________________
( ६२८ )
सादर्श:
त्मिकायाः
सन्ध्यावन्दनाद्यभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वेषघ टितसामय्या एवं सन्ध्यावन्दनादौ प्रवर्तकताया उपगन्तव्यतया नित्यस्थले इष्टसाधनताबोधस्यानुपयोगिताया दुर्वारत्वात् ।
बच "विश्वजिता यजेत'' इत्यत्र विशिष्टफलाश्रवणेपि यथा स्वर्गैकामपदस्या ध्याहारेण तत्समभिव्याहाराद विशेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेपि विशेषधर्मप्रकारक स्वर्गसाधनताबोधसंभवादुक्तप्रवृत्तिसामथ्र्यन्तरकल्पनमयुक्तमिति वाच्यम्, बहुवित्तव्ययाऽऽयाससाध्यविश्वजिद्रयागे तत्तद्यामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेस्तद्विधेः : स्वर्गफलतात्पर्यनिश्चयात्, सन्ध्यावन्दनादी चापायाससाध्ये ग्रामादिफलोद्देशेनापि प्रवृत्त्युपपत्तेस्तद्विधेः स्वर्गपरत्वनिश्चयाsयोगात, स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि सन्ध्यावन्दनाद्याचरणाद् उक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच्च तादृशसामग्री विना प्रायश्चित्तादाविष्टा - साधने प्रवृत्यनिर्वाहाच्च ।
न च तत्रापि पापध्वंसरूपेष्टसाधनताज्ञानात् प्रवृत्तिर्निर्वहति, सुखदुःखाभा वेतरगोचरेच्छायामिष्टसाधनताज्ञानस्य नियमतोऽपेक्षायां निष्फलपापध्वंसस्येष्टननरकादिगोचरो यो द्वेषस्तद्घटिताया एव सामय्याः सन्ध्यावन्दनादौ प्रवर्तकत्वं स्वीकार्य तथा च तादृशसामग्र्यैव नित्ये प्रवृत्तिसंभवे नित्ये इष्टसाधनताबोधो निष्फल एवेति नेष्टाधनत्वंविदा नरकादी द्वेषे सत्येव नरककारणीभूतस्य सन्ध्यावन्दनाद्यभावस्य परिवर्जनाय सन्ध्यावन्दनादी प्रवृत्तिरिति प्रवर्तकसामग्र्या करकादिद्वेषयटितत्वमुक्तम्ः ।
शङ्कते - न चेति । तत्समभिव्याहारात् = अध्याहृतस्वर्गकामपदसमभिव्याहारात् । विशेषरूपावच्छिन्न स्वर्गसाधनताबोधः = विशेषरूपावच्छिन्नो यः स्वर्गस्तत्साधनताबोधः । नित्यस्थ लेपि यत्रार्थवादिकमपि फलं नास्ति तत्र स्वर्गकामपदाध्याहारात् स्वर्गत्वादिविशेषधर्म प्रकार कस्वर्गादिसाधनताबोधस्य नानुपपत्तिरिति तत्रापीष्टसाधनताज्ञानात् प्रवृत्तिः संभवत्येवेति नरकादिगो चरद्वेषघटित सामग्र्याः प्रवृत्त्यर्थकल्पनं न युक्तमित्यर्थः । उत्तरमाह - बहुवितेति, विश्वजिद्यागे स्वर्गरूपफलावाप्तिं विना प्रवृत्तिर्न संभवतीति तद्विधेः = विश्वजिद्विधितः स्वर्गफले तात्पर्यनिश्चयः संभवति न चैवं नित्यकर्मण्यस्तीति न तत्र फलत्वेन स्वर्गकल्पना संभवति, स्वर्गकामनारहिता अपि सन्ध्यावन्दनं कुर्वन्तीति न तंत्र फलत्वेन स्वर्गकल्पना संभवतीति नित्ये प्रवृत्त्यर्थमुक्तद्वेषघटितसामय्याः कल्पनमावश्यकमेव प्रायश्चित्तादौ च प्रवृत्यर्थमप्युक्तसामग्रीकल्पन-मावश्यकमेवेत्यर्थः ।
[ आख्यातप्रकरणे
ननु तत्रापि=प्रायश्चित्तेपि पापध्वंसरूपेष्टसाधनत्वमस्त्येवेति तज्ज्ञानेन कथं न प्रवृत्तिः स्यादिस्याशङ्क्याह- न चेति । परिहारहेतुमाह - सुखेति, सुखदुःखाभावाम्यामितरस्येच्छायां नियमेनेष्टसाधनताज्ञानापेक्षा भवति निष्फलस्य पापध्वंसस्य चेष्टत्वं न संभवतीति तादृशपापध्वंस
"Aho Shrutgyanam"