________________
योगसाध्यतावच्छेदकविचारः ] व्युत्पत्तिवादः ।
(६२५) तावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंबन्धेन कार्यवनिष्ठाभावाप्रतियो. गित्वस्य कारणताशरीरे निवेश्यत्वादिति, तदप्यसत्- कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीयतया तदुपस्थित्यपेक्षाध्रौव्यात् । न च संबन्धसंकोचे प्रमेयत्वेनैव कार्यप्रवेशः संभवतीति वाच्यम्, विजातीयस्वर्गवन्निष्ठाभावप्रतियोगितात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीयस्वर्गीयसमायसंबन्धेन प्रमेयवन्निष्ठाभावप्रतियोगितात्वरूपगुरुधर्मावच्छिन्नाभावाप्रसिद्धः।
एतेन स्वर्गत्वमेव यागजन्यतावच्छेदकम्. अवच्छेदकताघटकसमवायसंबन्धसंकोचेन न व्यभिचार इत्यपि निरस्तम्- ताशसंबन्धविशेषेणेष्टतावच्छेदक. कार्यतावच्छेदकधर्मेति, कार्यतावच्छेदकधर्मो वैजात्यं तद्विशिष्टो यः स्वर्गस्तनिरूपितः तत्प्रतियोगिको यः कार्यतावच्छेदकसंबन्धः समवायस्तेन संबन्धेन स्वर्गादिरूपकार्यवान् यः आत्मा तनिष्ठाऽभावाप्रतियोगित्वमेवात्र कारणत्वं तथा च वैजात्यस्यात्र संबन्धस्वरूपे प्रवेशोस्तीति न तदुपस्थित्यपेक्षेत्यर्थः । परिहरति- तदप्यसदिति, कार्यवनिष्ठात्यन्ताभावाप्रतियोगित्वं यत् कारणतास्वरूपमुक्तं तत्र तत्ततकार्यव्यक्तिनिवेशे शक्त्यानन्त्यं स्यादिति कार्यस्य कार्यतावच्छेदकरूपेण= कार्यत्वेनैव रूपेण निवेशः कर्तव्यः कार्यतावच्छेदकरूपं च वैजात्यमेव तथा च कार्यस्य स्वर्गादेईजात्यरूपेण कारणताशरीरे निवेशे कृते तादृशबैजात्योपस्थितेरपेक्षा प्राप्तव. उपस्थित्यर्थ च वैजात्ये विधिप्रत्ययशक्तिप्रहापेक्षा प्राप्ता वैजात्यं च तत्तत्कार्यव्यक्तिभेदेन नानैवेति शक्त्यानन्त्य स्यादेवेत्यर्थः । ननु न कार्यस्य कार्यतावच्छेदकरूपेणोक्तकारणताशरीरे निवेशः कर्तव्यो येनोक्तरीत्या वैजास्यभेदेन शक्त्यानन्त्य स्यात् किं तु कार्यस्य कारणताशरीरे प्रमेयत्वेनैव रूपेण निवेशः कर्तव्यः संबन्धस्य कार्यतावच्छेदकधर्मविशिष्टत्यादिना संकोचः कृत एव तत्र प्रमेयत्वस्य स्वरूपसंबन्धेनातिप्रसक्तत्वेप्युक्तकार्यतावच्छेदकेत्यादिसंबन्धेनातिप्रसक्तत्वं नास्ति-- एतादृशसंबन्धेन प्रमेयत्ववतः स्वर्गसुखस्य यागजन्यापूर्वविशिष्टात्ममात्र विश्रान्तत्वादित्याशझ्याह- न चेति । परिहारमाह- विजातीयेति, कारणत्वं हि तद्वन्निष्ठाभावप्रतियोगिताऽभावरूपमेवएतादृशाभावप्रतियोगिनी च तद्वन्निष्ठाभावप्रतियोगितैव तदवच्छेदकत्वं च तद्वन्निष्ठाभावप्रतियोगितात्वस्य प्राप्तं तत्र विजातीयस्वर्गवन्निष्ठाभावप्रतियोगितात्वस्यागुरोः कारणताघटकप्रतियोगितावच्छेदकरवे संभवति सति विजातीयस्वर्गनिरूपितसमवायेन प्रमेयवनिष्ठाभावप्रतियोगितात्वावच्छिन्नप्रतियोगिताकाभावस्य कारणत्वेन रूपेण स्वीकारो न संभवति- उक्त प्रतियोगितावच्छेदकधर्मस्य उक्तसमवायप्रवेशेन गुरुत्वादिति ने कार्यस्य प्रमेयत्वेन रूपेण कारणताशरीरे निवेशः संभवति किं तु कार्यतावच्छेदकरूपेणैव तत्र च शक्त्यानन्त्यदोषः प्रदर्शित एवेत्यर्थः।
उक्तपरिहारमन्यत्रातिदिशति- एतेनेति । अवच्छेदकतेति- स्वर्गस्वस्य समवायेन यागजन्यतावच्छेदकत्वमस्तीस्यवच्छेदकताघटकः समवाय एवं स्वर्गत्वस्य संबन्धस्तस्य च समवायस्य संकोचः कर्तव्यः अर्थाद् विजातीयस्वर्गीयसमवायस्य संबन्धत्वं वक्तव्यं तादृशसमवायेन च
"Aho Shrutgyanam"