________________
( ७० )
सादर्श:
[ प्रथमाकार के -
राजपुरुषः ' इत्यादि समासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किं तु तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोरस्याप्यराजसंबन्ध्यादेरभेदान्वयबोध एवेति न दोषः । एवम्- ' मुखं चन्द्रः इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे लक्षणया चन्द्रादिसदृशाऽभेदान्वयबोध एव न तु सादृश्यादिसंबन्धेन चन्द्रादेर्मुखादावन्वय इति नः तत्र व्यभिचारः ।
"
क्षणं बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववत् ' इतिबोधोदयात्. अत्र च धात्वर्थमक्षस्यैवाभावानुयोगिवात् । प्रभाकरमते तु विध्यर्थापूर्वाशे विशेषणतयान्वितेन ननुपस्याप्याभावेन सह धात्वर्थमक्षणस्य प्रतियोगित्वरूपेण साक्षादेवान्वयः - ' कलञ्जभक्षणप्रतियोगि काभाववदपूर्वमुत्पादयेत्' इतिबोधोदयात् अत्र च धात्वर्यभक्षणस्याभावप्रतियोगित्वेन भानात, तथा चात्र धात्वर्थस्य निपातरूपनञर्थाभावस्य च परस्परं साक्षादेव मेदसंबन्धेनान्वयस्येष्टत्वान्निपातातिरिक्तेतिविशेषणं चरितार्थम् । विध्यर्थश्वापूर्वमिति प्राभाकराणां संकेतस्तदुक्तं तै:- "क्रियाक्षणविनाशिनी न कालान्तरभाविनः स्वर्गादे: साधनायोपपद्यते इति कालान्तरस्थायि क्रियातो भिन्नं कार्यपूर्व लिङादयो बोधयन्तीति स्थितम् । न च कार्याभिधानं कृतिमनभिदधतां लिङादीनामुपपद्यते इति कृतिमप्यभिदधति, अपूत्र च । " इति । न क्षतिरिति - मेदसंबन्धेन नामार्थयोर्नामा - धास्वर्थयोश्च साक्षादन्ययाभावो निपातातिरिक्तेति विशेषगात्, निगतार्थेन तु भेदसंबन्धेनापि साक्षादन्वयो भवत्येवेति प्राप्त्या ' भूतडे न घंट: ' इत्यादौ निपातार्थनामार्थयोः ' न फल भक्षयेत्' इत्यादी धात्वर्थनिपातार्थयोः प्रदर्शितरीत्या मेदसंबन्धेन साक्षादप्यन्वये न क्षति:= न दोषः = नोक्तनिपातातिरिक्तेत्यादिकस्य मेदसंबन्धेनान्वयामावनियामकस्याव्याप्तिरित्यर्थः ।
ननु मेदसंसर्गावच्छिन्ननामार्थनिष्ठ प्रकारता निरूपित विशेष्यतासंबन्धेन शाब्दबुद्धिवावच्छिन्नं प्रति विभक्तिनिपातान्यतरजन्योपस्थितेः कारणत्वात् ' राजपुरुषः ' इत्यत्र च विभक्त्यभावेन तज्जन्यतदर्थोपस्थित्यभावात् कथं भेद ( स्वत्व ) संबन्धेन राजप्रकारकपुरुषविशेष्यकबोधः स्यादित्याशङ्क्य समासस्थले मेदान्वयबोधं पराचष्टे - राजपुरुषेति । तर्हि कथमत्रान्वयबोधः १ इत्याश. क्याह-- किं त्विति, तेन = पुरुषपदार्थेन सह । विभक्त्येति - विभक्त्यन्तस्य राज्ञ इति पदस्य योर्थः = राजसंबन्धस्तद्विशिष्टे = राजसंबन्धविशिष्टे राजसंबन्धिनि लाक्षणिकं यद्राजपदं तदुपस्थाप्यों यो लक्षणया राजसंबन्धी तस्य पुरुषपदार्थेनाभेदान्वय एवात्र - राजसंबन्ध्यऽभिन्नः पुरुष इति न दोषःस् इस्प्रत्ययजन्योपस्थित्यभावादत्र भेदान्वयबोधस्यापत्तिर्नास्त्येव येन दोषः स्यादित्यर्थः ।
मुखं चन्द्र इव' इत्यत्र तु इक्पदजन्योपस्थिति सत्त्वेन मेदान्त्रयबोधो भवति ' मुखं चन्द्रः ? इत्यादिरूपकस्थळे तु इवपदजन्योपस्थित्यभावेनामेदान्वयबोध एव भवति, अत्र चन्द्रपदस्य चन्द्रसदृशे लक्षणा तथा च चन्द्रसदृशाऽभिन्नं मुखमित्य मेदान्वयबोध एव न तु स्वप्रतियो
"Aho Shrutgyanam"