________________
..इष्टसाधनत्वस्य विध्यर्थत्वम् ] व्युत्पत्तिवादः ।
६३३)
संवलिताधिकारानुपगमे शौचादिशून्यफलकामनावतो देवान्नित्याकरणं प्रत्यवायं जनयेदिति निरस्तम् । अत एव नित्य काम्यजयन्तीव्रतादौ फलकामनाया अधिकारत्वस्य सर्वसिद्धतया शौचादिमतः फलकामनारहितस्य तदकरणं प्रत्यवायं जनयति । अपरे तु 'चैत्यं न वन्देत ' इतिवाक्यप्रामाण्यानुरोधेनेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम्, कृतिसाध्यत्वादिमति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य ना बोधने तद्वाक्यस्याप्रामाण्यापत्तेः । कृतिसाध्यतायाश्च विधित्वं निर्युक्तिकम् - तदनङ्गीकारेपि कृतेराख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया ' पचेत ' इत्यादौ कृतेः पाकानुकूलत्व मानस्य । वश्य कतयाऽर्थात् पाकाअभावेपि प्रत्यवायोत्पत्तिसहकारिणः शौचादिमत्त्वस्य सत्त्वेन प्रत्यवायोत्पत्तेर्नानुपपत्तिरित्यन्वयः । एतेनेति - यत् केनाप्युक्तं संवलिताधिकारानुपगमे = शौचफलकामनोभयव्य सिक्ताधिकाराऽस्वीकारे शौचादिशून्यस्य फलकामनावतोप्यधिकारित्वात् तस्यापि नित्याकरणं प्रत्यवायजनकं स्यात् न चैतदिष्टमित्युभयसंवलितः ( व्यासक्तः ) अधिकार : स्वीकार्यस्तथा च शौचाभावेनाधिकारिवाभावान्न शौचशून्यस्य नित्याकरणं प्रत्यवायजनकमिति तन्निरस्तं यतः संवलिताधिकारानुपगमेपि शौचादिशून्यस्य फलकामनावतोपि नित्याकरणं न प्रत्यवायजनकं भवति - प्रत्यवायोत्पत्ति सहकारिणः शौचादिमत्त्वस्यैवाभावादित्यर्थः । एतेन शौचादिमत्त्वस्य प्रत्यवायोत्पत्तिसहकारिrandणेत्यर्थः । अत एव = शौचादिमत्त्वस्य प्रत्यवायोत्पत्ति सहकारिवादेव, सदरमू नित्यकाम्यजयन्तीव्रताद्यकरणम् | जयंतीव्रतस्य नित्यत्वात् फलकामनायाः असत्त्वेपि प्रत्यवायोरप - त्तिसहकारिणः शौचस्य सत्त्वेन प्रत्यवायोत्पत्तिरुपपद्यत इत्यर्थः ।
८
मतान्तरं प्रदर्शयति- अपरे त्विति, 'चैत्यं न वन्देत ' इतिवाक्यस्य प्रामाण्यमिष्टं तत्रेष्ट - साधनत्वस्य विध्यर्थत्वे ' चैत्यवन्दनमिष्टसाधनत्वाभाववत् । इत्येवं बोधजनकत्वेन प्रामाण्यमु पपद्यते यदि चेष्टसाधनत्वं न विध्यर्थः किं तु कृतिसाध्यत्वमेव तदा चैत्यवन्दने कृतिसाध्यत्व स्य सत्त्वेपि नत्रा कृतिसाध्यत्वाभावबोधने बाधितस्य कृतिसाध्यत्वाभावस्य बोधनेन चैत्यं न वन्देत ' इतिवाक्यस्याऽप्रामाण्यमेवाऽऽवद्येतेत्यर्थः । कृतिसाध्यताया विधित्वम् = विध्यर्थ त्वमुपपद्यपि नेत्याह- कृतिसाध्यतायाश्चेति । निर्युक्तिकत्वमुपपादयति-- तदनङ्गीकारेपीति, कृति. सांध्यताया विध्यर्थत्वा नङ्गीकारे व्याख्यातमात्रस्य कृतौ शक्तिः स्वीकृतेति विधिप्रत्ययस्यापि कृत्य..र्थकत्वम् = कृतौ शक्तिः प्राप्तैव तथा ' पचेत ' इत्यादौ प्रत्ययार्थकृती पाकानुकूलत्वं भासते . एवेति स्वीकार्यम् - कृतेः क्रियाविशेषानुकूलत्वस्वरूपत्वादिति कृतौ पाकानुकूलत्वे प्राप्ते पाकेऽर्थादेव . कृतिसाध्यखं प्राप्नोत्येव न चार्थलभ्यस्य शक्यत्वं युक्तमिति न कृतिसाध्यतायां विध्यर्थत्वं सयुक्तिकमित्यर्थः । नन्विष्टसाधनत्वस्य विध्यर्थत्वे विधिप्रत्ययेन पाकादाविष्टसाधनत्वं बोधनीयं तादृशेष्टसाधनताज्ञानेन च पाकादौ प्रवृत्तिः स्यादिति विधिवाक्यजन्यशाब्दबोधस्य साक्षात् प्रवर्तकत्वं
"Aho Shrutgyanam"