________________
(३२०)
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेचिकीर्ण्यते' इति प्रयोगानुपपत्तिः- अन्वयितावच्छेदककृतिविषयतात्वकृतिगोचरवर्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तदा पाकेऽसत्त्वात् ।।
न च वर्तमानकालावच्छिन्नकृतिविषयतात्वावच्छिन्नाभाव एव तत्र प्रतीयते स पाकेबाधित इति वाच्यम्, यदाऽतीतेच्छाधीनपाककृतिरपि तत्र वर्तते तदा तादृशाभावस्यापि तत्र बाधात् । पाककृतीच्छायामसत्त्यामुक्तेच्छासत्त्वेपि च तथा प्रयोगात्, कृत्यसत्त्वेपि पाककृतीच्छासत्वे तथाप्रयोगविरहात्, कृति.
इतीष्टोपि प्रयोगो नोपपद्येत- ' पाक इदानीं न चिकीर्घ्यते ' इत्यत्र पाकेऽन्वयितावच्छेदक यत् कृतिविषयतात्वं तदवच्छिन्न प्रतियोगिताकोऽभावः ( कृतिविषयकत्वाभावः ) अन्वयितावच्छेदकं यत् कृतिगोचर ( कृतिविषयक ) वर्तमानेच्छाविषयतात्वं तदवच्छिन्न प्रतियोगिताकश्चाभावः ( इच्छाविषयवाभावः ) बोध्यते उक्तसमूहालम्बनेच्छादशायां च पाकविषयककृतेरसत्त्वेन पाके कृतिविषयत्वाभावस्य सत्त्वेपीच्छाविषयत्वाभावो नास्त्येव-पाकविषयकेच्छायाः सत्त्वादित्युक्तप्रयोगानुपपत्तिरित्यर्थः । अस्मन्मते तु कर्माख्यातस्थले इच्छाया धात्वर्थविशेषणत्वस्वीकारात् 'पाक इदानीं न चिकीर्च्यते ' इतिवाक्यस्य पाके इच्छाविषयीभूतकृतिविषयत्वाभावबोधकत्वं स्वीक्रियते उक्तसमूहालम्बनेच्छाकाले च पाके इच्छाविषयत्वसत्त्वेपि कृतिविषयत्वस्याऽसत्त्वेनेच्छाविषयीभूतकृतिविषयत्वाभावस्य सत्त्वात् तद्बोधकस्योक्तप्रयोगस्यानुपपत्तिर्नास्त्येव । त्वया तु कर्माख्यातस्थलेपि सन्नथेच्छाया धात्वर्थ विशेष्यत्वस्वीकारेण 'पाक इदानीं न चिकीयते ' इति वाक्यस्य पाके कृतिविषयकेच्छाविषयत्वाभावबोधकत्वं वक्तव्यमुक्तसमूहालम्बनेच्छाकाले च पाके इच्छाविषयत्वस्यैव सत्त्वादिच्छाविषयत्वाभावो नास्त्येवेति त्वन्मते प्रयोगानुपपत्तिरस्त्येवेत्यर्थः । ___ ननु तत्र='पाक इदानी न चिकीर्ण्यते' इत्यत्र वर्तमानकालावच्छिन्नकृतिविषयतात्वावच्छिन्नप्रतियोगिताकोऽभावः । वर्तमानकृतिविषयत्वाभावः एव प्रतीयते स च कृतिविषयत्वाभावः पाके उक्तसमूहालम्बनेच्छादशायामबाधितः अस्त्येव-पाकविषयककृतेरभावादित्युक्तसमूहालम्बनेच्छादशायाम् 'पाक इदानी न चिकीर्ण्यते ' इति प्रयोगस्यानुपपत्तिर्नास्तीत्याशङ्क्याह--- न चेति । परिहारमाह-यदेति, यदा तत्र=उक्तसमूहालम्बनेच्छादशायां वर्तमानेच्छाधीनपाककृतेरसत्त्वेप्यतीतेच्छाधीनपाककृतेः संभवादतीतेच्छाधीनपाककृतिर्वर्तते ( स्यात् ) तदा तत्र पाके तादशवर्तमानकृतिविषयत्वस्यैव प्राप्त्या तादृशवर्तमानकृतिविषयत्वाभावस्य बाधात् 'पाक इदानीं न चिकीर्ण्यते । इतिप्रयोगस्यानुपपत्तिस्तदवस्थैवेत्यर्थः । 'पाक इदानी न चिकीयते । इत्यत्र पाके कृतिविषयत्वाभावमात्रबोधे दोपान्तरं प्रदर्शयति-पाककृतीच्छायामिति, उक्तेच्छाया:= उक्तसमूहालम्बनेच्छाया: (पाकेच्छायाः) सत्त्वेपि पाककृतीच्छायामसत्यां पाकविषयककृतेर• प्यसत्वं प्राप्तमिति पाने इच्छाविषयीभूतकृतिविषयत्वाभावबोधकस्य 'पाक इदानी न चिकीयेते' इतिवाक्यस्य प्रयोगो भवत्येव, यद्यत्र त्वदुक्तरीत्या पाके केवलं कृतिविषयत्वाभावस्यैव बोधः
"Aho Shrutgyanam"