________________
भेदान्वयविचारः ]
व्युत्पत्तिवादः ।
बोधे एव तादृशाकाङक्षाज्ञानस्य हेतुतया पुरुषादौ राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् ।
अत्र केचित् - नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्यय जन्योपस्थितेर्हेतुत्वकल्पनान्नामार्थप्रकार कभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य तत्र विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात् ।
पदाकाङ्क्षाज्ञानस्य हेतुत्वमस्ति न तु राजपदार्थप्रकारकपुरुष विशेष्यकशाब्दबोधं प्रत्यपि मया च 'राजा पुरुषः' इत्यत्र न राजप्रकारकस्वत्व संबन्धविशेष्यकबोधापत्तिरुच्यते किं तु पुरुषविशेव्यकशाब्दबोधापत्तिः, पुरुषविशेष्यकशाब्दबोधं प्रति तु ङसन्तराजपदसमभिव्याहाररूपाया आकाङ्क्षायाः कारणत्वमेत्र नास्ति, अन्यथा 'राजपुरुष:' इत्यत्रापि पुरुषविशेष्यको बोधो न स्यादेव तथा च तादृश= ङसन्तराजपदसमभिव्याहाररूपाकाङ्क्षाऽमावस्याऽकिंचित्करत्वात् पुरुष विशेष्यकशाब्दबोधाप्रतिबन्धकत्वात् 'राजा पुरुष : ' इत्यत्र राजप्रकारकपुरुषविशेष्यको मेदान्ध - यबोधः स्यादेवेत्यर्थः । किं वा भेदलक्षणस्वत्व संबन्धस्य प्रकारतया शाब्दबोधे बसन्तराजपद समभिव्याहारस्य कारणत्वमस्ति स्वत्वोपस्थापकङसऽभाचे स्वत्वानुपस्थितौ स्वत्वस्य प्रकारतया भानासंभवादुपस्थितस्यैव प्रकारतया माननियमात, मया तु स्वत्वसंबन्धस्य संसर्गतया भानमुच्यते संसर्गतया भानं त्वनुपस्थितस्याप्याकाङ्क्षाबलाद् भवत्येवेति 'राजा पुरुषः' इत्यत्र पुरुषविशेष्यकः स्वत्वसंसर्गकः कथं न शाब्दबोधो भवतीति पूर्वपक्षाभिप्रायः ।
,
अत्र केचिदिति, नामार्थप्रकार कभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेर्हेतुत्वकल्पनान्न ' राजा पुरुषः- इत्यत्र राजप्रकारकपुरुषविशेष्यकभेदान्वयबोधस्यापत्तिरित्यन्वयः । नामार्थयोस्साक्षाद् भेदान्वयबोधो नैव भवति किंवा साक्षाद् नामार्थप्रकारकनामार्थविशेornमेदान्वयबोधो नैव भवतीति सिद्धान्तः - नामार्थस्य प्रत्ययार्थेन वा निपातार्थेन वा भेदान्वasarत् । 'नीलो घटः' इत्यादौ त्वभेदान्त्रयबोध एवेति न नीलघटयोर्नामार्थयोर्भेदान्वयबोधः । 'राज्ञः पुरुषः' इत्यादौ च नामार्थपुरुषे न साक्षाद्राजपदार्थान्वयः किंतु राजा निरूपितत्वसंबन्धेन स्वत्वे प्रकारः षष्ठयर्थभूतं तादृशस्वत्वं चाश्रयत्वसंबन्धेन पुरुषे प्रकारस्तथा चात्र-निरूपितत्वसंबन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपिताश्रयत्व संबन्धावच्छिन्नस्वत्वत्वावच्छिन्न प्रकार तानिरूपित पुरुषत्वावच्छिन्नविशेष्यताकः शाब्दबोधः किं वा निरूपितत्वसंबन्धावच्छिन्न राजत्वावच्छिन्नप्रकारतानिरूपितस्वत्वनिष्ठविशेष्यतासमानाधिकरणप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्य
शाब्दबोधो भवति । नामार्थप्रकारकभेदान्वयबोधश्च प्रत्ययार्थस्य भवति तत्र प्रत्ययार्थे विशेष्यतासंबन्धेन शाब्दबोधो यदा भवति तदा विशेष्यतासंबन्धेन तत्र प्रत्ययजन्योपस्थितिरपि भवत्येव यथा ' राज्ञः ' इत्यत्र राजपदेन राजोपस्थितिर्भवति इस्पदेन च स्वत्वोपस्थितिर्भवति राजपदार्थस्य स्वत्वे भेदलक्षणेन निरूपितत्व संबन्धेनान्ययो भवतीति नामार्थराजप्रकारस्वत्ववि -
ताकः
( ७३ )
"Aho Shrutgyanam"