________________
( ७४ )
सादर्श:
[ प्रथमाकारके
2
न च संबन्धादेरपि नामार्थतयाः तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेव्यतया भानानुपपतिः, तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छित्रं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेपि ' राजसंबन्धः प्रमेयः ' राज्ञः पुरुष:' इत्येतादृशवाक्यद्वयजन्यवाक्यार्थद्वयान्वयबोधे पुरुषस्य राजसंबन्धविशे'ष्यतया मानानुपपत्तिरिति वाच्यम्, प्रत्ययाधीनतत्तत्पदार्थोपस्थित्य जन्यतदर्थमशेष्यकभेदान्मयबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वमुक्तमत्र च स्वत्वस्य डस्प्रत्ययजन्यौपस्थितिरप्यस्तीति सर्व सुस्थम् । राजा पुरुषः ' इत्यत्र च पुरुषस्य पुरुषपदजन्योपस्थित्या प्रत्ययजन्योपस्थित्यभावाद् न राजप्रकारको भेदान्वयबोधः संभवतीत्यर्थः । तथा च नामार्थप्रकार मेदान्वयबोधे प्रत्ययार्थस्यैव विशेष्यतया मानं भवति प्रत्ययजन्योपस्थितिविषयत्वात्, नामामेदान्वयबोधे नामार्थान्तरस्य तु विशेष्यतया मानं नैव भवति तत्र = नामार्थान्तरे विशेष्यतासंबन्धेन प्रत्यय जन्योपस्थितेरसंभवादित्येवाह - नामार्थेति ।
६
看
,
ननु यदि नामार्थप्रकारकमेदान्चयबोधं प्रति प्रत्ययजन्योपस्थितेर्हेतुत्वं तदा राज्ञः पुरुषः ' इत्यत्र षष्ठयर्थस्वत्वप्रकारकपुरुषविशेष्यकबोधोपि न स्यात् - संबन्धभूतं यत् षष्ठयर्थस्वत्वं तदि यथा डस्प्रत्ययस्यार्थस्तथा स्वत्वरूपनाम्नः संबन्धरूपनाम्नश्चार्थो भवत्येवेति स्वत्वरूप संबन्धस्यापि नामार्थतया स्वत्वप्रकारक बोधेपि पुरुषस्य विशेष्यतया भानं न स्यात् - प्रत्ययजन्योपस्थितिविषयत्वाभावादित्याशङ्कते - न चेति । ननु यन्नामार्थप्रकारकः शाब्दबोध इष्टः स यदा प्रकारीभूतनामार्थवाचकनामपदजन्यो भवति तदा तादृशशाब्दबोधं प्रत्येव प्रत्ययजन्योपस्थितेर्हेतुत्वमुच्यते यथा राज्ञः इत्यत्र षष्ठ्यर्थस्वत्वविशेष्यकबोधे नामार्थस्य राजपदार्थस्य निरूपितत्वसंबन्धेन स्वत्वे प्रकारत्वमस्ति. अथ चायं शब्दबोधो राजनामपदजन्योप्यस्त्येवेत्येतादृशशाब्दबोधं प्रति प्रत्ययजन्योपस्थितैः कारणत्वमस्ति अत्र च स्त्रत्वस्य विशेष्यस्य उस्प्रत्ययेनैवोपस्थितिरस्त्येवेति न काप्यनुपपत्तिः राज्ञः पुरुषः इत्यत्र तु पुरुषविशेष्यक बोधे पुरुषे प्रकारीभूतस्य स्वत्वस्य यद्यपि नामार्थत्वमस्त्येव नामार्थत्वस्य केवलान्वयित्वात् तथापि स्वत्वस्योपस्थितिर्नात्र नामजन्या किं तु ङस्प्रययजन्यैवेति शाब्दबोधस्य प्रकारीभूतं यत्स्वत्वं तस्य तद्वाचकस्वत्वादिनामपदजन्यत्वाभावानात्र प्रत्ययजन्योपस्थितेः कारणत्वमिति पुरुषस्य प्रत्ययजन्योपस्थित्यविषयत्वेपि विशेष्यतया माने न काप्यनुपपत्तिरित्याशङ्कयाह- तत्तन्नामपदेति । अत्रापि दोषमाह - राजसंबन्धेति, तत्तन्नामपदजन्येत्यादिनियमे कृतेपि ' राजसंबन्धः प्रमेयः ' राज्ञः पुरुषः इत्येतादृशवाक्यद्वयजन्यो यः समूहालम्बनामको बोधस्तत्र पुरुषस्य राजसंबन्धविशेष्यतया यदिष्टं भानं तन्न स्यात्, अत्र षष्ठ्यर्थ स्वत्वस्य यथा ङस्पदेनोपस्थितिरस्ति तथा राजसंबन्धः इतिसंबन्धपदेनाप्यस्त्येवेत्यत्र नामपदजन्यनामार्थप्रकारकशाब्दबोधो जायते संबन्धेतिनामपदजन्यत्वात् संबन्धेति नामार्थस्वत्वप्रकारकत्वाच्च पुरुषस्य च प्रत्ययजन्योपस्थितिर्नास्तीति राजसंबन्धविशेष्यतया मानानुपपतिरिति पूर्वपक्ष: ।
८
9
4
7
८
4
"
"Aho Shrutgyanam"