________________
(१२) सादर्शः
[ प्रथमाकारकेमोटार औरत्वस्याविषक्षया देवतापदस्य बहुवचनान्ततेति दिक।
स्वप्रकृतिकत्वं च-स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम्, तेन ‘दधि सुन्दरम् । इत्यादौ विशेष्यपदानन्तरं विभक्तरसत्वेपि न क्षतिः- तत्र विभक्तरनुसंधानं विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभत्त्यऽव्यवहितपूर्ववर्तितया प्रतिसंधीयमानत्वम् , तेन 'इदं दधि' इत्यादौ विशेषणपदानन्तरं विभक्तरसत्त्वेपि न क्षतिः । विवक्षितत्वाद् विशेषणवाचकं देवतापदमपि बहुवचनान्तमेव । पितृपितामहादिनिष्ठदेवतात्वस्य कत्वाभावमुपपादयति-उद्देश्यतेति, त्यागोद्देश्यत्वमेव हि देवतात्वं त्यामोद्देश्यता च पित्रादौ ते उद्देश्यतावच्छेदकं च पितृत्वपितामहत्वादिकं न च पितृत्वपितामहत्वादिकमेकमस्तीत्युद्देश्यतावच्छेदकस्य पितृत्वादेर्भेदेनोद्देश्यताया अवश्यं भेदात्. उद्देश्यताया भेदे उद्देश्यतारूपदेवतात्वस्याऽप्यर्थाद् भेदात् तत्र-देवतात्वे एकत्वस्य बाधितरवेनाविवक्षया देवतापदस्य बहुवचनान्तता । ___ यदुक्तम्- " स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् ( पृ० ४ )" इति तत्र वैयाकरणः स्वप्रकृतिकत्वस्य " स्वनिष्ठोद्देश्यतानिरूपितविधेयतावत्त्वं स्वप्रकृतिकत्वम् " इति लक्षणमुक्तम् . अत्र स्वं घटादिपदं तदुद्दिश्य विभक्तेर्विधानाद् विभक्तौ घटादिपदनिष्ठोद्देश्यतानिरूपितविधेयतायत्त्वमस्त्येव यद्यपि तथापि विभक्तिनिष्ठतादृशस्वप्रकृतिकत्वस्याऽवैयाकरणानां ज्ञानाऽसंभवात् स्वप्रकृतिकत्वस्य स्वविवक्षितस्वरूपमाह- स्वप्रकृतिके ति, स्वं घटादिपदं तत्प्रकृतिकत्वं विभक्ती स्वं घटादिपदं तदऽज्यवहितोत्तरत्वेन
mer तथा च 'दधि सुन्दर
र मिरमानेएि मामले लस विभक्तेः स्मरणस्वीकाराद् विभक्तो दधिपदाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वमस्त्यवेत्याह-तमत्यादिना । तत्र छवि सुन्दरम् ' इत्यादौ । उत्तरत्वेनेतिप्रकारत्वं तृतीयार्थस्तथा चाव्यवहितोत्तरत्वप्रकारकस्मृतिविषयत्वं किं वा उत्तरत्वनिष्ठप्रकारतानिरूपितविशेष्यताश्रयीभूतस्मृतिविषयत्वं स्वप्रकृतिकत्वमिति वाक्यार्थः। स्वप्रकृतिकेत्युक्तवाक्यस्योत्तरभागं व्याकरोति- एवमिति । तादृश स्वप्रकृतिक । तथाविधस्वप्रकृतिक । विशेषणयाचकपदे यत्स्वप्रकृतिकविभक्तिसजातीय विभक्तिकत्वमस्ति तत् तथाविधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वमेव यथा 'नीलो घटः ' इत्यत्र घटपदोत्तरवर्तमा"नप्रथमाविभक्त्यव्यवहितपूर्ववर्तितया ज्ञानविषयत्वं नीलपदेस्त्येव, तथा च ' इदं दधि ' इत्यत्र दधिपदोत्तरं विभक्तेरभावेपि तस्याः प्रतिसन्धीयमानत्वात् तत्पूर्ववर्तितया प्रतिसन्धीयमानस्वरूपं ज्ञानविषयत्वं दधिपदेऽस्त्येवेति न कोपि दोष इत्यर्थः । __ननु सत्यां सामन्यां कार्योत्पत्तिर्भवत्येव शाब्दबोधं प्रति चोपस्थि-यादिकमेव कारणं तत्र “नीलस्य घटः' इत्यत्र नीलपदेन नीलत्वावच्छिन्नविषया घटपदेन च घटत्वावच्छिन्नविषयोपस्थितिरप्यस्त्येव नीलघटयोरभेदस्य योग्यताज्ञानमस्त्येवेत्याभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्न
"Aho Shrutgyanam"