________________
सन्नर्थेच्छा स्वरूपम् ] व्युत्पत्तिवादः।
( ३२१) विषयत्वाभावमात्रबोधस्य तत्राभ्युपगमाऽसंभवाच्चेति कर्मप्रत्ययस्थले इच्छा धात्वर्थविशेषणमेव । ___ इदं तु तत्त्वम्-कर्मप्रत्ययस्थलेपि धात्वर्थविशेष्यतयैवेच्छा सन्प्रत्ययेन प्रत्या. य्यते, तत्कर्मत्वमेव कर्माख्यातार्थः, तच्च धात्वर्थकर्मतया तद्विषयत्वम् । 'ओदनकर्मकभोजनं भवतु ' ' पाकविषयककृतिर्भवतु ' इत्यादीच्छायां च पाकौदनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थित्यादीच्छायां च गृहादे: स्यात्तदोक्तरीत्या पाकेऽतीतेच्छाधीनकृतिविपयत्वस्य संभवादुक्तसमूहालम्बनेच्छाकाले ' पाक इदानीं न चिकीर्ण्यते' इतिप्रयोगो न स्यादेवेत्यर्थः । 'पाक इदानीं न चिकीष्यते । इत्यस्य पाके कृतिविषयत्वाभावमात्रबोधकत्वस्वीकारे दोषान्तरं प्रदर्शयति-कृत्यसत्त्वेपीति, पाकविषय. ककृत्यसत्त्वेपि पाकविषयककृतिविषयकेच्छासत्त्वे तथाप्रयोगविरहात्='पाक इदानीं न चिकीय॑ते । इति प्रयोगो न भवति-पाककृतीच्छासत्त्वे पाके इच्छाविषयीभूतकृतिविषयत्वमेव प्राप्तमितीच्छाविषयीभूतकृतिविषयत्वाभावबोधकस्य ' पाक इदानीं न चिकीय॑ते । इतिवाक्यस्थ प्रयोगापत्तिर्नास्त्येव, यद्यस्य वाक्यस्य पाके कृतिविषयत्वाभावमात्रबोधकत्वं स्यात्तदा पाके वर्तमानेच्छाधीनकृतिविषयत्वसत्त्वेपि पाकविषयककृत्यन्तरस्याऽसत्त्वादेव ' पाक इदानीं न चिकीर्यते ' इति प्रयोग आपद्येतेय न चैतदिष्टमिति 'पाक इदानीं न चिकीर्ण्यते ' इत्यत्र कृतिविषयत्वाभावमात्रबोधस्वीकारो न संभवतीत्याह-कृतिविषयत्वाभावमात्रेति । कर्मप्रत्ययस्थले सनर्थेच्छाया धात्वर्थविशेष्यत्वस्वीकारे उक्तदोषवृन्दप्रसङ्गाद् धात्वर्थविशेषणत्वमेव युक्तमित्याहइतिकर्मप्रत्ययस्थले इति, तथा च 'पाक इदानीं न चिकीर्ण्यते ' इति वाक्यस्य पाके इच्छांवियीभूतकृतिविषयत्वाभावबोधकत्वादुक्तसमूहालम्बनेच्छादशायां प्रयोगानुपपत्तिरपि नास्ति पाककृतीच्छासत्त्वे प्रयोगापत्तिरपि दर्शितदिशा नास्तीति सर्व सुस्थमिति भावः । अत्र " यदा? इत्यस्य स्थाने “ यदि " इत्यपि पाठ उपलभ्यते ।
उक्तरीत्या कर्मप्रत्ययस्थले इच्छाया धात्वर्थ विशेष्यत्वं पराकृत्यापि तदेव संस्थापयितुमारभते-- इदं तु तत्त्वमित्यादिना । तत्कर्मत्वम् इच्छाकर्मत्वम् । तच्च-इच्छाकर्मत्वं च धात्वर्थकर्मतया धात्वथैकर्मत्वेन रूपेण तद्विषयत्वम् इच्छाविषयत्वं विज्ञेयम् । अनेन हि धात्वर्थकर्मत्वप्रकारकेच्छाविषयत्वमेवेच्छाकर्मत्वमिति सिद्धम् । तथा च 'ओदनकर्मकभोजनं भवतु । इतीच्छायां सत्यामोदनस्य तथेच्छाविषयतया= भोजनरूपधात्वर्थकर्मत्येनेच्छाविषयतया तत्कर्मत्वम् इच्छाकर्मत्वमस्त्येवेति तत्र ‘ओदनो बुभुक्ष्यते' इति प्रयोगानुपपत्तिर्नास्ति, एवम् ' पाकविषयककृतिर्भवतु ' इतीच्छायां सत्यां पाकस्य तथेच्छाविषयतया कृतिरूपधात्वर्थकमवनेच्छाविषयतया इच्छाकर्मत्वमस्येवेति तत्र 'पाकश्चिकीर्ण्यते' इति प्रयोगस्यानुपपत्ति स्ति, धात्वर्थकृतिकर्मपाकविषयकेच्छाविषयत्वाश्रयः पाक इति वा धात्वर्थ कर्मत्वप्रकारकेच्छाविषयत्वाश्रयः पाक इति वा शाब्दबो. धाकारः । गृहस्थितीच्छायां सत्यां गृहस्येच्छाविषयत्वेपि धात्वर्थभूतस्थितिकर्मत्वेनेच्छाविषयत्वं न
"Aho Shrutgyanam"