________________
( ६३० )
सादर्श:
[ आख्यातप्रकरणे
CE
योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृत्त्यनुपयोगित्वात् । ---यदपि मण्डलीं कुर्यात् इत्यादिवाक्य प्रामाण्यवारणायेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकमिति, तदपि न - मण्डलीकरणादिजन्य तद्ध्वंसादिरूपफलेपिं कदाचित कस्यचिदिष्टताभ्रमेणेच्छोत्पत्या मण्डलीकरणादावपीष्टसाधनत्वाsबाधेनेष्टसाधनत्व विध्यर्थतामतेपि तद्वाक्यप्रामाण्यस्यावश्यकतयेष्टापत्तेः । 'स्वकामो मण्डली कुर्यात् ' इतिवाक्यजन्यबोधे च स्वर्गकामनाया मण्डलीकरणादिनिष्ठ कर्तव्यत्वप्रयोजकत्वभानेन तदर्थबाधेन तद्वाक्याप्रामाण्योपपत्तेः ।
न चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे स्वर्गकामो यजेत " इत्यादिवाक्याद् यागादौ प्रवृत्त्यनुपपत्तिः- तत्राभावगोचरद्वेषघटितसामय्यसंभवात्यागाद्यभावस्य नरकादिरूपद्विष्टसाधनत्वाभावात् इष्टसाधनत्वबोधक मानाभावेन भवितव्यमित्युक्तम् — तदात्मनीति | योगेति- अप्राप्तस्य प्राप्तिर्योगः, प्राप्तस्य परिरक्षणं क्षम तत्र यागादौ स्वर्गादियोगसाधनता सन्ध्यावन्दनादौ च नरकानुत्पादस्य क्षेमरूपपरिरक्षणसाघनतेत्युभयसाधारणेष्टसाधनत्वस्य विध्यर्थत्वं प्रवृत्त्युपयोगित्वं च न संभवति- गुरुशरीरत्वादिति प्रवर्तकत्वमेव लिडर्थो न त्विष्टसाधनत्वमित्यर्थः ।
66
शकते - यदपीति । मण्डली कुर्यात् " इति बौद्धानां वाक्यं ते हि नरकनिवृत्त्यर्थ मिलिया मण्डलाकारेण च स्थित्वा - कामप्युपासनां कुर्वन्तीति तेषां मतम् । तत्र यदीष्टसाधनस्वं विध्यर्थो न स्यात्तदा कुर्यात् इतिवापि प्रवर्तकत्वस्याव्याहतत्वात् प्रामाण्यं स्यादेव न च प्रामाण्यमिष्टमितीष्टसाधनत्वं विध्यर्थस्तथा च मण्डलीकरणादाविताधनत्वस्य बाधादस्य वाक्यस्य प्रामाण्यापत्तिर्नास्तीत्यर्थः । परिहरति-तदपि नेति, मण्डलीकरणजन्यं यत् पापादिध्वंसरूपं फलं तत्रापि कस्यचिद् यदीष्टताभ्रमेणेच्छा स्यात्तदा तज्जनकमण्डलीकरणादाविष्टसाधनत्वमत्राधितं स्यादेवेतीष्टसाधनत्वस्य विध्यर्थत्वस्वीकारपक्षेपि मण्ड लोम् " इतिवाक्यप्रामाण्यस्यावश्यकतया तत्प्रामाण्यापत्ताविष्टापत्तिरेवास्तीति न तद्वाक्यप्रामाण्यवारणायेष्टसाधनत्वस्य विध्यर्थत्वस्वीकारावश्यकतेत्यर्थः । स्वर्गकामेति - यदि ' स्वर्गकामो मण्डलीं कुर्यात् ' इत्युच्येत तदैतादृशवाक्यजन्ये ' मण्डलीकरणेन स्वर्ग संपादयेत्' इतिबोधेमण्डलीकरणनिष्ठा या कर्तव्यता तादृशकर्तव्यताप्रयोजकत्वं स्वर्गकामनायां भासते तदर्थत्राधेन= स्वर्गकामनाय च मण्डलीकरणादिनिष्ठकर्तव्यत्वप्रयोजकत्वं वास्तविकं नास्त्येवेति बाधितार्थबोधकत्वात् ' स्वर्गकामो मण्डलीं कुर्यात् ' इतिवाक्यस्य त्वऽप्रामाण्यं सुघटमेवेति नेष्टसाधन विध्यर्थ इत्यर्थः ।
शङ्कते - न चेति, इष्टसाधनत्वज्ञानं विना प्रवृत्तेरसंभवादितिभावः, ननु यागे उक्तया तदभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वेषघटितसामग्र्यैव प्रवृत्तिर्भविष्यतीत्याशङ्क्याह-तत्रेति, तत्र=यागादिस्थले । सामग्र्यभावे हेतुमाह- यागाद्यभावस्येति, यागाऽकरणेन नरको न भवतीति
37
32.
"Aho Shrutgyanam"
63
८८