________________
(१०)
सादर्श:
[प्रथमकारकेयत्तु- एकत्वाविवक्षायामाप भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात् संख्याया अविवक्षणेपि 'संपन्नो व्रीहिः' इत्यादावेकवचनोपपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति, तदप्यकिंचित्करम्- भावाख्यातस्थले गत्यन्तरविरहेण विभक्तनिरर्थकत्वोपगमात्, अत्र च सार्थकत्वोपगमसंभवे तत्परित्यागस्यानुचितत्वात्, सति तात्पर्ये तद्बोधस्याऽऽनुभविकत्वाचेति ।
एवम् “त्रयः समुदिता हेतुः' इत्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरं तादृशसमुदायत्वान्वितमेकत्वमेकवचनार्थः, अत एव शक्त्याघटत्वजाताधेकत्वान्वयः कर्तव्यः किं वा स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेन घटेष्वेवान्वयः कर्तव्यः स्वमेकत्वं तदाश्रयीभूतं यत् प्रकृत्यर्थतावच्छेदकं घटत्वं तद्वत्त्वं सकलघटेष्वस्त्येव तेन संब: न्धेनानेकघटेष्वप्येकत्वान्वये न कोपि दोष इत्यर्थः।।
ननु 'आख्यातार्थसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितिः कारणम्' इति नियमेन 'देवदत्तः पचति'तण्डुलः पच्यते' इत्यादौ देवदततण्डुलादिप्रथमान्तपदसत्त्वेन तत्र देवदत्ततण्डुलादावाख्यातार्थसंख्याया अन्वयेन साक्येपि त्वया गम्यते' 'अन्यर्गम्यते' इत्यादी भावाख्यातस्थले प्रथमान्तपदामायेनाख्यातार्थसंख्याया क्वचिदप्यन्वयाभावात् सार्थक्यं न भवति तत्कस्य हेतो; संख्याया अविवक्षणात् , तथा च यथा भावाख्यातस्थले संख्याया अविवक्षायामप्येकवचनस्य साधुत्वं भवति' तथा 'संपन्नो व्रीहिः' इत्यादावपि संख्याया अविवक्षायामप्येकवचनस्य साधुत्वं संभवतीति किमर्थं ब्रीहित्वजातावेकत्वान्वयेन गौरवमाश्रीयते इत्याशङ्कते-- परिहरति-तदपीति, भावाख्यातस्थले प्रथमान्तपदाभावेनाख्यातार्थसंख्यायाः कचिदप्यन्वयासंभवाद् गत्यन्तरविरहेण निरर्थकत्वस्वीकारेपि सर्वत्र नि
वाश्रयणं तु न युक्तं भवति तस्मात्र='संपन्नो व्रीहिः' इत्यादौ च संख्याया जाताबन्धज्यन सार्थकत्वसंभवे तत्परित्यागस्य विभक्तयर्थसंख्यासार्थकत्वपरित्यागस्थानुचितत्वात् । प्रत्युत् 'संपन्नो व्रीहिः ' इत्यादावत्यावश्यक संख्यासार्थकत्वमित्याह- सतीति । तद्बोधस्य-संख्याबोधस्यानुभविकत्वाद् वक्तुः संख्यायां तात्पर्य सति संख्याबोधोपि भवत्येवेतिप्रसिद्धमेव तथा च कथं सर्वत्र संख्याया निरर्थकलं स्यादित्याक्षेपः ।
"त्रयः समुदिता हेतुः" इत्येकवचनस्य गतिमाह-एवमिति । कार्य काव्यम् , उत्पादः इत्पत्तिः, काव्योत्पत्तिप्रयोजकता च शक्तिनिपुणताभ्यासानां त्रयाणां समुदायेस्तीति प्रयोजकतावच्छेदकं समुदायत्वं तादृशसमुदायत्वावच्छिन्नसमुदायपरं चात्र हेतुपदमिति तादृशसमुदायत्वे एकस्वान्वयः । तादृशसमुदायत्व-कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्व । एकत्वविशिष्टं यत्कार्यो"त्पादप्रयोजकतावच्छेदकसमुदायत्वं तद्धर्मवन्तस्त्रय इति वाक्यार्थः । अत एव समुदायत्वे एकस्यान्वयस्वीकारादेव यथा तृणारणिमणीनां वह्नि प्रति पृथक् पृथगेव हेतुत्वमस्ति केवलतृणसत्त्वेपि वद्युत्पत्तिदर्शनात्, न तथा शक्त्यादीनां काव्यं प्रति पृथक् पृथग् हेतुत्वमस्ति शक्त्यादिष्वेकैकस
"Aho Shrutgyanam"