकृतिभोजनादिप्रकारकेच्छा 'तादृशेच्छाश्रयश्चैत्रः ' इत्याकारकशाब्दबोधोदयात् तादृशविषयतारूपम् = सन्प्रकृतिभूतधात्वर्थ कर्मत्वे नेच्छा विषयत्वरूपमेवेच्छाकत्वं निरूपकत्वसंबन्धे नेच्छाविशेषणतया भासते न विच्छाविषयत्वा समानाधिकरणं केवलं धात्वर्थनिरूपितकर्मत्वमिच्छाविशेषणतया भासते इत्याह- कर्तृप्रत्ययेति । विपक्षे बाधकमाहधात्वर्थ विशेषणतयेति, यदि इच्छाविषयत्वासमानाधिकरणमपि धात्वर्थ कर्मत्वमिच्छाविशे
"
C
"Aho Shrutgyanam"