________________
(१४)
सादर्शः
[ प्रथमाकारकेयत्तु- समासव्याससाधारण विशेषणपदस्य विशेष्यवाचकपदाऽप्रकृतिकविभत्त्यऽप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशान्वयबोधौपयिकाऽऽकाङ्क्षा, विशेष्यवाचकपदनिष्ठविशेषणवाचकपदाऽप्रकृतिकविभक्त्यऽप्रकृतित्वं च न तथा 'नीलघटमानय ' इत्यादावसंभवादिति, तदसत्- विशेष्यवाचकपदाऽप्रकृतिक. त्वस्य तादृशपदानुत्तरत्वरूपस्य तदुत्तरत्वेनाऽप्रतिसन्धीयमानत्वरूपस्य वा नीलो
समासव्यासयोराकाङ्क्षाया उक्तरीत्या पृथक् पृथक् स्वरूपस्वीकारापेक्षया लाघवाद् यत्केनापि समासव्यासोभयसाधारणमेकमेवाकाङ्क्षास्वरूपं प्रदर्शितं परिहाराय तदुपस्थापयतियत्त्विति । विशेषणेति- यथा 'नीलो घटः' इत्यत्र विशेष्यवाचकघटपदप्रकृतिका विभक्तिः सुविभक्तिः, विशेष्यवाचकघटपदाऽप्रकृतिकविभक्तिरविभक्तिः तादृशाऽविभक्तयऽप्रकृतित्वरूपमेव विरुद्धविभक्तिराहित्यं तदेव तादृशान्वय अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नशाब्दशोधं प्रत्याकाङ्क्षास्तीति एतादृशविरुद्धविभक्तिराहित्यस्य — नीलो घटः । इत्यत्र नीलपदे सत्वादभेदो भासते, विशेष्यवाचकपदोत्तरं या विभक्तिर्नास्ति सा विशेषणवाचकपदोत्तरं न स्यादित्यर्थः । 'नीलस्य घटः' इत्यत्र चोक्तविरुद्धविभक्तिराहित्यस्याकाङ्क्षारूपस्याभावाद् नीलपदे विरुद्धविभक्तरेव सत्त्वादभेदो न भासते । ननु विशेष्यवाचकपदनिष्ठं यद् विराषणवाचकपदाऽप्रकृतिकविभक्त्यऽप्रकृतित्वं . तदेव विरुद्धविभक्तिराहित्यं किं न स्यात् ? यथा- 'नीलो घटः ' इत्यत्र विशेषणवाचकनीलपदप्रकृतिका विभक्तिः सुविभक्तिः नीलपदाऽप्रकृतिकविभक्तिरविभक्तिस्तादृशाऽम् विभक्त्यऽप्रकृतित्वं विशेष्यवाचकघटपदेऽस्त्येवेति लक्षणसमन्वय इत्याशङ्कते- विशेष्येति । परिहरति-न तथेति, 'नीलघटमानय ' इत्यत्राभेदसंबन्धोदाहरणे समन्वयाऽसंभवादित्यर्थः, तथाहि-अत्र विशेषणवाचकनीलपदोत्तरं विभक्तिरेव नास्ति समासस्थले लुप्तविभक्तिस्मरणस्य चाऽस्वीकारात् विशेषणवाचकनीलपदाऽप्रकृतिका याऽविभक्तिस्तत्प्रकृतित्वमेव विशेष्यवाचकघटपदेस्ति न तु तदऽप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमित्य: व्याप्तिर्दोषः । पूर्वोक्तमदुक्तलक्षणेन तु 'नीलघटमानय , इत्यत्रापि विशेष्यवाचकघटपदाप्रकृतिका याऽमिन्नस्वादिविभक्तिस्तदऽप्रकृतित्वं नीलपदेस्त्येव नीलपदोत्तरं कस्यापि विभक्तेरभावादिति न कोपि दोष इत्यर्थः ।
इत्येवमाशय परिहरति- तदसदिति । विशेष्यवाचकेल्यादिलक्षणस्य हि ' विशेषणवाचकपदोत्तरविभक्तौ विशेष्यवाचकपदाऽप्रकृतिकत्वं न स्यात् । इत्ययमेवार्थस्तथा च 'नीलो घटः । इत्यत्र नीलपदोत्तरविभक्तौ घटपदाप्रकृतिकत्वं नास्ति-उभयत्र सुविभक्तरेव सत्त्वेन घटपदप्रकृतिकस्वस्येव सत्त्वात् ' नीलधटम् ' इत्यत्र तु नीलपदोत्तर विभक्तिरेव नास्तीति घटपदाऽप्रकृतिकत्वं सुतरां नास्त्येवेति वक्तव्यम् । विशेष्यवाचकपदाऽप्रकृतिकत्वं च निषिध्यमानं तादृशपदानुत्तरत्यम्= विशेष्यवाचकपदानुत्तरत्वं वा तदुत्तरत्वेन-विशेष्यवाचकपदोत्तरत्वेनाऽप्रतिसन्धीयमानत्वं वा वक्तच्यम् , तत्र हि "प्रत्युच्चारणं शब्दो भिद्यते " इतिन्यायेन 'नीलो घटः । इत्यादौ नीलपदोत्तरं
"Aho Shrutgyanam"