________________
अभेदान्बयाकाङ्क्षानि० ] व्युत्पत्तिवादः ।
(१५) घटः' इत्यादौ नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहतविभक्तिभिन्नतया सत्त्वात् । ___ अथ विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इतिचेत् ? तर्हि विभक्तित्वादिकमजानतः पुरुषस्य तादृशधर्मज्ञानासंभवाच्छाब्दबोधानुपपत्तिः। नीलो घटः । इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां तादृशबोधस्यानुदयात् 'नीलस्य घटः' इत्यादावपि षष्ठयादेः सुविभक्तिभिन्नास्ति घटपदोत्तरं च भिन्नास्तीति नीलपदोत्तरं समभिव्याहृतविभक्तौ उच्चारितसुविभक्तौ घटपदोत्तरसमभिव्याहृतसुविभक्त्यऽपेक्षया भेदस्य सत्त्वाद् निषिध्यमानं विशेष्यवाचकपदाऽप्रकृतिकत्वमेवायातमिति कथमभेदसंबन्धमानं स्यात् ? विशेष्यवाचकपदप्रकृतिकविभक्तविशेध्यवाचकपदोत्तरमेव संभवादिति समासव्याससाधारणं विरुद्धविमक्तिराहित्यं यदुक्तं तन्न युक्तमित्यर्थः।
ननु विरुद्धविभक्तिराहित्येन हि विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्य विवक्षितमस्ति यथा- 'नीलो घटः' इत्यत्र विशेष्यवाचकघटपदोत्तरावृत्तिविभक्तिरमादिविभक्तिस्तद्विभाजको यो धर्मो द्वितीयात्वादिस्तद्वन्द्विभक्तिरमादिविभक्तिस्तद्राहित्यमपेक्षितं तच विशेषणवाचकनीलपदेऽस्त्येव. एवम् — नीलघटम् ' इत्यत्र विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजको धर्मस्तृतीयात्वादिस्तद्वद्विभक्तिराहित्यं नीलपदेऽस्त्येव नीलपदोत्तरं कस्याअपि विभक्तेरसत्त्वादिति नोक्तदोष इत्याशङ्कते- अथेति । परिहरति-तीति, विभक्तिविभाजकत्वादिधर्माणां वैयाकरणस्यैव ज्ञानं संभवति नान्यस्येत्यऽवैयाकरणानाम् 'नीलो घटः' इत्यादावभेदसंबन्धप्रकारकः शाब्दबोधो न स्याद् न चैतदिष्टम् । अयं भावः- उक्तविभक्तिराहित्यमेवाकाङ्क्षा. आकाङ्क्षां च न स्वरूपसती शाब्दबोधं प्रति कारणं किं तु ज्ञाता सत्येव उक्तराहित्यरूपाया विशिष्टाया आकाङ्क्षाया छानं च तद्विशेषणीभूतविभक्तिविभाजकधर्मादीनां ज्ञानं विना न संभवतीति विभक्तित्वादिकमजासतः पुरुषस्य तादृश-विभक्तिविभाजकधर्मज्ञानासंभवेन शाब्दबोधानुपपत्तिरितिदोषः ।
ननु यदि शाब्दबोधं प्रत्याकाङ्का ज्ञाता सत्येव कारणं स्यात्तदोक्तदोषः स्यादपि नैवमस्ति किं तु स्वरूपसत्येवाकाङ्क्षा शाब्दबोधं प्रति कारणमस्ति तथा चाकाङ्क्षाज्ञानापेक्षाऽभावादाऽऽकाङ्क्षारूपस्य विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य कुक्षिप्रविष्टविभक्तित्वादीनामपि ज्ञानापेक्षाभावाद्विभक्तित्वादिकमजानतः पुरुषस्य न शाब्दबोधानुपपत्तिरित्याशब्याह-नीलो घट इति, यद्याकाङ्क्षा स्वरूपसत्येव कारण स्यात्तदा 'नीलो घटः' इत्यत्रोतविभक्तिराहित्यरूपाकाङ्क्षायाः सत्त्वात् सुपदस्याऽम्पदत्वादिभ्रमदशायामप्यऽभेदप्रकारकः शाब्दबोधः स्यादेव न च भवति तस्मादाकाङ्क्षाज्ञानस्यैव कारणत्वं वक्तव्यं तथा चात्राम्पदत्यादिभ्रमदशायामुक्तविभक्तिराहित्यरूपाकाङ्क्षाज्ञानाभावान्न शाब्दबोध इत्युपपद्यते । तथा 'चीलस्य घटः' इत्यादावपि यदा षष्ठयादौ सुपदत्वादिभ्रमो भवति तदोक्तविभक्तिराहित्यरूपा.
"Aho Shrutgyanam"