________________
समानवचनत्वपरि० ] शक्तिवादः।
(११) दीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः, तथा सत्येषामेकैकसमवधानदशायामाप कार्योत्पत्तेरावश्यकतया तदात्रतयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वाऽनुपपत्तः।
एवम् “जात्याकृतिव्यक्तयः पदार्थः " इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेपि विशेषणपदस्यैकवचनान्ततोपपत्तिः।
प्रत्यक्षानुमानेत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाऽविवक्षितत्वात् प्रमाणपदस्य बहुवचनान्ततेति । __ एवम् “ पितरो देवताः" इत्यत्रापि पितृपितामहादीनां सहितानामेकरूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । त्त्वेप्यपरद्वयाभावे काव्योत्पत्त्य दर्शनादिति तृणार शिमणिन्यायेन हेतुत्वशङ्का निरासः । विपक्षे बाधकमाह- तथासतीति, काव्यं प्रति शक्त्यादीयों तृणारणिगिन्यायेन हेतुत्वे सति शक्त्यादिध्वकैकमात्रसत्त्वदशायामपि काव्यलक्षणकार्योत्पत्तरावर कतया शक्त्यादित्रितयपर्याप्तं यत्समुदायत्वं तस्य काव्यलक्षणकार्योत्पत्तिं प्रति प्रयोजकतावच्छेदकत्वं न स्यादिति प्रयोजकतामा कत्यापत्तौ तेषाम्-शक्त्यादीनां त्रयाणां तथाविधम् कार्योत्पादप्रयोजकतावच्छेदकं यदेक समुदायत्वं तदाश्रयत्वं न स्यादेव तथा चकैकसमवधानदशायामपि काव्योत्पत्त्याऽऽपत्ती तृणारणिमणिन्यायेनैव हेतुत्वं स्यात् तथा च "हेतुः" इत्येकवचनमनुपपन्नं स्यात्तस्माच्छक्त्यादीनां त्रयाणामपि काव्योत्पत्तिप्रयोजकतावच्छेदकसमुदायत्वाश्रयत्वं स्वीकार्य ततश्च तादृशसमुदायत्ये . एके एकवचनाथूकत्वस्यान्वक्स्तथा च न कोपि दोष इत्यर्थः । ___ "जात्याकृतिव्यक्तयः पदार्थः" इत्यत्रत्यविभिन्नवचनकत्वस्य व्यवस्थां व्याकरोति–एवमिति । त्रितयनिष्ठस्य-जात्याकृतिव्यक्तिनिष्टस्य पदार्थत्वस्यैकत्वं विवक्षितमस्ति यतः पदवाच्यत्वं तर्कमते जात्याकृतिव्यक्तित्रितयपर्याप्तमस्तीति विशेष्यपदस्य-जात्याकृतिव्यक्तिपदस्य बहुवचनान्तत्वेपि विशेषणपदस्य-पदार्थपदस्यैकवचनान्तत्वं युक्तमेव । पदार्थत्वं पदार्थे भवति पदशक्तिरपि निरूपकस्वसंबन्धेन पदार्थे भवतीति पदार्थत्वस्य पदशक्तिरूपत्वमुक्तमित्यवधेयम् ।
प्रत्यक्षेति-"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र प्रमाणानीतिबहुवचनान्तस्य प्रकृत्यर्थतावच्छेदकं यते प्रमाकरणत्वं तस्यैकस्य प्रत्यक्षादिप्रमाणचतुष्टयेऽसंभवेन बाधितत्वात् प्रमाकरणत्वनिष्ठकत्वस्याऽविवक्षितत्वेन प्रमाणपदस्थात्र बहुवचनान्तस्वम् । प्रत्यक्षादीनामिन्द्रियसंयोगादिलक्षणसामग्रीभेदेन तन्निष्ठप्रमाकरणत्वस्यापि भेदादित्यर्थः। .
"पितरो देवता: 'इत्यत्रत्यसमानवचनत्वमुपपादयति-एवमिति 1 पितृपितामहादिष्वेकं देवतात्वं नास्तीति पितृपितामहादिषु यद् देवतात्वं तत्रैकत्वं नास्तीत्येकत्वस्याऽविवक्षितत्वाद् बहुत्वस्य च
"Aho Shrutgyanam"