________________
(६२६)
साद
[ भाख्यातप्रकरणेविशिष्टस्य प्रमाणान्तसज्वेद्यतया तत्र शक्तिनिश्चयासंभवात्. न हि समभिव्याहृतफलबोषकपदोपस्थाप्यतावच्छेदकत्वरूपोपलक्षणधर्मेण यथा स्वर्गवादीनां शक्तिग्रहे भानं तथोपलक्षणीभूततादृशंपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्वर्मनिष्ठसमवायादेरपि तत्र भानसंभव:- स्वर्गपदाच्छुद्धसमवायेनैव स्वर्गत्वविशिष्टस्योपस्थितेः । विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात्. शुद्धसमवायेन स्वर्गत्वविशिष्टविषयककामनावतोऽनधिकारप्रसङ्गात् ।
मीमांसकास्तु " अहरहः संध्यामुपासीत " इत्यादौ नित्यतया निष्फले सन्ध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनाऽन्वयासंभवान्नेष्टसाधनत्वं लिङर्थः। . अथ सन्ध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफलसाधनत्व-मव्याहतम्, यत्र नित्येर्थवादादपि न फलोपस्थितिस्तत्रापि फलाभावनिश्चाय
कप्रमाणाभावाद् योग्यतासंशयसंभवेन फलसाधनत्वप्रत्ययो लिङादितः संभस्वर्गवं यागजन्ये एव स्वर्गे संभवति न तु गङ्गास्नानादिजन्यस्वर्गेपीति न व्यभिचार इत्यर्थः । निरासहेतुमाह- तादृशेति, विजातीयस्वर्गीयसमवायसंबन्धेनेष्टतावच्छेदकरूपस्वर्गवविशिष्टश्य तादृशविजातीयस्वर्गस्य प्रमाणान्तरावेद्यतया तत्र स्वर्गपदशक्तिनिश्चयाऽसंभवात् तदर्थं यागे प्रवृत्तिर्न स्यात प्रमाणान्तरवेद्ये एव शक्तिनिश्चयसंभवादित्यर्थः । न हीति--- " स्वर्गकामो यजेत " इत्यत्र समभिव्याहृतफलबोधकं यत्स्वर्गपदं तदुपस्थाप्यतावच्छेदकस्यरूपोपलक्षणधर्मय
डोन रूपेण यथा स्वर्गवादीनां स्वर्गादिपदशक्तिमहे मानं भवति तथा तत्रशकिग्रहे उपलक्षणीभूतसममिवारपास्क
रसंवधवेन विजातीयस्वालिष्ठसमवायस्य मानं न भवतीति न तादृशसमवायेन स्वर्गवविशिष्टे स्वर्गपदशकिग्रहः संपनीत्यर्थः । उक्त हेतुमाह- स्वर्गपदादिति । उक्त दोषान्तरमाह- विशिष्टति, यदि विशिष्ठसमवायेनोक्तेन स्वर्गत्वविशिष्ट स्वर्गपदस्य शक्तिः स्यात्तदा शुद्धसमवायेन स्वर्गत्वविशिष्टे स्वर्गपदस्य लक्षणैव प्रसज्येत न चैतदिष्टमित्यर्थः । दोषान्तरमप्याह- शुद्धेति, यदि विशिष्टसमघायेनैव स्वर्गत्वविशिष्टस्य स्वर्गपदवाच्यत्वं स्यात्तदोक्तविशिष्टसमवायेनेव स्वर्गस्वविशिष्टविषयककामनावतो यागेऽधिकारः स्यान्न तु शुद्धसमवायेन स्वर्गत्वविशिष्टविषयककामनावतोपि न चैतदिष्टमिति न संबन्धभूतसमवायसंकोचपक्ष उक्तो युक्त इत्यर्थः । ___ मीमांसकमतमुपदर्शयति- मीमांसका इत्यादिना, सफलस्यैवेष्टसाधनत्वं संभवति न तु निष्फलस्यापीति नित्यकर्मविधायकवाक्यघटकलिङ इष्टसाधनत्वार्थकत्वासंभवानेष्टसाधनत्वं लियः किं तु प्रवर्तकत्वमेव तच्च सर्वत्रैव लिङोर्थः संभवतीत्यर्थः ।
शङ्कते- अथेति । अर्थवादश्चात्र " सन्ध्यामुपासते ये च " इत्यादि यः । यत्र नित्येस्नानादावर्थवादेनापि फलं न प्रतिपाद्यते तत्र फलाभावनिश्चायकप्रमाणाभावाद् योग्यतासंशयसंभवात् फलयोग्यतासंशयेनापि लिङादितस्ताहशनित्ये फलसाधनत्वज्ञानं संभवत्येवेति लिज
O
"Aho Shrutgyanam"