________________
नित्यकर्म विषयक विचारः ]
वासंभवात् । नरकसाधनगोचरद्वेषस्य तद्ध्वंसगोचरेच्छाजनकत्वोपगमेऽस्मत्समीहितायामिष्टसाधनत्वज्ञानाऽघटितमवृत्तिसामग्र्यामविवादात्, कृतिसाध्यताज्ञानसहितेच्छासामान्यसामग्रीतश्चिकीर्षोत्पत्तेर्निष्फलेपि सन्ध्यावन्दनादौ निर्वाण
व्युत्पत्तिवादः ।
( ६२९ )
प्रवृत्त्युपपत्तेः ।
न च नरकानुत्पाद एव प्रायश्चित्तस्य सन्ध्यावन्दनादेश्व फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिसामग्री. नरकद्वेषवतां च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसन्ध्यावन्दनाद्यनुष्ठानमुपपद्यते. अन्यैश्च तन्नानुष्ठीयते इतिवाच्यम्, नरकानुत्पादस्य तत्प्रागभावात्मकस्य प्रतियोगिविकल्पप्रासेन फलत्वाऽसंभवात्, अत्यन्ताभावस्य प्रतियोगिविरोधितया कदाचित् पापान्तरेण यस्य नरकदुःखं जनितं जनिष्यते वा तदात्मन्यत्सत्त्वाद नित्यत्वेन चोभयोः फलत्वासंभवात् । कारणीभूतप्रायश्चित्ते इष्टसाधनताज्ञानासंभवात् प्रवृत्तिर्न स्यादेव न च पापध्वंसस्य सुखरूपत्वं वा दुःखाभावरूपत्वं वास्तीति नेष्टसाधनत्वं लिड इति प्रायश्चित्ते प्रवृत्त्युपपत्त्यर्थमुक्तद्वेषधाटेतसामग्री कल्पनमावश्यकमेवेत्यर्थः । नरकेति - नरकसाधनीभूतपापस्य द्वेषेण तद्ध्वंस पापसगोचरेच्छा जायते तादृशेच्छया च पापध्वंसजनकप्रायश्चित्ते प्रवृत्तिर्भवतीति स्वीकारे विष्टसाधनताज्ञानरहिताया नरकादिद्वेषंघटित सामग्र्या उक्तायाः प्रवर्तकत्वं प्राप्तमेवेत्यर्थः । कृतिसाध्यताज्ञाने जाते इच्छायां च जातायां सन्ध्यावन्दनादौ चिकीर्षा संभवति तादृशचिकीर्षानन्तरं च निष्फलेपि संन्ध्यावन्दनादौ प्रवृत्ति संभवतीति नेष्टसाधनत्वं वि इत्यभिप्रायेणाह - कृतिसाध्यतेति । निर्वाहेण= चिकीर्षोत्पते निर्वाहेणेत्यन्वयः
शङ्कते- न चेति । नरकानुत्पादः = नरकप्रागभाव एव तत्र ( प्रायश्चित्तादौ ) फलमिति - तादृशफलसाधनताज्ञानात् सन्ध्यावन्दनादौ प्रवृत्तिः संभवत्येवेति नोक्तद्वेषघटित सामम्यन्तरक - पनं युक्तमित्यर्थः । तदनुत्पादे = नरकानुत्पादे । तेषाम् = नरकद्वेषवताम् । अन्यैः नरकद्वेषरहितैः । तत् = सन्ध्यावन्दनादिकम् । परिहारमाह - नरकानुत्पादस्येति । प्रतियोगीति-सन्ध्यावन्दनादिना सामान्यतो नरकप्रागभावस्तु न संभवत्यन्यथा सन्ध्योपासकस्य परस्त्रीगमनादि - नापि नरको न स्यात्. नरकविशेषप्रागभावस्य स्वीकारे कस्य नरकस्य प्रागभाव इति प्रतियोग्यवधारणासंभवाद् नरकप्रागभावस्यापि फलत्वं न संभवतीत्यर्थः । नरकाध्यन्ताभावस्थापि फलत्वं न संभवतीत्याह- अत्यन्तामावस्येति, नित्यस्य स्वयमेव सत्त्वान्न फलत्वंसंभवतीत्युक्तम्- नित्यत्वेनेति । यदात्मनि नरकदुःखं जनितं जनिष्यते वा तदात्मनि नरकात्यन्ताभावस्य प्रतियोगिविरोधित्वेनाऽसंभवादेव न फलत्वं संभवति, यदात्मनि च नरकदुःखं न जनितं न वा जनिष्यते तदात्मन्यपि नरकात्यन्ताभावस्य फलत्वं न संभवति सिद्धत्वादित्यर्थः । उभयोः नरकस्य प्रागभावाऽत्यन्ताभावयोः । नित्यत्वेन =स्त्रयमेव सिद्धखेन । साध्यस्यैव फलत्वसंभवादिति । नरकं हि दुःखरूपमात्मसमवेतं भवतीति तदत्यन्ताभावेनाऽप्यात्मन्येव
"Aho Shrutgyanam"