________________
अभेदान्वाकाङ्क्षावि० ] . व्युत्पत्तिवादः ।
अथ ' नीलस्य घट: ' इत्यादावपि पदार्थोपस्थित्यादिकारणसमवधानसंभवात् कथं न नीलघटाद्योरभेदान्वयबोधः- सामय्या कार्यजनने उक्तनियमभङ्गप्र-सङ्गरूपबाधकस्याकिंचित्करत्वादितिचेत् ? तथाविधान्वयबोधौपयिकाऽऽकाङ्क्षाविरहात् । तथा हि- तादृशान्वयबोधे प्रथमाविभक्त्यन्तघटादिपदसमभिव्याहतप्रथमान्तनीलादिपदत्व मे वाऽसमस्तनीलघटपदाद्याकाङ्क्षा
( १३ )
। उक्तस्थले च तादृश्या एकस्या अप्याकाङ्क्षाया विरहान्नापत्तिः । कार्यतावच्छेदककोटावऽव्यवहितोत्तरत्वनिवेशात्रोक्ताऽऽकाङ्क्षाज्ञानयोः परस्परबा
व्यभिचारः ।
,
प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकज्ञानं कथं न जायते ? यद्युच्येत समानविभक्तिकत्वस्थले एवभेद संबन्धो भासते इति ' नीलस्य वटः इत्यत्राप्यभेदमाने समानविभक्तिकत्वनियमस्य भङ्गो भविष्यतीति, तदा सत्यां सामग्र्यां कार्योत्पत्तौ नियमविशेषमङ्गस्याकिंचित्करत्वेन प्रतिबन्धकत्वं न संभवतीत्याशङ्कते -- अथेति । उत्तरमाह - तथाविधेति । तथाविधः = अभेद संबन्धप्रकारको योऽन्वयबोधः = शाब्दबोधस्तत्कारणीभूताया आकाङ्क्षाया अभावादेव 'नीलस्य घट: ' इत्यत्र नीलघटयोरमेदो न भासते आकाङ्क्षां विना शाब्दबोधास्वीकारात् । उक्तमुपपादयति-तथाहीति । तादृशान्वयबोधे अभेद संबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तनीलपदत्वं व्यासस्थळे आकाङ्क्षा, समासस्थले च घटपदाव्यवहितपूर्ववर्तिनीलपदत्वं ( नीलघटः ) नीलपदाव्यवहितोत्तरवर्तिघटपदत्वं वाऽऽकाङ्क्षा, एतादृशाकाङ्क्षायाश्च कारणत्वाद् उक्तस्थले=' नीलस्य घटा' इत्यत्र चोक्तरूपा एकाव्याकाङ्क्षा नास्तीत्यभेदान्वयबोधकारणीभूताया आकाङ्क्षाया अभाषेनाऽभेद संबन्धप्रकारक शाब्दबोधरूपकार्यस्य सामग्र्येव नास्तीति कथमभेद संबन्धप्रकारकः बोध: स्यादित्यर्थः । आपत्तिः शाब्दबोधापत्तिः ।
नवविधा खल्वाकाङ्क्षा त्वयोक्ता एकस्मिन् स्थले चैकरूपैवाकाङ्क्षा संभवतीत्याऽकाङ्क्षाणामऽपरापराकाङ्क्षाजन्यशाब्दबोधे व्यभिचारात्कथं कारणत्वं स्याद् अव्यभिचारिण एव कारणत्वस्वीकारादित्याशङ्कयाह- कार्यतेति यथा वह्निं प्रत्यनेकेषां तृणारण्यादीनां कारणत्वेपि तृणोत्तरजायमानवहित्वावच्छिन्नं प्रति तृणं कारणम् अरण्युत्तरत्वविशिष्टवह्निं प्रत्यरणिः कारणमिन्येवं कार्यतावच्छेदककोटावऽव्यवहितोत्तरत्वनिवेशेन न तृणादीनां व्यभिचारशङ्का तथात्रापि समासस्थले घटादिपदाव्यवहितपूर्ववर्तिनीलादिपदज्ञानानन्तरत्वविशिष्टशाब्दबोधं प्रति घटादि
पदाव्यवहितपूर्ववर्तिनीलादिपदत्वमाकाङ्क्षा. नीलादिपदाव्यवहितोत्तरवर्तिघटादिपदज्ञानानन्तरत्वविशिष्टशाब्दबोधं प्रति नीलादिपदान्यवहितोत्तरवर्तिघटादिपदत्वमाकाङ्क्षा इत्येवं कार्यतावच्छेदकको टावऽव्यवहितोत्तरत्वनिवेशेनोक्तसमासस्थलीयाकाङ्क्षाज्ञानयोर्नाऽपराऽपरजन्य शाब्दबोधे जयमिचारः - अपरजन्यशाब्दबोधं प्रत्यऽपरस्य कारणत्वाभावादित्यर्थः ।
"Aho Shrutgyanam"