________________
(६२२)
सादर्शः
[ आख्यातप्रकरणेशसाधनताशरीरे व्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात् तद्महे विशिष्य तदुपस्थित्यनुपयोगाच्चेति ।। - केचित्तु विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठयागादिजन्यतावच्छेदकसंबन्धस्तथा च वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशान्नो. पस्थित्यपेक्षा न वा कारणताविघटकव्यभिचारावकाश इत्याहुः, तदसत्- विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंवन्धघटितव्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिवाहुल्यप्रसरीरत्वेन साध्यतापेक्षया कारणतायां गुरुत्वं नास्तीति व्यापकताघटितकारणताया उक्तरीत्या प्रवर्तकत्वं संभवत्येव, किं च तादृशसाधनताशरीरे व्यापकताघटितकारणतायां कारणतावच्छेदकधर्मस्य व्यापकतावच्छेदकत्वेनैव रूपेण प्रवेशोस्तीति तद्ग्रहे यागादिनिष्ठकारणताग्रहे विशिष्य-विशेषरूपेण कारणतावच्छेदकत्वेन रूपेण तदुपस्थित्यनुपयोगात्-कारणातावच्छेदक. धर्मोपस्थित्यपेक्षाभावात्. कारणतावच्छेदकस्य कारणतायां · कारणतावच्छेदकत्वेन रूपेण प्रवेश एव नास्ति येन कारणतावच्छेदकत्वेन रूपेण कारणतावच्छेदकधर्मोपस्थितेरपेक्षा स्यात् किं तु कारणतावच्छेदकस्य व्यापकतावच्छेदकत्वेन रूपेण प्रवेशोस्ति व्यापकतावच्छेदकत्वेन रूपेण तूपस्थितिः संभवत्येवेत्युक्तव्यापकताघटितकारणताया उक्तरीत्या प्रवर्तकत्वे न का चिदनुपपत्तिरस्तीत्यर्थः ।
परिहाराय मतान्तरमुपस्थापयति- केचिदिति, यागेन विजातीयः स्वर्ग उत्पद्यते स्वर्गश्च सुखविशेष एव सुखस्य चात्मनि समवाय एष संबन्धः स चारमनिष्ठः सुखसमवायः स्वर्गाभिन्नसुखनिरूपित एवेत्युक्तम्-" विजातीयस्वर्गनिरूपितसमवायः ": इति विजातीयस्वर्गनिकपितसमवाय एव स्वर्गनिष्ठाया यागादिजन्यताया अवच्छेदकः संबन्ध इति वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशोस्तीति वैजात्योपस्थितेरपेक्षा नास्ति तथा च "स्वर्गादिनिष्ठकार्यतावच्छेदकबैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननि. हपितव्यापकताबोधासंभवः ६१६ " इत्यनेन यो दोष उक्तः स नास्ति किं चैत्र कारणताविघटकस्य व्यभिचारस्याप्यवकाशो नास्ति- स्वर्गविशेष प्रत्येव यागादिविशेषस्य कारणत्वप्राप्ते:. विजातीयस्वर्गनिरूपितसमवायस्य यागविशेषजन्यस्वर्गविशेषनिष्ठयागादिजन्यतावच्छेदकसंबन्धत्वादित्यर्थः । व्यापकताशरीरे इति- विजातीयस्वर्गनिरूपितसमवायसंबन्धावच्छिन्नस्वर्गवाव. च्छिन्नकार्यतानिरूपितं व्यापकत्ववटितकारणत्वं यागेस्तीति वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशोस्तीत्यर्थः । परिहरति- तदसदिति, विजातीयस्वर्गनिरूपितसमवायत्त्वस्य गुरुधर्मत्वाद् विजातीयस्वर्गनिरूपितसमवायस्य संबन्धत्वं न संभवतीत्यर्थः । दोषान्तरमाह-ताह. शेति, तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपं व्यापकत्वमेव कारणत्वम्, इष्टसाधनत्वमेव च विधिप्रत्ययार्थ इति व्यापकत्वस्यैव विध्यर्थत्वं प्राप्तं तत्र ताशसंबन्धघटितव्यापकतायाः विजातीयस्वर्गनिरू.
"Aho Shrutgyanam"