________________
नित्यकर्मविषयक विचारः ]
व्युत्पत्तिवादः ।
( ६२७ )
वस्व । न च तद्बोधों नोपयोगी- निष्फलतया ज्ञाते चैत्यवन्दनादी प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाधनताबोधकताया आवश्यकत्वादितिचेत् ?,
न- सन्ध्यामुपासते ये च सततं संशितव्रताः " इतिश्रुतौ " सततम् " इतिश्रुतेः कदाचिद् यस्य सन्ध्यावन्दनादिबाधस्तेन स्वीयसन्ध्यावन्दने ब्रह्मली-कावाप्तिफलानुपधानस्य निश्चिततयाऽहरहः सन्ध्यावन्दने ब्रह्मलोकावाप्तिसाथनताबोधनेपि तस्य सन्ध्यावन्दने प्रवृत्त्यनिर्वाहात् । यत्र च नित्ये विशिष्य फलबोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेनेष्टत्वेन फलसाधनताबोधस्य जननेपीच्छाविषयतावच्छेदकस्वर्गत्वादिरूपविशेषधर्मप्रकारेण फलविषयकतत्साधनताबोधस्याsनिर्वाहेण प्रवृत्यनिर्वाहात् । इष्टसाधनताज्ञानाऽघटितकारणस्तीमाइष्टसाधनत्वार्थकत्वं युक्तमेवेत्यर्थः । ननु फलयोग्यतासंशयेन जायमानस्तादृशानित्ये लिङादितः फलसाधनत्वबोध निरुपयोग एवं स्याद् निश्वयात्मकबोधस्यैवोपयोगित्वादित्याशङ्कयाह- न चेति । परिहारहेतुमाह- निष्फलतयेति, नित्यविधेरिति पञ्चम्यन्तम् । यदि लिङः फलसा - धनत्वम् = इष्टसाधनत्वमर्थो न स्याचदा निष्फलतया ज्ञातेपि चैत्यवन्दनादौ प्रवृत्ति: स्वादेव न चेतदिष्टम्, यदा च फलसाधनत्वं लिडर्यस्तदा निष्फलतया ज्ञाते चैत्यवन्दनादी प्रवृत्त्यापत्तिर्नास्तीति प्रवृत्ति प्रतीष्टसाधनताज्ञानस्यैव कारणखं स्वीकार्य तथा च नित्यविधिः प्रवृत्त्युपपत्त्यर्थं तस्य नित्यविधेरपीष्टसाधनताबोधकत्वं स्वीकार्यमेश
लिङादितच फलसाधनं -
८८
अथेत्यादिना शकितं परिहरति- नेति । बाधः =भङ्गः । ब्रह्मलोकावातिफलानुपधानस्थ ब्रह्मलोकप्राप्तिरूपफलाजनकत्वस्य | प्रवृत्त्यनिर्वाहादिति-- नैरन्तर्येणोपासितसंभ्यावन्दनस्य ब्रह्मलोकप्राप्तिरूपफलजनकत्वेपि नैरन्तर्यरहितसंध्यावन्दनस्य तु सततम् " इतिवचनानुरोधेन ब्रह्मलोकावाप्तिफलजनकत्वं न संभवतीतीष्टसाधनत्वमपि न स्यादिति तस्य तंत्र प्रवृत्तिरपि न स्थान तस्मान्नेष्टसाधनत्वं लिङर्थ इति न नैरन्तर्यरहितसन्ध्यावन्दनादौ प्रवृत्त्यऽनिर्वाह इत्यर्थः । यत्रेशि यत्र च नित्ये खानादो फलस्य विशेषरूपेण बोधकोर्थवादो नास्ति तत्र यद्यपि विवित्ययेनेष्टत्वेन - सामान्यरूपेण फलसाधनताबोधः संभवत्येव तथापि प्रवृत्तिर्हि विशेषरूपेणेव फलसाधनताज्ञाये जाते भवति न तु सामान्यत इष्टसाधनताज्ञानमात्रेणापि सर्वस्येव कंचित प्रतीष्टत्वसंभवादिति तंत्रेच्छा विषयतावच्छेदको यः स्वर्गत्वादिरूपविशेषधर्मस्तत्प्रकारेण फलविषयक तत्साधनताबोधो न संभवति - विशेषरूपेण फलबोधकप्रमाणाभावादिति तत्र प्रवृत्तिर्न स्थादेवेति नेष्टसाधनत्वं लिङर्थ इत्यर्थः । इष्टसाधनतेति- इष्टसाधनताज्ञानवर्जित कारण समूहरूपायाः सन्ध्यावन्दनाभावे - नरकं भवतीत्याकारकं यत् सन्ध्यावन्दनाद्यभावगोचरो नरकादिसाधनताज्ञानं तादृशज्ञानाधी
66
आर्थवादिकमपि फलं नास्ति सत्र कोचः संभवत्येवेस्पर्म। 1
"Aho Shrutgyanam"