________________
(७२) सादर्श:
[ प्रथमाकारकेदिमत्त्वसंबन्धेन मुखादौ चन्द्रादेरन्वयबोधः, तादृशान्वयबोधेपि समानविभक्तिकत्वं तन्त्रमित्यती नातिप्रसङ्ग इति वदन्ति ।
अथ 'राजा पुरुषः' इत्यादौ पदार्थोपस्थित्यादिसत्त्वेन कथं न भेदान्वयबोधः ?, सामय्या कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजनक्षतेरकिंचित्करत्वात्, सामग्रीसत्त्वेऽवश्यं कार्यमितिनियमात् ।।
न च तत्र भेदान्वयबोधौपयिकाकाङ्क्षाविरहाच्छाब्दसामग्र्येवासिद्धेति वा. च्यम्, समभिव्याहाररूपाकाङ्क्षायास्तत्रापि सत्वात् । न च तादृशाकाङ्क्षायास्तत्र सत्त्वेपि राजादिपदार्थप्रकारकभेदान्वयबोधे राजादिपदाऽव्यवहितोत्तरङस्पदत्वरूपानुपूर्वोविशेषरूपाया आकाक्षाया आप प्रयोजकत्वात् तदभावा
देव न तत्र शाब्दसामग्रीति वाच्यम्, संबन्धादिविशेष्यकराजादिप्रकारकान्वयस्याभेदान्वयस्तथा 'मुखं चन्द्रः' इत्यत्रापि स्ववृत्त्याल्हादकत्ववत्त्वलक्षणेन तादात्म्यसबन्धेन मुखे चन्द्रस्याभेदान्त्रयः, स्वं चन्द्रः. चन्द्रवृत्त्याल्हादकत्यवत्त्वं च मुखेऽस्त्येव । नन्वेवं गुणरूपनीलत्वं घटेऽस्त्येवेति तेन संबन्धेन 'नीलस्य घटः' इत्यत्राऽप्यभेदान्वयबोधः स्यादित्याशक्याह-तादृशेति, उक्ततादात्म्यसंबन्धेनाप्यभेदान्वयबोधे समान विभक्तिकत्वं प्रयोजकमस्तीति 'नीलस्य घटः' इत्यत्र समानविभक्तिकत्वाभावादेवाभेदान्वयबोधो न भवतीति नातिप्रसङ्गः । 'नीलो घटः' 'मुखं चन्द्रः' इत्यादौ च समान विभक्तिकत्वस्य सत्त्वादऽभेदान्वयबोधो भवस्यवेत्यर्थः । • ननु 'राजा पुरुषः' इत्यत्रापि राजपदजन्यराजोपस्थितिः पुरुषपदजन्यपुरुषोपस्थितिरस्ति पुरुषे राजसंवन्धयोग्यतासत्त्वाद् योग्यताज्ञानमप्यस्ति राजसंबन्धिपुरुषविषयकबोधो भवत्विति तात्पर्यज्ञानमध्यस्त्येवेति मेदान्वयबोधकसामग्रीसत्वे भेदान्वयबोधस्यावश्यंभावात 'निपातातिरिक्त. नामार्थयोः साक्षाद् भेदान्वयो न भवति' इत्युक्तनियमभङ्गरूपायाः प्रयोजनक्षतेः-प्रयोजकक्षते. रबाधकत्वादित्याशङ्कते- अथेति ।
ननु शाब्दबोधं प्रत्याकाङ्क्षाया अपि कारणत्वमस्ति भेदान्धयबोधं प्रति च डस्पदसममि. व्याहाररूपाया ङसन्तराजादिपदसमभित्र्याहाररूपाया वा आकाङ्क्षायाः कारणत्वादेतादृशाकाङ्क्षायाः ‘राजा पुरुषः' इत्यत्रामावाद् भेदान्वयबोधौरयिकसामन्येव नास्तीति कथं भेदान्वयबोधः स्थादित्याशङ्क्याह- न चेति । परिहारमाह-समभिव्याहारेति, राजपदपुरुषपदसमभिन्याहाररूपाकाङ्क्षायास्तत्र='राजा पुरुषः' इत्यत्रापि सत्तादेव भेदान्वयबोधः स्यादेवेत्यर्थः । ननु तादृशाया: राजपदपुरुषपदसममिव्याहाररूपाया आकाङ्क्षायास्तत्र= राजा पुरुषः' इत्यत्र सत्त्वेपि या खलु राजादिपदार्थप्रकारकमेदान्चयबोधप्रयोजिका राजादिपदाव्यवहितोत्तरङस्पदत्वरूपानुपूर्वीरूपाऽऽकाङ्क्षा तस्या अभावादेव न तत्र= राजा पुरुषः' इत्यत्र भेदान्वयशाब्दसामग्रीति कथं भेदान्वयबोधः स्यादित्याशङ्क्याह--न चेति । परिहारमाह-संबन्धादीति, राजपदार्थप्रकारकषष्ठ्यर्थस्वत्वसंबन्धविशेष्यकशाब्दबोधं प्रत्येव तादृशाकाङ्क्षाज्ञानस्यः-राजपदोत्तरङस्
"Aho Shrutgyanam"