________________
( ६२४ )
सादर्श:
[ आख्यातप्रकरणे
न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभान नियामकं तत्रापि च संसर्गः संसर्ग एव न तु विशेषणमिति न ज्ञानापेक्षेति वाच्यम्, विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्परत्वग्रहस्य शाब्दबोधातु पूर्वमसंभवात्, तत्तत्संबन्धविषयतानिरूपित विशेषणादिविषयताशालिबोधपरत्यज्ञानस्यैव हेतुतया तत्र संबन्धस्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनिरूपितसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे " स्वर्गत्वस्याश्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमा सामर्थ्यादसंभवाच्च" इत्यादिमिश्रप्रन्यविरोधः ।
यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारणताघटक कार्यतद्बोधकमिति ज्ञानमेव विजातीयस्वर्गनिरूपितसमवायमाननियामक ( भासक ) मस्ति तत्र = रतादृशज्ञानेपि चोक्तसंसर्गः संसर्ग एव न तु विशेषणं येन तदुपस्थित्यपेक्षा स्यादित्याशङ्कयाह-- न चेति । परिहारमाह-विशेषणेति, विशेषणविशिष्टविशेष्यं हि वाक्यार्थबोधविषयो भवतीति तस्य वाक्यार्थबोधात् पूर्वमनिश्चिततया वाक्यस्य विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव वाक्यार्थबोधात् पूर्व न संभवति येन तस्य संसर्गमाननियामकत्वं स्यादित्यर्थः । विवक्षितबोधपरत्वज्ञानस्य संसर्गभाननियामकत्वेपि संसर्गोपस्थित्यपेक्षामाह-- तत्तत्संबन्धेति, विवक्षितसंबन्धविषयतानिरूपिता या स्वर्गदिरूपविशेषणविषयता तादृशविषयताशाली यो बोधस्तादृशबोधपरत्वस्य वाक्ये यज्ज्ञानं तदेवसंबन्धमान नियामकम् एतादृशबोधपरत्वज्ञाने च संबन्धविषयताया विशेषणविषयतानिरूपकत्वेन मानात् संबन्धविषयतायां च संबन्धो विशेषणमेवेति संबन्धस्य विशेषणतया मानात्तदुपस्थित्य-. पेक्षा प्राप्तैष, स्वयुक्तस्य विशेषणविशिष्टविशेष्यपरत्यज्ञानस्य तु संसर्गभाने नियामकत्वं न संभवति तस्योक्तरीत्या वाक्यार्थबोधात् पूर्वमसंभवादित्यर्थः । “विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गा दिनिष्ठयागादिजन्यतावच्छेदकसंबन्धः " इत्युक्ते मुरारिग्रन्थविरोधमपि प्रदर्शयति- एवमिति । मुरारिप्रन्यमाह - स्वर्गत्वस्येति, यत्र स्वर्गेऽश्वमेधादियागजन्यत्वं तत्र स्वर्गत्वमप्यस्त्येवेति स्वर्ग यागादिजन्यतासामानाधिकरण्यमात्रमस्ति न तु यागादिजन्यतावच्छेदकत्वम् - असामर्थ्यात् = स्वर्गत्वे विधिप्रत्ययशक्तेरस्वीकारात् वैजात्ये वा विजातीयस्वर्गत्वे एव वा विधिप्रत्ययशक्तिस्वीकारात्, असंभवाच्च = स्वर्गत्वं हि गङ्गास्नानादिजन्यस्वर्गसाधारणतयाऽतिप्रसक्तमेव न चातिप्रसक्तधर्मस्यावच्छेदकत्वं संभवतीति मिश्रेणोक्तं तत्र यदा स्वर्गत्वं यागादिजन्यतावच्छेदकमेव नास्ति तदा विजातीयस्वर्गनिरूपितसमवायस्य कथं स्वर्गत्वादिनिष्ठयागादिजन्यतावच्छेदकसंबन्धवं स्यादित्यर्थः ।
परिहाराय मतान्तरमुपस्थापयति- यत्त्विति, उक्तवैजात्यमेव यागादिनिरूपितायाः स्वर्गादिनिष्ठायाः कार्यताया अवच्छेदकं तच्च वैजात्यं संबन्धविधयैव कारणताघटकमिति न तदुपस्थि-त्यपेक्षा न वा तत्र विधिप्रत्ययशक्तिग्रहस्याप्यऽपेक्षा येन तादृशवैजात्यानन्त्येन शक्त्यानन्त्यं स्यात्, तच्च वैजात्यं तत्तयागादिजन्यतत्तत्स्वर्गादिव्यक्तिमात्रविश्रान्तमिति नाप्यतिप्रसक्तं येन तस्य कार्यतावच्छेदकत्वं न स्यादित्यर्थः, वैजात्यस्य संबन्धविवया कारणताघटकत्वं प्रदर्शयति
" Aho Shrutgyanam"