________________
( ६३४ )
सादर्श:
[ आख्यातप्रकरणे
दावपि कृतिसाध्यतामानात् । कृतिसाध्यताया विधित्वेपिं तत्तत्कालतत्तत्पुरुषविशेषविशेषितकृतिसाध्यताविषयकस्य प्रवर्तकज्ञानस्य शाब्दबोधोत्तरमेव स्वीक रणीयतया विधिवाक्पजशाब्दबोधतः साक्षात् प्रवृत्यनिर्वाहात् ।
3
अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिपत्ययजन्यबोधे भानम्, प्रवर्तिका चिकीर्षापि साध्यतासंबन्धेन कृतिप्रकारिका क्रिये - च्छैव । न च लडादिस्यले आख्यातार्थकृतेः क्रियाविशेष्यतयैव भानमिति - व्युत्पत्तेः क्लृप्तत्वात् ' पचेत ' इत्यादौ न तस्याः क्रियाविशेषणतया मानसंभव इतिवाच्यम्, व्युत्पत्तिवैचित्रयेण तदुपपत्तेः शक्त्यभेदोपे व्युत्पत्तिभेदे बाधकाभावात्, अत एव प्राचीनै राख्यातार्थस्यैव कृतेः कर्मप्रत्ययस्थले क्रियाविशेषणतया न स्यादित्याशङ्क्याह- कृतिसाध्यताया इति, कस्य चिदेव कस्मिंश्चिदेव काले किंचित् कृतिसाध्यं भवति न तु सर्वस्य सर्वदा सर्वमिति कृतिसाध्यताया विध्यर्थत्वस्वीकारेपि तत्तत्कालतत्तत्पुरुषविशेषितकृतिसाध्यताविषयकं यत्प्रवर्तकं ज्ञानं तद् विधिवाक्यजन्यशाब्दबोधोत्तरमेव संभवतीति विधिवाक्यजन्यशाब्दबोधानन्तरं जायमानेन कृतिसाध्यता विषय केनोक्तविशेषज्ञानेन प्रवृत्तिः स्यादिति विधिवाक्यजशाब्दबोधस्य त्वन्मतेपि साक्षात् प्रवर्तकत्वं नैव संभवतीत्यर्थः ।
'ननु विधिवाक्यजन्यबोधेपि कृतिसाध्यत्वं भासते एव न तु विधिवाक्य जशाब्दबोधोत्तरमेवेति निगम इत्याह- अस्तु वेति, क्रियायां साध्यत्वमस्तीति तादृशसाध्यत्वसंबन्धेनाख्यातार्थकृतिवि.. सिटी भमानं किं च प्रवर्तिका या चिकीर्षा सापि साध्यसासंबन्धेन कृतिप्रकारिका क्रियेच्छेव भवतु क्रियाया साध्यतास्ति तादृशसाध्यतासंबन्धेन श्रुतिविशिष्टा या क्रिया तादृशक्रियेच्छेव प्रवर्तिका भवत्विति न ज्ञानान्तरमुक्तं विधिप्रत्ययजन्यशाब्दबोघन्तरं जायमानं प्रवर्तकं कल्पनीयम् एवमपि कचित् पाकादावित्र सर्वत्रैव यागपाकादी लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति न कृतिसाध्यत्वं विध्यर्थ इत्यग्रिमेणान्वयः । मध्ये शङ्कते - न चेति, पचति' इत्यादी पाकानुकूलकृतिमान् ' इत्याकारकबोधोदयात् कृतेः क्रियाविशेष्यत्वेन भानं भवतीति पचेत ' इत्यादौः कथं तस्या:=कृतेः साभ्यतासंबन्धेन क्रियायां विशेषणत्वं त्वदुक्तं सङ्गच्छेतेत्यर्थः । उत्तरमाह-- व्युत्पत्तीति, व्युत्पतिवैचित्र्येण = बोधवैचित्र्यप्रभावेन पचेत ' इत्यादौ कृतेः क्रियाविशेषणत्वमप्युपपद्यते एवेत्यर्थः ः । शक्त्यभेदेपीति- यद्यपि ' पचति ' पचेत' इत्युभयत्रैवाख्यातस्याख्यातत्वेन रूपेण कृतौ शक्तिरस्तीति शक्तिभेद: - ' पचति । इत्यत्राख्यातस्य कृतावन्यरूपा शक्ति: : पचेत ? इत्यत्र चाख्यातस्य कृतौ भिन्नरूपा शक्तिरिति शक्तिभेदो नास्ति तथापि बोधभेदे बाधकं किमपि नास्तीति लडादिस्थले कृतेः क्रियाविशेष्यतया भानं भवति लिङादिस्थळे च क्रियाविशेषणतया भानं भवतीत्यर्थः । अत एव शक्त्यभेदेपि व्युत्पत्तिभेदे बाधकाभावादेव कर्मप्रत्ययस्थलेपि कृते: क्रियाविशेषणतया भानं भवति - पाकानुकूलकृतिजन्यपाकजन्य विक्कित्त्याश्रय इत्यादिरित्याह
“
"Aho Shrutgyanam"