________________
विधिप्रत्ययार्थविचारः व्युत्पत्तिवादः । तज्ज्ञानघटितसामथ्या अपि भवन्मते दुर्घटत्वादिति वाच्यम, इष्टसाधनत्वस्य विध्यर्थताविरहपि 'स्वर्गाऽसाधनं न स्वर्गकामनाधीनकृतिसाध्यम्' इतीतरबाधबलाद स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्गसाधनत्वस्पोक्तविधिजन्यबोधे भानाद् यागादाविष्टसाधनताज्ञानादेव प्रवृत्तिनिर्वाहात् । इत्थं च सन्ध्याबन्द. नादौ तत्कालावच्छिन्नशौचादिकमेवाधिकारो न तु फलकामनापि, अतः फलकामनाशून्यस्यापि शौचादिमतः सन्ध्यावन्दनाकरणं प्रत्यवायजनकम् । फलकामनायास्तत्राधिकारत्वे तच्छून्यस्पाऽनधिकारितया तदकरणं न प्रत्यवायमावहेत् । __ • न च मुमुक्षापवादेन स्वर्गादिरूपफलकामनायाः कदाचिदसंभवपि नरकाभावरूपफले नियमत एवेच्छा संभवतीति न शौचादिमतः सन्ध्यावन्दनाद्यऽकरणस्य प्रत्यवायजनकत्वानुपपत्तिरिति वाच्यम्, नरकाद्यनुपस्थित्यैव सदभावाऽज्ञानेन तदिच्छाविरहोपपत्तरित्याहुः ।। स्पष्टमेव, ननु यागादौ मानान्तरजन्येष्टसाधनस्वज्ञानेन प्रवृत्तिर्भविष्यतीत्याशक्याह- इष्टसाधन त्वबोधकेति । तज्ज्ञानघटितसामन्या:=प्रमाणान्तरजन्येष्टसाधनत्वज्ञानवटितसामग्या अप्यसंभषेनोक्तरीत्या यागादौ प्रवृत्त्यनुपपत्तिः प्राप्तेलि प्रवृत्त्युपपत्यर्थमिष्टसाधनत्वस्य विध्यर्थत्वं स्वीकार्यमिति पूर्वपक्षार्थः । इष्टसाधनत्वस्य विध्यर्थताविरहेपि यागादाविष्टसाधनत्वज्ञानं संभवत्येवेत्यभिप्रायेणोत्तरमाह- इष्टसाधनत्वस्येति, स्वर्गकामनाजन्यकृतिसाध्यं स्वर्गसाधनमेव संभवति न तु स्वर्गाऽसाधनमपीतीतरस्य स्वर्गासाधनस्य बाधबलात् स्वर्गकामकृतिसाध्यत्वबाधाद् उक्तविधिः जन्यबोधे=" स्वर्गकामो यजेत ॥ इति विभिखाक्यजयोले सलमानसानायो मागस्तनिधा या स्वर्गकामकृतिसाभ्यता बाशमा मतान्ययितावच्छेदकतया स्वर्गसाधनत्वस्य भानं भवतिस्वर्गसाधनस्यैव स्वर्गकामकृतिसाभ्यत्वेन स्वर्गसाधनत्वस्य स्वर्गकामकृतिसाध्यतावच्छेदकत्वान् तथा चेष्टभूतस्वर्गसाधने यागादावीदेवेष्टसाधनत्वज्ञानं जायते तेन च तत्र प्रवृत्तिनिर्वहतीति नेष्टसाधनत्वस्य विध्यर्थत्वस्वीकारापेक्षेत्यर्थः । मीमांसकः स्वसिद्धान्तान्तरमाह- इत्थमिति । इत्थम् = इष्टसाधनत्वस्य विध्यर्थत्वास्वीकारेण । फलकामनाया अनधिकारत्वस्य फलमाह-अत इति, यदि फलकामनाप्यधिकारः स्यात्तदा फलकामनाशून्यस्य तदकरणम्-सन्ध्यावन्दनाऽकरणं प्रत्यवाय. जनकं न स्यादित्याह-फलकामनाया इति ।
फलकामनाया अपि सन्ध्यावन्दनाद्यधिकारत्वे दोषापत्तिरुक्ता नास्तीत्यभिप्रायेणाशङ्कतेन चेति, मुमुक्षोः स्वर्गादिफलकामना न भवतीति मुमुक्षापवादेन मुमुक्षाबाधेन स्वर्गादिरूपफलकामनाया असंभवेपि मुमुक्षोरपि नरकाभावरूपंफले तु नियमेनेच्छा संभवत्येवेति नरकाभावरूपफलकामनायाः सन्ध्यावन्दनाद्यधिकारत्वं स्वीकार्य तथा च शौचादिमतो . नरकामावरूपफलकामनावत्त्वात सन्ध्यावन्दनाऽकरणं प्रत्यवायजनकं स्यादेवेत्यर्थः । उत्तरमाह- नरकाधनुपस्थित्यैवेति, "अहरहः सन्ध्यामुपासीत " इत्येवं विधिवाक्यं न चात्र नरकाद्युपस्थापक पदमस्तीति नरकोपस्थित्यभाषान्न नरकाभावज्ञानम् ( नरकामावसाधनता ज्ञानं वा ) संभक्तीति
"Aho Shrutgyanam"