________________
नामार्थयोरन्वयविचारः] व्युत्पत्तिवादः ।
केचित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे न लक्षणा किं तु तत्र मुख्यार्थचन्द्रादेरेवाऽभेदभ्रमो मुखादौ । 'मुखं न चन्द्रः' इत्यादिविशेषदर्शनद. शायां च न तत्र शाब्दोऽभेदप्रत्ययः. अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाऽऽहार्याऽभेदभ्रम इत्याहुः।
परे तु- तादात्म्यातिरिक्तसंबन्धेन नामार्थयोनान्वयबोधः, तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम्, एवं च 'नीलो घटः' इत्यादौ स्ववृत्तिनीलत्वादिम
वसंबन्धेन घटायंशे नीलपदार्थस्येव 'मुखं चन्द्रः' इत्यादौ स्ववृत्त्याल्हादकत्वागिकसादृश्यसंबन्धेन चन्द्रस्य मुखे भेदान्वयो येन इवपदजन्योपस्थित्यभावेपि भेदान्धयारत्त्या व्यभिचारः स्यादित्यर्थः ।
आलङ्कारिकमतमाह- केचित्त्विति, 'मुखं चन्द्रः । इत्यादिरूपकस्यले चन्दादिसादृश्यं न प्रतीयते किं तु चन्द्राद्यऽमेद एव प्रतीयते-- चन्द्राभिन्नं मुखमिति, अतो न चन्द्रादिपदस्य चन्द्रादिसदृशे लक्षणा किं तु तत्र रूपकस्थले मुखादौ मुख्यार्थस्य चन्द्रादेरेवाऽभेदस्थ भ्रमो भवति-वस्तुतश्चन्द्रमुखयोभिन्नत्वात् । यदि च रूपकस्थले चन्द्रपदस्य चन्द्रसदृशे लक्ष गा स्यात्तदा मुखे चन्द्रसादृश्यमात्रप्राप्तौ रूपकोपमयो दो न स्यादुपमायामपि चन्द्रादिसादृश्यस्य लाभादिति रूपके उपमानोपमेययोरभेद एव प्रतीयते इत्यर्थः । यदा च 'मुख न चन्द्रः' इत्याकारकं विशेषदर्शनम्मे दज्ञानं वर्तते तदा तत्र एकस्थले उपमानोपमेययोरभेदप्रत्ययोपि न शाब्दो भवति किं तु शब्दजन्यविशकलितादिपार्थोपस्थितिमूलकः शुख चन्द्रशब्दाभ्यां विश कलिता-परस्परं संबन्धरहिता मुखचन्द्रपदार्थयोरुपस्थितिर्जायते तन्मूलको मानस पवाऽऽहार्याभेदभ्रमो जायते । (बाधज्ञानकालीनेच्छाजन्यं ज्ञानमाहार्यम् । सामान्यतो बाधज्ञानकाले भ्रमो में भत्रति यस्तु भ्रमो बाधज्ञानकालेपि वर्तते स आहार्यभ्रम इत्यर्थः । - परे विति- नामार्थयोः प्रातिपदिकार्थयोः परस्परं साक्षात् तादात्म्यसंबन्धेनैवाऽन्वयो भवति न तु तादात्म्यातिरिक्तसंबन्धेन । तादात्म्यातिरिक्तेन कर्मत्वादिरूपेण भेदसंबन्धेन तु प्रत्य। यार्थमन्तराकृत्यैवान्वयो भवति स: तु न साक्षाद् भवति प्रत्ययार्थस्य मध्यपातित्वात् तथा चोक्तायाः "निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् (पृ० ६८)" इतिव्युत्पत्तेरप्ययमेवार्थ इत्यर्थः । तादात्म्यस्व. रूपमाह- तादात्म्यमिति । तद्वृत्ति-प्रतियोगिवृत्ति । तथा च 'नीलो घटः' इत्यत्र स्व: वृत्तिनीलत्ववत्त्वसंबन्धेन घटे नीलपदार्थस्यान्वयो भवति स्ववृत्तिनीलस्ववत्त्वमेवात्र तवृत्तिधर्मवत्वं तदेव तादात्म्यरूपः संबन्धः- स्वं नीलपदार्थः तद्वृत्ति नीलत्वं च गुणरूपं नीलरूपमेवगुणवाचकनीलादिपदस्य गुणिपरत्वे ताशनीलादिपदार्थनिष्ठस्य नीलत्वादेर्गुणरूपत्वाद् गुणस्वरूपनीलत्वादेर्गुणमात्रवृत्तित्वेन गुणिनि द्रव्ये बाधात्, अथ च नीलोपि घट एवेति नीलवृत्ति नीलत्वं घटवृत्त्येवेति नीलत्ववत्त्वं घटे वर्तते तेन संबन्धेन घटे यथा नीलपदार्थ
"Aho Shrutgyanam"