________________
(६३२)
सादर्श:
[ आख्यातप्रकरणेतदसत्- ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रामाणिकतया नरकात्यन्ताभावस्यैव । प्रायश्चित्तसन्ध्यावन्दनादिफलत्वसंभवादिष्टसाधनताज्ञानाघटितप्रवृतिसामन्या असिद्धेः । कारणान्तरकल्पनापेक्षया गुरुशरीरक्षेमसाधारणसाधनताज्ञानस्यैव सर्वत्र प्रवृत्तिहेतुतेति । 'दण्डाद् घटः ' इत्यादिप्रतीतिबलात् स्वरूपसंबन्धविशेषरूपस्य क्षेमसाधारणसाधनत्वस्योपगमे तच्छरीरगौरवस्याभावाञ्चेति । नित्यस्थले शौचादिफलकामनयोरुभयोरधिकारत्वेपि प्रत्येकमेव तयोरधिकारता न तु मिलितयोरिति फलकामनाशून्यस्यापि शौचादिमतोऽधिकारित. या तस्यापि नित्याकरणं प्रत्यवायजनकम् । ___अथ वा सन्ध्यावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेशशौचादिमत्त्वमेव सहकारि न तु फलकामनापि तदसत्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् । एतेन तदिच्छापिनरकामावरूपफलेच्छापि न संभवतीति न नरकामावफलकामनाया अधिकारस्वं संभवति किं तु शौचादिकस्यैवेति मीमांसका आहुरित्यर्थः ।
प्रदर्शितमीमांसकमतं परिहरति- तदसदिति, यत्र तध्वंसो भवति तत्र तदत्यन्ताभावोपि संभवत्येवेति नरकात्यन्तामान एव प्रायश्चित्तसन्ध्यावन्दनादीनां नित्यानां फलं तादृशफलस्येष्टत्वा. दिष्टसाधनत्वं सन्ध्यावन्दनादौ प्रातमेवेतीष्टसाधनताज्ञानेनैव प्रवृत्तिः संभवतीति नेष्टसाधनताज्ञा. नरहिता प्रवृत्तिसामग्री संभवतीति न मीमांसकमतं युक्तं तथा चेष्टसाधनत्वं विध्यर्थों भवत्येवे. त्यर्थः। कारणान्तरेति- कारणान्तरस्य मीमांसकोक्तद्वेषघटितसामग्र्याः कल्पनापेक्षया गुरुशरीरस्यापि क्षमसाधारणस्य सावताशानव प्रतिहेतुक सुकमेव कारणान्तरकल्पने परमगौरवादित्यन्वयः, गुरुत्वं च पूर्व प्रतिपादितमेव, किं च फलोपधायकवस्वरूपे एव क्षेमसाधारणसाधनत्वे गौरवमस्ति न तु स्वरूपयोग्यतारूपेपीत्याह-दण्डादिति, 'दण्डाद् घटः । इत्यत्र दण्डत्वावच्छेदेन घटसाधनत्वं प्रतीयते न च दण्डत्वावच्छेदेन फलोपधायकत्वरूपं साधनत्वमस्ति- अरण्यस्थदण्डे व्यभिचारादिति दण्डत्वावच्छेदेन स्वरूपसंबन्धविशेषरूपम् स्वरूपयोग्यतारूपमेव साधनत्वं स्वीकार्यम्- अरण्यस्थदण्डादावपि स्वरूपयोग्यतारूपसाधनत्वस्य सत्त्वादित्यर्थः । तच्छरीरगौरवस्थः-स्वरूपसंबन्धस्वरूपसाधनत्वशरीरे गौरवस्याभावाचेत्यर्थः । नित्यस्थले इति, प्रत्येकमिति- शौचे पृथगधिकारत्वं फलकामनायां च पृधगधिकारत्वं तथा च फलकामनाशून्यस्यापि शौचयुक्तस्याधिकारितया नित्याकरण तस्यापि प्रत्यवायं जनयत्येवेत्यर्थः । अदि शौचफलकामनयोरुभयोरेकमेवाधिकारत्वं व्यासक्तं स्यात्तदा फलकामनारूपाधिकारामावे फलकामनारहितस्प शौचयुक्तस्याप्यधिकारित्वाभावप्रसक्त्या तस्य नित्याकरणं प्रत्यवायजनक न स्यादिति शौचफलकामनयोः प्रत्येकमेवाधिकारता स्वीकृतेति भावः ।
पक्षान्तरमाह- अथ वेति, अत्र पक्षेपि शौचफलकामनयोरुभयोः प्रत्येकमेवाधिकारत्वं तथाप्यधिकारैकदेशभूतं शौचादिमत्त्रं यत् तदेव प्रत्यवायजनने सहकारि न तु फलकामनापितदसत्त्वेपि फलकामनाया असत्त्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् तथा च फलकामनाया
"Aho Shrutgyanam"