________________
व्युत्पत्तिवादः ।
प्रकृतशक्तिविचारः ]
ङ्गात् । तादृशकार्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाऽप्रत्यायितत्वात् तंत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानाऽनुपपत्तेश्च ।
न चेष्टतावच्छेदकत्वो पलक्षितस्वर्गत्वावच्छिन्ने कारणताघटकाधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया. आकाङ्क्षावशाच्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपितसमवायस्य संबन्धतया भानात् तादृशकार्यसंबन्धघटित कारणतायाः शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेन शक्तिरिति न का चिदनुपपत्तिरिति वाच्यम्, एवं सत्यपि संसर्गतात्पर्यज्ञानानुरोधेन तादृशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् ।
पितसमवायघटितव्यापकताया विधिप्रत्ययार्थत्वे हि तस्य विधिप्रत्ययार्थस्य विजातीय स्वर्गनि रूपितव्यापकत्वस्य स्वर्गादिनिष्ठवैजात्यानन्त्येनाऽऽनन्त्याद् विधिप्रत्ययशक्त्यानन्त्यं स्यादित्यर्थः । दोषान्तरमाह - तादृशकार्येति, तादृशेन कार्यसंबन्धेन = विजातीयस्वर्ग निरूपितसमवायेन घटिता येष्टकारणता तस्याः प्रमाणान्तरेणाऽज्ञातत्वात् तत्र == तादृशकारणतायां विधिप्रत्ययस्य शक्तिप्रहानुपपत्त्या शाब्दबोधे तत्-तस्या उक्तकारणताया मानानुपपत्तिश्च - शाब्दबोधशक्तिज्ञानयोः समानविषयकत्व नियमात् प्रमाणान्तरेण ज्ञाते एवं पदार्थे शक्तिग्रहसंभवादित्यर्थः ।
ननु विजातीयस्वर्गनिरूपितसमवायस्य शक्तिप्रहे प्रवेशो नास्ति येन तादृशवैजात्यानन्त्येन शक्त्यानन्त्यं स्यात् किं तु विजातीयस्वर्गनिरूपितसमवायस्याऽधिकरणरूपविध्यर्थे= आत्मनि संबन्धत्वेन रूपेणाकाङ्क्षाबलेन मानं स्वीकुर्भस्तथा च न शक्त्यानन्त्यं शक्तिस्तु विधिप्रत्ययस्येचतावच्छेदकत्वोपलक्षितस्वर्गत्वावच्चिने कारणताघटकाधिकरणादिपदार्थे च खण्डशोस्ति तथा
( ६२३ )
च.
· तादृशकार्यसंबन्धघटितकारणतायाः [:== आकाङ्क्षाबलमासमान विजातीयस्वर्गनिरूपितसमवायघटित कारणतायाः शाब्दबोधे माने न काचिदनुपपत्तिः- शुद्धेष्टकारणताया अनुमानादिप्रमाणवेद्यत्वेन तस्यां शक्तिमहानुपपत्त्यभावादित्याशङ्क्याह - न चेति, अत्र तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं यत् कारणत्वं तत्र तद्वदित्यधिकरणस्य प्रवेशेन शक्यत्वादुक्तम्- कारणताघटकाधिकरणपदार्थे " इति, स्वर्गादिरूपं सुखं ह्यात्मन्युत्पद्यते इति तदधिकरणमात्मैव तस्मिंश्च विध्यर्थभूते आत्मरूपाधिकरणपदार्थे विजातीयस्वर्गस्य समवाय एव संबन्धः स चाकाङ्क्षाबलेन ग्रासते न तु शक्त्या । उत्तरमाह - एवमिति, एवमपि ' विजातीयस्वर्गनिरूपितसमवायेन स्वर्गत्वावच्छिन्नविशिष्टमधिकरणं विधिप्रत्ययो बोधयतु' इत्याकारकसंसर्गविषयक तात्पर्यज्ञाने विजातीयस्वर्ग निरूपितसमवायोपस्थित्यपेक्षा स्यादेव उपस्थितिश्च शक्तिमहं विना न भवतीति वैजात्यानन्त्येन शक्यानन्त्यं स्यादेवेत्यर्थः ।
<<
"Aho Shrutgyanam"
वाक्ये यत् तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्व ( बोधकत्व ) ज्ञानं तदेव संसर्गमाननियामकं भवतीति स्वीकार्य तथा च "स्वर्गकामो यजेत " इतिवाक्यं विजातीय स्वर्गनिरूपितसमवायेन स्वर्गत्वावच्छिन्नाभिन्न विशेषणविशिष्ट यदात्माऽभिन्नाधिकरणरूपं विशेष्यं तत्परं